Monday, 19 December 2016

सा खलु माता मम माता ॥

माता क्रीडति मया साकं
माता स्वपिति च मम पार्श्वे
लालयति मां स्वापयति मां
माता खलु मम प्राणसखी॥

स्तन्यं / क्षीरं दत्वा पोषयति सा
मधुरंदत्वातोषयति सा
गीतं गत्वा चोदयति सा
सा खलु माता मम माता

कथयति रात्रौ विविध कथा
विहरति गगने पतङ्गमिव
सत्यं धर्मं चेतसि दातुं
कथयति माता  मधुरकथा
19/12/2016

Saturday, 19 November 2016

॥ संस्कृताष्टकम् ॥

अग्रतः संस्कृतं मेऽस्तु पृष्ठतो मेऽस्तु संस्कृतम् ।
संस्कृतं हृदये मेऽस्तु विश्वमध्येऽस्तु संस्कृतम् ॥ १॥

संस्कृतं देवभाषाऽस्ति वेदभाषाऽस्ति संस्कृतम् ।
प्राचीन-ज्ञान-भाषा च संस्कृतं भद्रमण्डनम् ॥ २॥

वेदान्तानां पुराणानां शास्त्राणां च तथैव च ।
मंत्राणां तंत्रसूत्राणाम् आद्यभाषाऽस्ति संस्कृतम् ॥ ३॥

रामायणं महाकाव्यं महाभारतमेव च ।
उभे च विश्वविख्याते संस्कृतस्य महानिधी ॥ ४॥

भासस्य कालिदासस्य भवभूतेश्च विश्रुता ।
बाण-शूद्रक-हर्षाणाम् काव्यभाषाऽस्ति संस्कृतम् ॥ ५॥

प्राणभूतं च यत्तत्त्वं सारभूतं तथैव च ।
संस्कृतौ भारतस्याऽस्य तन्मे यच्छतु संस्कृतम् ॥ ६॥

यत्र रामकथागानम् तत्राऽस्ते हनुमान् यथा ।
संस्कृताध्ययनं यत्र तत्र संस्कृतिदर्शनम् ॥ ७॥

शृणुमः संस्कृतं नित्यं वदामः संस्कृतं तथा ।
स्मरामः संस्कृतं नित्यं पठामः संस्कृतं तथा ॥ ८॥   वाड्साप् द्वारा लब्धाधा ॥

Thursday, 27 October 2016

विघ्नहर्ता गजाननः
आदिदेवस्य गणेशस्य विस्मयकारिणः रूपान्तरस्य कथा !
[ सरलया संस्कृत-गिरा वर्णिता ]
डॉ. बलदेवानन्द-सागरः 
 
देवाधिदेवः शिवः स्वीय-अर्धाङ्गिन्या पार्वत्या सार्धं कैलास-पर्वते निवसति एकदा, महादेवः तत्र नासीत्, तदा भगवती पार्वती स्नानार्थं सज्जा भवन्ती सती सहसा विचारितवती यत् “कदाचित् स्नान-कर्मणि निरतायां मयि कश्चन भवनम् इदं समुपागच्छेत् !”
किञ्चित् कालं यावत् गहनं परिशील्य सा समुपायम् एकं निर्धारितवती स्नानारम्भात् पूर्वं, सा स्वीय-देहे लेपितं हरिद्रावलेपम् अपसार्य तम् एकस्मिन् पात्रे न्यदधात् ततः परम्, तल्लेप-कर्दमात् सा एकस्य किशोरस्य बालकस्य प्रतिमां निर्मितवती तदनु, भगवती पार्वती तस्यां प्रतिमायां जीवनम् अस्थापयत् सा प्रतिमा रमणीय-किशोर-बालकत्वेन रूपान्तरिता जाता। भगवती पार्वती सगौरवं शनैः च अवदत् यत् - त्वं मम सुतः! केवलं मामकीनः!.
मात ! केन प्रकारेण अत्रभवती सेवनीया ?” तस्याः सुतोऽयम् अपृच्छत् पार्वती तं बालं भवन-प्रवेश-द्वारं सन्नीय लौह-दण्डम् एकं प्रदाय निरदिशत् – “सुत ! अत्र प्रहरित्वं विदधातु मम अनुज्ञां विना न त्वया कश्चन अन्तःप्रवेशार्थम् अनुमन्तव्यः
तत्पश्चात्, भगवती पार्वती भवनान्तः प्रविष्टा किञ्चित्-कालानन्तरं कश्चन तत्र आयातः अनुमिनोतु, कोऽयं सम्भवेत्...? साक्षात् परम-शिवः !
यथैव परम-शिवः भवनं प्रवेष्टुं समुद्यतः, तत्रस्थेन किशोरेण असौ अवरुद्धः मम माता, भगवती पार्वती न कमपि जनम् अन्तःप्रवेशार्थं माम् आज्ञप्तवती
परम-शिवः स्वीय-हास्यम् अवरोद्धुं नैव अपारयत् हा...हा...हा... भगवती पार्वती साम्प्रतं पुत्रवती, तच्च, मम अवगमनं विना !”
बालकस्य तर्जनामयीं दृष्टिम् उपेक्ष्य परम-शिवः किञ्चित् अग्रेसृतः तथा हि, अचिन्तनीयं किमपि घटितम् ! बालकः लौह-दण्डेन भगवन्तं शिवम् अताडयत् अन्तः नैव प्रवेशार्थं मया पूर्वमेव प्रतिबोधितं नासीत् किम् ...?”
भगवान् शिवः अतितरां क्रुद्धः सञ्जातः किञ्चित् कालं विचिन्त्य ततः निर्गन्तुम् असौ निरणैषीत् ततः प्रस्थानात् प्राक्, भगवान् शिवः बालकम् अब्रवीत् - एतादृशः अहङ्कारः! त्वादृशं लघु-बालम् अनुशास्तुं मम गणाः एव अलम्
त्वरितमेव भगवान् शिवः स्वीय-गणान् आकारयत् आदिशत् च, “गच्छन्तु, भवन-द्वारि प्रहरित्वपरम् अहङ्कारिणं बालं सम्यक्तया शिक्षयन्तु
भगवतः शिवस्य सायुधाः गणाः स्वामिनः आज्ञां पूरयितुं द्रुतमेव भवन-प्रवेश-द्वारं प्रति धाविताः पार्वत्याः सुतः अमुना बलप्रदर्शनेन न किञ्चिदपि भीतः | गण-प्रमुखः तार-स्वरेण अवदत् – “कथं त्वं भगवन्तं शिवं समाह्वयितुं प्रभवषि ? वयं त्वां व्यापादयिष्यामः
विनैव कमपि उद्वेगम्, पार्वत्याः सुतः तान् अब्रवीत् – “मम मातुः भगवत्याः पार्वत्याः ईच्छानुसारम् अहम्, भवतां स्वामिनः आज्ञानुसारेण च भवन्तः आदिष्टाः स्मः नाहं मनागपि परावर्तिष्ये
भगवत्याः पार्वत्याः सुते अस्मिन् आक्रमणमिदं किं समुचितम् ?- इति शिव-गणाः द्वन्दाभिभूताः जाताः बालके अस्मिन् विनैव किमपि आक्रमणं ते परावर्तिताः तत्रान्तरे, भगवती पार्वती यत् किमपि घटितमासीत्, तद् अभिज्ञातवती
परम-शिवस्तु मम पतिः अस्ति, तथ्यम् अपरीक्ष्य एव, सः मम सुतम् आक्रान्तुं प्रायतत, अहं मदीय-पुत्रस्य गौरवं रक्षिष्यामि”– इति सा निर्णीतवती
गणाः भगवन्तं शिवम् उपगम्य सर्वं यत् घटितं तत् वर्णितवन्तः तत् श्रुत्वा शिवः आदिशत् यत् “यदि वयं परावर्तामहे, सः अस्मान् भीतान् अवगमिष्यति, गच्छन्तु तं पराजित्य प्रत्यागच्छन्तु
भगवतः शिवस्य सद्यः आदेशं श्रुत्वा, नूतन-बल-सम्पन्नाः गणाः भवनं प्रति द्रुतं प्रयाताः नन्दिकेशः गणानां प्रमुखः आसीत् आत्मानं प्रति आगच्छतः गणान् दृष्ट्वा पार्वती-पुत्रः अवोचत् – अहं तु केवलं मदीय-जनन्याः आज्ञां परिपालितवान् न मया भवन्तः किञ्चिदपि बाधिताः, तर्हि कथं माम् आक्रमन्ते ?” परञ्च गणाः न किञ्चिदपि सम्भाषितुम् उद्यताः आसन् | युद्ध-समाघोषान् घोषयन्तः ते आक्रान्तुम् आरभन्त एवं हि, भीषणं युद्धं प्रवृत्तम् यद् अनुवर्तितं तद् आश्चर्यकरं नासीत् ! पार्वती-पुत्रस्य एकाकिनः युद्ध-वीरस्य समक्षं स्थातुम् अशक्ताः गणाः सपदि पराजयं स्वीकृतवन्तः देवाधिदेवः शिवः स्वीयं भवनं प्रवेष्टुं नार्हत् – इति वार्ता देवलोके अपि प्रसृता समस्येयं केन प्रकारेण समाधेया ? पितामहः ब्रह्मा स्वर्गाधिपः इन्द्रः च, गहनां विचारणां अकुरुताम् अन्ततः भगवन्तं शिवम् उपगन्तुं तौ निर्णीतवन्तौ
पितामहः ब्रह्मा स्वर्गाधिपः इन्द्रः च, परमशिवम् उपगम्य निज-समवेदनां प्रकटितवन्तौ शिवः तौ निगदितवान् यत् - देवी-पार्वतीतः पराभवं न स्वीकरिष्यामि
अहं स्वपक्षतः प्रयते - इति उक्त्वा ब्रह्मदेवः कैलाश-पर्वतं प्रति जगाम अनेकैः महात्मभिः सहकृतः पितामहः ब्रह्मा ब्राह्मण-रूपेण पार्वती-पुत्रं मेलितुं प्रयातः ते प्रवीरं बालम् उक्तवन्तः - “प्रियवत्स ! त्वया परम-शिवस्य मार्गः नैव अवरोधनीयः आसीत्
बालकः अविचलितः एव स्थितः सम्प्रति भवान् प्रस्थातुं शक्नोति, अहं केवलं निजमातुः आज्ञाम् अनुपालयामि
बालकेन ब्रह्मदेवस्यापि वचनम् अन्यथाकृतं इति वृत्तम् आकर्ण्य परमशिवः अतिक्रुद्धः जातः सः निज-सुतं कार्तिकेयं देवेन्द्रं च आकार्य न्यगदत् यत् – “कार्तिकेयः शिवगणान् सन्नयतु, देवेन्द्रः च देव-सेनाः सन्नेष्यति तं व्यापादयन्तुएवं हि, शिवगणाः देवसेनाः च, भवन-प्रवेशं प्रति प्रयाताः एतद्-घटना-जातस्य वृत्तम् अवगम्य देवी पार्वती भगवतीं महाकालीं देवीं दुर्गां च आकार्य निरदिशत् यत् – “मम सुतः एकाकी वर्तते अत्रभवत्यौ द्वेSपि तस्मै साहाय्यं कुरुतात्
यथैव महाकाली आदेशमेनम् अशृणोत्, सा युद्धभूमिं प्रति सपदि प्रयाता तया देवसेनाः लक्ष्यीकृताः देवानाम् आयुधानि तया ग्रसितुं आरब्धम् भीताः सन्तः देवाः पलायिताः तत्रान्तरे, भगवती दुर्गा शिव-गणानां सेनानां साम्मुख्यं व्यदधात् तस्याः बलं सोढुम् अक्षमाः निःसहायाः गणाः स्व-जीवित-रक्षार्थम् इतस्ततः पलायिताः
एतत्-सर्वं घटितम् अवगम्य भगवान् विष्णुः परमशिवं परामर्शितवान् – “महादेव ! न कश्चन सम्मुखात् बालमेनं पराजेतुं शक्नोति वयं केवलं कपटेन एव तं पराजेतुं शक्ष्यामः
पार्वती-पुत्रम् आक्रान्तुं महाविष्णुः महादेवः च पृथक्-पृथक् दिशां प्रति प्रयातौ एकतः, महाविष्णुः बालकस्य सम्मुखम् आक्रमणम् आरभत, अपरतः, महादेवः त्रिशूलेन पश्चभागात् बालकमेनम् आक्रमत शिवस्य त्रिशूलेन बालकस्य शिरच्छेदः कृतः युद्धं समाप्तम् परञ्च परमशिवः दुःखी अभवत् अहं देव्याः पार्वत्याः पुत्रं मारितवान् मम पत्न्याः कृते किञ्चिदपि पीडादायि कार्यं मया नैव करणीयमासीत्
अपराध-बोधाविष्टः परमशिवः देवीं पार्वतीं मेलितुम् अगच्छत् स्वीय-सुतस्य निधन-वार्तया सा अदम्यं क्रोधम् अनुभवति स्म अत्रभवता मम पुत्रस्य जीवनं परावर्तनीयम् - इत्यहं वाञ्छामि नैतावन्मात्रम् ! देवेषु सम्माननीयं गौरव-पदमपि अस्मै प्रदेयमित्यपि वाञ्छामि ततः परमेव मम क्रोधः अपगमिष्यति” - इति देवी पार्वती चीत्कृतवती एतत् आकर्ण्य परमशिवः भवनात् बहिः निर्गत्य देवान् आदिशत् – “कृपया उत्तरदिशां प्रति गत्वा प्रथमं सम्मुखीक्रियमाणस्य प्राणिनः शिरश्छेदं कृत्वा च पार्वत्याः सुतस्य जीवनार्थं तत्-शिरःसन्धानं कुर्वन्तु |” देवाः सपदि एव निर्गताः ते सर्वप्रथमं दीर्घ-दन्तिनं गजम् अपश्यन् ते गजस्य शिरोवधं कृत्वा भवनं प्रत्यागताः पार्वत्याः सुतस्य जीवनार्थं तस्य देहोपरि ते गजस्य शिरः स्थापितवन्तः ते गजाननं बालं पार्वतीं उपानीतवन्तः सा प्रसन्ना जाता सा तं गजाननं स्वीय-अङ्के उपावेश्य भगवन्तं शिवम् अकथयत् यत् – “अस्मै देवेषु किं पदम् उपायनीक्रियते ?”
परमशिवः गजाननस्य शिरसि निज-करपल्लवस्य स्पर्श-पुरस्सरं तस्मै आशीराशिं प्रदाय अवदत् – “अद्य प्रभृति बालोऽयं गणान् सन्नेष्यति अतः गणेशत्वेन अर्थात् गणानां स्वामित्वेन लोकेषु पूजयिष्यते
भगवती पार्वती अतितरां प्रसन्ना अभवत् परमशिवः पुनरपि अवदत् यत् - “अस्मदीयोऽयं सुतः विघ्नानि अपाकर्तुम् उत्पादयितुं चापि शक्तिं सन्धारयति अतः असौ विघ्नेश्वर-रूपेणापि ख्यापयिष्यते विघ्नानि दूरीकर्तुं केवलं विघ्नेश्वस्य प्रसन्नता अपेक्ष्यते
एतत् श्रुत्वा देवाः सादरं गण-नायकं गणेशं नमस्कृतवन्तः प्रसन्नः गजाननः गणेशः सर्वेभ्यः स्मितवदनः सञ्जातः

Tuesday, 11 October 2016

गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः ।
गुरुः साक्षात् परब्रह्मा तस्मै श्री गुरवे नमः॥

सरस्वति नमस्तुभ्यं
वरदे कामरूपिणि।
विद्यारम्भं करिष्यामि
सिद्धिर्भवतु मे सदा॥

ॐ हरि श्री गणपतये नमः
अविघ्नमस्तु ॥

Wednesday, 28 September 2016

देशरक्षा परमोधर्मः                                        कथा 
                                                                                    पुनरालेखनम्  - शान्ति सी
     पुरा काश्मीरेषु नन्दिनीदेवी नामिका काचित् ग्रामीणा वसति स्म। तस्याः चत्वारः पुत्राः आसन्। सर्वेषां शिक्षादिकं विधिवत् दत्वा सा पुत्रान् अपालयत् ।
    राज्यसीमायां कालान्तरे कलहः सञ्जातः। सीमा रक्षणाय सैनिकानांद्वौर्लभ्यम् अभवत्। अतःग्राममुख्यः ग्रामीणान् एवमवदत्‌ "भो ग्रामीणाः देशस्य एषा दुर्दशा अभवत् । देश रक्षार्थम् उपायः एक एव। भवन्तः एकैकं युवानम् अवश्यं देश रक्षायै प्रेषयन्तु " इति।
     ग्राममुख्यस्य आदेशानुसारं नन्दिनीदेवी ज्येष्ठं तनयं प्रैषयत्। एवमेव सर्वाभिः कृतम्। तथापि जन बलेन देशरक्षा अपूर्णोऽभवत्। अतः सा शिष्टान् पुत्रान् आहूय अवदत्  "पुत्राः देशस्य रक्षणम् अस्माकं धर्मः। अतः देशरक्षणाय सीमानं ग्च्छन्तु इति।
सुपुत्राः मातुराज्ञा पालने व्यग्राः खलु ? एकैकः क्रमेण सीमां प्राप्य देशरक्षणकर्मसु व्यापृतः अभवत् । तथापि सैनिकानाम् अपर्याप्तता अभवत् । पुनरपि ग्राममुख्यः ग्रामीणान् सीमारक्षणाय उद्बोधितवान्। एतत् श्रुत्वा नन्दिनीदेवी रोदितुम् आरभत। तदा काचित् तामुपगम्य रोदनकारणमपृच्छत्। "देश रक्षा परमोधर्मः । इतः परं प्रेषयितुं पञ्चमः पुत्रो नास्तीति मे दुःखम्" इति दृढमनसा नन्दिनीदेवी न्यवेदयत् ।

अपि कनकमयी लङ्का न मे रोचते लक्ष्मण।
जननी जन्मभूमिश्च स्वर्गादपि गरीयसी॥
----------------------------------------------------------------------------------------

Friday, 23 September 2016

 सा न लिखति    -                                गानम्
       

 राज्ञा रविवर्माणा लिखितं चित्रम् 
मृदुमय-किसलये न लिखति सा 
कमलविलोचन अधुनापि।
तरलित-सुन्दर-सुमदल-नयनयोः 
कुसुमितरागं जानामि।

मधुर-मधुराधरात् किमपि न श्रुतम् यथा 
मधुर-मुदित-हासो नाच्छादितः।
मृदुल-मृदुलतर- कपोलयुगे तव 
तारुण्याभां पश्यामि ।
उपमानरहितो तवमनसरसः 
सुमधुर-सुगन्धं जानामि ।
अज्ञात्वा मयि *त्वमहमसि भो!
प्राणात् प्राणतरोसि च भो!।
----------------------------- 

-अय्यंपुष़ हरिकुमारः 
>*त्वं+अहं +असि

Friday, 16 September 2016


 कथा
 स्नेहमयी जीवनाशा
 रम्या पुलियन्नूर्
 एस्  एस्  जि एच्  एस्  एस्  कण्टंड़्काली पय्यन्नूर्, कण्णूर् ।
मम प्राप्तिसमये कवाटः पिहितः आसीत् ।
 तत् गृहं वातावरणं च अत्यन्तं पुरातनमिव अभासत। जीवनम् अत्रास्तीत्यस्य कापि कला तत्र दृष्टिगोचरा नासीत्। अड़्कणं न परिमार्जितम्, तत्र तृणानि रूढमूलानि काननच्छायां प्रयच्छन्ति स्म। गृहं च न परिमार्जितम्। धूलिधूसरितम् आसीत्। लूताजालैः निर्मिताः भिन्नभिन्नालड़्कृतयः तत्र तत्रासन्।

दूरदेशोद्योगप्राप्तौ अनन्यगामिकाहम्  एकमात्र बन्धुगृहम् एतत् प्रविष्टा। गृहस्य अन्तः प्रकाशः नास्ति प्रायः । चतुश्शालेत्यतः लभ्यमान प्रकाशेन मार्गाः  ज्ञाताः। महानसस्य पुरतः  विद्यमाने प्रकोष्ठे बन्धुर्मम सा दीपज्वालनाय वर्तिकाः सज्जीकरोति स्म। तस्याः दर्शने ममहृदयं छिन्न भिन्नम् अभवत् । पूर्वं ऐश्वर्यदेवतेव विराजमाना सा सुमड़्गलित्वं सम्यक् अलड़्करोति स्म । अधुना तु कलुषितवस्त्रा कृशगात्री सा केशान् न प्रसाधितवतीति दृष्टा मया।  तस्याः एकमात्रपुत्र्याः भर्तुश्च अपघातेन देहवियोगः मया ज्ञातः आसीत्। तथापि एवंविधम् एतस्य परिवर्तनं न ज्ञातमेव मया।  स्नेहव्यवहारेणैव सा रक्षितुंशक्या इति ज्ञात्वा अहं तत्र दीपं ज्वलितवती। दीपस्य प्रकाशेन अस्वस्थतां प्रदर्शितवती सा पूर्वकर्मस्मरणेन वा वार्तिकायाः सज्जतायां लग्ना आसीत्। समीपं गत्वा 'पेरश्शी ' इति आहूय स्मारितवती। ममाह्वानेन सा किञ्चित् स्मृतवतीव भावं प्रकटितवती। किञ्चितपि समीपस्था भूत्वा तस्याः स्कन्धे हस्तं विधाय अहं निर्मला इति सूचितवती। उद्योगप्रप्तिवृत्तान्तं सर्वं तां सूचितवती। इतः परम् अत्रैव मम वासः इति च । सा अड़्गीकृतवती । तस्मिन् दिने परस्परसम्भाषणं विना मौनभोजनम् आसीत्।

अग्रिमदिने प्रातरुत्थाय गृहस्वच्छतायां व्यपृताहम् । गृहम् अड़्कणं च सम्यक् परिमार्ज्य स्नानं ततः श्रीगृहे दीपज्वलनं च श्रद्धया मया आचरितम् । मम भागवतपारयणं श्रुत्वा सा उत्थितवती । ततः किञ्चिदाश्वस्ता इव स्नात्वा आगत्य मम समीपम् उपविष्टा । ततः महानसे द्वापि मिलित्वा आहारनिर्माणं कृतवत्यौ । मम प्रस्थानावसरे सा भोजनपात्रम् आनीतवती। " नावश्यकं , मध्यह्ने अहम् आगत्य मिलित्वा भोजनं कुर्वः  " इति कथनेन सा सन्तुष्टा अभवत्। जीवनाशा तस्यां स्फुरितेव। मम गमनसमये पुरतः आगत्य स्थितवती। स्वपुत्रीं स्मृत्वा अश्रूणि मुञ्चन्ति दृष्टा मया।

तद्दिने सायंकाले तामपि बहिर्गन्तुं प्रेरितवती। महता कष्टेन तां बहिरानाय्य वाटिकानिर्माणम् आरब्धवती। सापि मम साहाय्यार्थं सन्नद्धा अभवत्। एकघण्टाभ्यन्तरे सुन्दरम् उद्यानं सज्जीकृतवत्यौ। अनन्तरं स्नात्वा सन्ध्यावन्दनाय उपविष्टे।

एवम् एकमासानन्तरं निरन्तरसामीप्यदानेन तस्यां जीवनोत्साहः वर्धितः। समीपस्थाः बालाः तस्याः वाटिकायामगत्य क्रीडां कर्तुमारब्धवन्तः । तेषां निरन्तरकोलाहलैः तत् गृहं मनुष्यगृहं जातम्। सा मध्यपि पुत्रीनिर्विशेषं स्निह्यति स्म। अहमपि स्नेहं दत्वा ताम् पुनः जीवनोन्मुखं कृतवती। आत्मविश्वासेन आश्वस्ता च।
--------------------------------------

Tuesday, 6 September 2016

एषा मनीषा मम
नमो नम:।
अध्यापकदिनमपि समागच्छति। डा.सर्वेप्पल्लि राधाकृष्णः भारतस्य प्रथमोपराष्ट्रपतिः आधुनिकदार्शनिकेषु अग्रगण्यः च आसीत् इत्येतन्न तस्य जन्मदिनं अध्यापकदिनत्वेन आचरितुं हेतुभूतं जातं, किन्तु सः अनुगृहीतः आचार्यः , विशिष्ट अध्यापकश्चासीत्। अध्यापकवृत्तिमधिकृत्य तस्य दर्शनं उदात्तम् उत्कृष्टं चासीत्।
अध्यापकशब्दस्य शिक्षकः, गुरुः, आचार्यः इत्यादीनि नैकानि समानपदानि व्यवह्रियन्ते। परन्तु एकैकस्य शब्दस्य अर्थव्याप्तिः विभिन्ना अस्ति, भारतीयसंस्कृतिदृष्ट्या। अतः छात्राणां पुरतः अध्यापकः कस्मिन् स्तरे तिष्ठति इति अत्यन्तं प्राधान्यमर्हति। यतः अध्यापकः उत्तमपुरुषान्तरस्य , उत्कृष्टवंशपरम्परायाः शिल्पी अस्ति;संरचयिता अस्ति!
आधुनिके काले अध्यापकस्य कर्म/धर्मम् अधिकृत्य कालानुसारं परिवर्तनं सञ्जातम्। साहाय्यदाता, मार्गदर्शकः, इत्यादीनि बहूनि व्याख्यानानि सन्ति। सर्वं युज्यते एव। किन्तु अध्यापकः गुरु शब्दस्य आचार्य शब्दस्य च तत्वं सारं मनसि निधाय आदर्शभूतः भवेत्तर्हि स एव उत्कृष्ट अध्यापनवृत्तिः।

Monday, 5 September 2016

   कविता

पुत्रे मयि क्षम्यताम्।
हरिप्रसाद् वी टी  कटम्बूर्

एषस्ते तनयोरम्यहं जननि ! त्वत्पादे प्रणम्यप्रियं
सत्यं च त्रपया ब्रवीमि नितरां दुःखेन दुःखात्मिके!
वाक्पुरुष्यमशेषमत्र तनयस्नेहेन मे क्षम्यतां
श्रुत्वैतत् कृपया सुते मयि  सदा कारुण्यमातन्वतु    1

मातास्तावकपुत्रकाः वयमहो त्वत्स्तन्यसंवर्धकाः
नित्यं त्वां परिपीडयाम उपगुप्तेनैव दुष्कर्मणा ।
एवं चेदपि सत्यनिष्ठहृदये !  पुत्रेषु दुष्कर्तृषु
स्नेहेन त्वमतिप्रियेषु सहसे सर्वन्तु सर्वंसहे ।।          2

पापैः पड़्किलमानसाः स्वतनयाः मन्देतरं मातरं
त्वां  विक्रिय स्वकीयसौख्यनिरताः काड़्क्षन्ति शं स्वात्मनः।
वृक्षच्छादितकेशभारनिकुरं विच्छिद्य विच्छिद्य ते
त्वामम्बामपि कारयन्ति विकृतामप्रकृतां मुण्डिताम्।3

सद्वृत्तामपि माननीयचरितां पुत्रोद्य तन्मातरं
कर्तुं वाच्छति वैपरीत्यविधिना चारित्र्यहीनां क्षणात्।
पुत्रप्रेमविशालशुद्धहृदया त्वां हि प्रियत्वादहो!
तूष्णीं प्राप्य सुते सदा कुचरिते शश्वत्सुखं  शंससि ।। 4

पाथोनाथसुवासशुभ्रवसने !त्वां वस्त्रहीनां बत!
कृत्वा पुत्रक पापशिष्टहृदयः संदृश्यते नग्नताम्।
तोषेणैव पयोधरान् गिरिवरान् संक्षोद्य संक्षोद्य तद्-
रूपे  वैकृतमातनोति नितरां दाक्षिण्यभावं विना।।   5


एवं दुःखशतैरपि प्रतिदिनं संक्लिश्यमाना भव-
न्नेत्राभ्यां जननि! च द्रष्टुमसमर्थोस्म्यश्रुपातं शुभे!
पुत्रोस्ति प्रियमातरि कुचरितः किन्तु प्रियत्वात्सदा
पुत्राणामविवेकानां विकृतयो माता स्वयं क्षाम्यति।  6

पीडां पुत्रकृतां स्वयं परिचयात्सोढुं समर्थे भव-
च्चित्ते सम्प्रति दुःखलेशकणिका नास्तीत्यसौ मन्यते ।
प्रेमप्रस्रवणप्रसन्नहृदयम्बोजे कदाप्यन्तरं
कालुष्यस्य च कल्मषस्य च नहि क्रोधस्य संलक्ष्यते।।7

अम्ब!त्वत्सहनं जनाः कुमतयस्त्वच्छक्तिराहित्यमि-
त्यत्युत्साहमबोधपूर्वमधुनाप्याचष्टिरे कुत्सया  ।
तेषु प्रस्नुतपुत्रवत्सलसुधापूर्णस्तने! साम्प्रतं
साशंसं प्रकटीकरोषि भवतां स्नेहं कृपार्द्रं मुदा ।। 8

यत्किञ्चितद्दपभाषते सुतजनः स्नेहं विना निर्द्दयं
यत्किञ्चिद् कुरुते सदा जननि त्वन्नाशाय कापुत्रकः ।
तत्सर्वं दयया वागण्य निजपुत्रोत्कर्षबुद्ध्या स्वयं
या सर्वं सहते विवकेसुधिया तस्यै जनन्यै नमः  ।।  9
 कथा


प्रतीक्षा
सुजा के पी
जिविएस् एस् चर्प तृश्शिवपेरूर्


भवता आहूयमाना संख्या परिधौ नास्ति......। दिनद्वयतः पुत्रस्य दूरवाण्या इयमेव आयाति इति विषादपूर्णया वाचा सगद्गदं प्रलपन्ती शारदा मम वक्षसि मुखं निहितवती। किं वक्तव्यमिति ममापि भ्रान्तिः जाता।

एक पुत्रः सुन्दरः गुणवान् च। बाल्ये सर्वे वदन्ति स्म यत्  " एतादृश पुत्रलाभार्थं तपः करणीयम्  " इति....। तस्य अष्टमजन्मवार्षिकस्य आचरणवेलायां मम मित्रं राधाकृष्ण एवमुक्तवान् - " भवान्  ग्रामीणविद्यवये पुत्रं पाठयित्व तस्य 'फ्यूचर्'  किमर्थं  नाशयति ? नगरम् आगच्छतु। तत्र उत्तम विद्यलये पाठयतु, प्रवेशन क्लेशः स्यात्  । चिन्ता मास्तु , व्यवस्थां करिष्यामि वासव्यवस्थायामपि चिन्ता न करणीया  ।  "

किन्तु पितरौ " मम चिन्ता जाता ।
किं भो! इदानीं भवतः पुत्रस्य भविष्यमेव प्रधानं ननु? वासरान्तेषु अत्र आगत्य पित्रो क्षेमान्वेषणं कुरु " तदेव उत्तममिति  शारदायाः अपि मतमासीत्। हरितमयानि क्षेत्राणि जीर्णमपि शान्तिपूर्वं मन्दिरं च त्यक्त्वा तथा सदा जपन्तम् अश्वत्थं विस्मृत्य अपरिचिते नगरे वासः। राम! राम! इति मातुः आह्वानं कदाचित् एव शृणुयाम्।समूलम् उत्पाट्य अन्यत्र रोपणम्। !! तत्र सामञ्जस्ये कति दिनानि आवश्यकानि भवेयुः । मम विविधाः चिन्ताः आसन्।

किन्तु  नगरी तु काचित् अभिसारिका इव। तस्याः करवलये बद्धः चेत् सर्वमपि विस्मरति। न गृहं , न ग्रामः न बान्धवाः । तस्याः सौन्दर्ये मुग्धः न किमपि स्मरन्ति...। मोहयितुं सा जानात्यपि......।

नगरजीवितम् आरब्धम् । ग्रामस्य व्ययात् दशगुणितः व्ययः । कदलीपत्रमपि धनेनैव लभ्यम्। तद्वत् अन्याः आवश्यकताः सञ्जाताः। "सर्वेषु गृहेषु परिचारिकाः सन्ति। एका अत्रापि भवतु। नो चेत् अस्माकम् अपमानः" शारदायाः परिभवः । कथञ्चित् परिचारिकायाः व्यवस्थाम् अकरवम्। पुत्रस्य इच्छानां तु सीमा एव नासीत्। एकस्यानन्तरम् अन्यत्...... । द्विचक्रिका, जड़्गमदूवाणी, सड़्गणकम्..... एवमेवम् आवलिः प्रवृद्धा ।

" भवान् छात्रः खलु इदानीं किमर्थम् ? " अपृच्छम् । " " " पितः! सर्वेषां मम मित्राणां हस्ते अस्ति।
भवान् कस्मिन् युगे जीवति ? " प्रश्नभावेन शारदां दृष्टवान् । " ददातु रे " , तस्याः नेत्रे स्पष्टम् अवदताम् ।
भवतु अस्माकम् उण्णिः खलु  अनयस्मै कस्मै न इति विचचिन्त्य तामपि इच्छां पूरितवान्। सड़्गणकं गृहमानीतम् । उण्णिः तु सर्वदा तस्य  पुरतः एव । पठनार्थमेव उपयोगः इति तस्य वचने तु आवयोः संशयलेशोऽपि नासीत्।

एकस्मिन्दिने दृरवाणी आगता । पुत्रस्य विद्यालयात् ।
" शीध्रम् आगन्तव्यम्  " । किं स्यात् एतावत्याः त्वरयाः कारणम् ?
प्राचार्यस्य प्रकोष्ठं प्रविष्टः । क्रोधस्फुरनेत्राभ्यां किमपि लिखन् प्राचार्यः । समीपे निद्रामग्नः इव उण्णिः । प्राचार्यः वक्तुमारब्धवान् - पश्यतु भवतः पुत्रस्य पठनवस्तूनि ....  उत्पीठिकां प्रदर्शितवान् ।


रक्तवर्णेन अड़्कितं प्रगतिपत्रम्, श्वेतचूर्णयुक्तानि लघुपलास्तिकपोटलिकाः , काचित् सान्द्रमुद्रिका.....  एवमेवं ..... व्यक्तं किल? इदमपि पश्य , सान्द्रमुद्रिकां सड़्गणके संस्थाप्य सः चलचित्रं दर्शितवान् ..... मम अधस्तात् भूमिः चलिता इव पाताले मग्नः इव अभवम्। चित्रे मम पुत्रः परिचारिका च .... अहो किं किं दृष्टं मया .... मम शिरोभ्रमणं जातम्। प्रचार्यः पुनरपि कथयन्नासीत्। आरक्षकाः न्यायवादः अधिवक्ता एवमेवं...। उण्णिः गृहमानीतः। शारदा रोदितुमारभत। पुत्रस्य स्कन्धे स्ववक्षसि च पुनः पुनः ताडयन्ती सा किमपि प्रलपन्ती आसीत्। क्रुद्धः सः मां  स्वमातरम् अपि ताडयितुम् उद्युक्तः।

प्रातिवेशिकस्य अध्यपकस्य साहाय्येन उन्मादविमुक्तक्रन्दं नीत्वा चिकित्सा ....... वर्षाणां प्रयत्नेन सः मादकवस्तुभ्यः विमुक्तः ।  " स्वकृतेभ्यः  पापेभ्यः मोचनं प्राप्तुमिच्छामि । पापनिवारिणीनां तीर्थानां वक्षसि अश्रूणि मुञ्चन् पूतो भविष्यामि ..."आवयोः मौनम् अनुमतिं मत्वा सः प्रस्थितः .... मासद्वयं अतीतम्। एकवारं कावेर्यामस्मीति दूरवाणी आसीत्। परन्तु ततः परं कापि वार्ता नास्ति। तम् आह्वयामश्चेत् परिधौ नास्तीति वचनमेव।
राम... ...  राम.......  जानकीजाने   येशुदासस्य मधुरस्वनः । रामचन्द्रः झटिति स्वप्नात् जागरितः । दूरवाणी!! मह्यं दूरवाणी !! उण्णिः स्यात् । शारदा अपि दूरवाणीं स्वीकृतवान्। अपरस्मात् पार्श्वात् ध्वनिः आगतः। राम ! किमर्थं भवान् न आगच्छति ? श्वः जन्मदिनं तव ...... आयाहि । आवामत्र भवदागमनं प्रतीक्ष्यमाणौ स्वः ।

मातुः सकम्पवचनं श्रुत्वा किमपि स्मृत्वा इव रामचन्द्रः भार्यया सह झटित्येव गृहं प्रतिष्ठित । यात्रावेलायामपि शारदा पुत्रम् आह्वयितुं प्रयतमाना आसीत्। तदापि सा एव वाणी...   " भवता आहूयमाना संख्या परिधौ नास्ति "।
---------------------------------------
कर्मन्यासप्रतिषेधः अपलपनीयो भवति वा?
नमो नम:।
अस्य राष्ट्रस्य विकसनवेगं मन्दीकर्तुम् एव समर्थः आसीत् अखिलभारतीयकर्मरोधप्रतिषेधः। कोटिशः रूप्यकाणां नष्टम् एव राष्ट्राय अनेन सञ्जातम्।
प्रतिषेधाय सर्वेषाम् अर्हता अस्ति। किन्तु सः राष्ट्रस्य अभिवृद्धिकर्मणि तालभङ्गं सृष्ट्वा न भवेत्। पुरोगमनचिन्तनानि वाचि इव कर्मणि अपि आचरितुं सर्वैः राजनैतिकदलैः प्रयतितव्यः।
विनष्टं प्रभावं प्रत्यानेतुं प्रयत्नः एव स्वतन्त्रतालब्धेः आरभ्य भारतीयजनतत्या अनुष्टीयते। विभिन्नाः राजनैतिकविश्वासिनः विभिन्नाः धर्मानुयायिनः वा भवन्तु , क्रियमाणानि सकलानि प्रवर्तनानि राष्ट्रपुरोगतिं लक्ष्यीकृत्य भवितव्यानि।
अतः एतादृशः कर्मरोधः निरर्थकः निराकरणीयश्च इति बोद्धव्यः।

Sunday, 4 September 2016

  मातृवन्दनम्                                       -गानम् 
- अय्यंपुष हरिकुमारः , कोच्ची  

हिमगिरि शृङ्गम् उत्तुङ्गम् 
भारतमातुर् मणिमकुटम्।
गङ्गा यमुना सिन्धु सरस्वति  
प्रवहति मातुर्हृदयतटम्।।

काश्मीरादि महोन्नददेशे 

विकसन्त्यधुना कुसुमानि
गायन्त्यचिरात् तानि सुमानि  
वन्दे-मातर-गानानि ।।
वन्दे मातरं........ वन्दे मातरम् ........

आरब- वङ्ग-महोदधिनायुत
हिन्दु-समुद्रो स्तौति चिरं ताम् ।
तस्य तरङ्गकरेण हारेण 

अर्च्यते मम भारत माता ।।
---------------------------

Saturday, 3 September 2016

जयतु संस्कृतं जयतु भारतम् ।
नमो नम:।
अस्मिन् वर्षे बहुषु स्थानेषु संस्कृतदिवसस्य आयोजनम् अभवत् ।परस्परम् अपि संस्कृतेन सन्देशानाम् आदानप्रदानम् अभवत् । तत् तु शोभनम् ।
किन्तु भाषाभ्यासाय श्रवणम् आवश्यकम् ।यत्र यत्र सन्दर्भः भवति तत्र तत्र आग्रहपूर्वकं संस्कृतं श्रोतव्यम् ।आरम्भे अर्था: स्पष्टा: न स्युः शनै:शनै: मस्तिष्कस्य रचना निर्मिता भवति तदा अर्था:स्पष्टा:भविष्यन्ति। भाषायाः अभ्यास: सम्भाषणेन भवति। ये संसकृतं जानन्ति ते यदि संस्कृतेन वार्तालापं कुर्वन्ति तर्हि: द्विविध लाभः १.स्वस्य भाषापरिष्कार: भवति २.अन्येषां श्रवणाभ्यास: च भवति। तस्मात् संस्कृतेन सम्भाषणं कुरु जीवनस्य परिवर्तनं कुरु ।
भाषाभ्यासाय चत्वारि कौशलानि आवश्यकानि क्रमश: १श्रवणम् । २ सम्भाषणम्। ३ पठनम् ।४ लेखनम् । इदानीं कौशलविकासस्य प्रारम्भ: भवेत् । परस्परसहयोगेन सर्वे मिलित्वा एतत् कार्यं वर्धयाम।
जयतु भारतम् । जयतु संस्कृतम्।
जयतु संस्कृतं चिरम्। गृहे गृहे च पुनरपि।

Thursday, 25 August 2016

शास्त्रपरिचयः
कल्पशास्त्रम्
एन् के रामचन्द्रः
वेदाड़्गेष्वन्यतमस्य कल्पशास्त्रस्य वेदहस्तः  इति प्रसिद्धिः । हस्तौ कल्पोऽथ पठ्यते इति पाणिनीयशिक्षायामुक्तम्। वेदोक्तकर्मणामानुपूर्व्येण कल्पनं कल्पः। कल्पो वेदविहितकर्मणामानुपूर्व्येण कल्पना इति ऋक्प्रातिशाख्ये। इदं वेदाड़्गं प्रत्यक्षतः ब्राह्मण्य सम्बद्धम्। कल्पसूत्रं श्रौतसूत्र- गृह्यसूत्र-कर्मसूत्र-धर्मस्त्र शुल्बसूत्रभेदात् चतुर्थाविभक्तम्।

श्रौतसूत्रम्
कल्प इति वेदाड़्गस्य मुख्यविभागत्वेन कल्प्यन्ते इति श्रौतसूत्राणि। वेदेन श्रुत्य सम्बद्धत्वात् श्रौत इति नाम वेदोक्तानां  यागादिनां क्रमबद्धाध्यनमेव श्रौतसूत्रेषु प्रतिपाद्यते। दर्श- पूर्णमास- पिण्डपितृ-आग्रायणेष्टि- चतुर्मासनिरूढपशुर्बन्ध सोमयाग-सत्र-गवानयन-वाजपेय-राजसूय- सौत्रामणि-अश्वमेध-पुरुषमेध-अहिनादीनां यागानां यथाक्रमं विवेचनम् अत्र लभ्यते। अत्र प्रतिपादितानि कर्माणि नित्यकर्माणि,नैमित्तिककर्माणि, काम्यकर्माणि इति त्रिधा विभक्तानि  भवन्ति।
नित्यकर्माणि- अवश्यं कर्तव्यानि कर्मण्येव नित्यकर्माणि। अग्निहोत्रादयः नित्ययागः। तावत्ज्जीवम् अग्निहोत्रं जुह्यदिति विधिः दर्श- पूर्णमासादीनि मासिकानि पाक्षिकानि वा यागानुष्ठानानि च नित्यकर्मसु अन्तर्भवन्ति।

 नैमित्तिककर्माणि- विवाहः जातकर्मः उपनयनं श्राद्धम् इत्यादयः संस्काराः नैमित्तिककर्मसु अन्तर्भवन्ति।एतानि प्रत्येकं सन्दर्भे अनुष्ठीयानेव।

 काम्यकर्माणि- पुत्रकर्म वृष्टिःगो समृद्धिः इत्यादिकम् इच्छद्भिः तदर्थमनुष्ठीयानि कर्माणि काम्यकर्मासु अन्तर्भवन्ति।  प्रतिवेदं  पृथक् पृथक्  प्रातिशाख्यं विद्यन्ते।अश्वलायनं शाख्यनमिति ऋग्वेदस्य द्वे प्रातिशाख्ये। अनयोः प्रथमम् ऐतरेयब्राह्मणं द्वितीयं शाख्यायनब्राह्मणं चानुसरति। यजुर्वेदीये श्रौतसूत्रे ब्रह्मावर्तमिति प्रसिद्धे कुरुक्षेत्रे विद्यमानैः ब्राह्मणैः अनुतिष्ठमानानां यागादीनां कर्मणां विवरणमेव मुख्यप्रतिपाद्यम्। कठ- मैत्रायणी- तैत्तरीयाख्ये वेदे मन्त्रभागाः ब्राह्मण भागश्च सम्मिश्ररूपेण तिष्ठन्ति। अतः अस्य कृष्णयजुर्वेदः इति संज्ञा। अनन्तरकालिके वाजसनेययजुर्वेदाख्ये मन्त्रभागः एकत्र ब्राह्मणभागाः इतरत्र च इति व्यवस्था।
अतः अस्य शुक्लयजुर्वेदः इति  संज्ञा। कृष्णशुक्लयजुर्वेदयोः पृथक् पृथक् श्रौत्रसूत्राणि सन्ति। कृष्णशुक्लयजुर्वेदीये बौधायन- वाधूल-भरद्वाज- आपस्तम्भ-सत्यारण्य हिरण्यकेशी वैख्यनसांख्यानि श्रौतसूत्राणि। शुक्लयजुर्वेदीये कात्यायन श्रौतसूत्रमेक एव।
सामवेदीये लाट्यायनं द्राह्यायनं जैमिनीयम् आर्षेयकल्पं निदानमिति पञ्च श्रौतसुत्राणि। अथर्ववेदस्य वैतायनाख्यम् एकमेव श्रौतसुत्रम्।

गृह्यसूत्राणि ।
गृहे भवं गृह्यम्। गृहस्य कर्म  सम्बद्धं यत्कर्म तादृश कर्मनिरूपकं भवति गृह्यसूत्रम्। चतुषु आश्रमेषु गृहस्थाश्रमं महत्तमिति विश्वास्यते। गृहस्त एव पञ्चमहायज्ञान् निर्वोढुमर्हः। गृहस्थेन अनुष्टेयानाम् आचराणां कर्माणां च प्रतिपादनं श्रौतसूत्रेषु दृश्यन्ते। श्रुतिलक्षणकर्मणि आचारलक्षणकर्मणि च विद्यन्ते। तयोः आद्यं श्रौतसूत्रेषु व्याख्यातम्। द्वितीयं तु आचारलक्षणकर्म गृह्यसूत्रेषु विव्रियते। तानि च यज्ञकर्माणि देवपितृकर्म समिदाधानं तर्पणं वर्षानुसृतकर्मणि भवननिर्माणावसरे क्रियमाणानि कर्माणि भूकर्षणावसरे क्रियमाणानि कर्मणि, कृष्यारंभकर्मणि,श्राद्धकर्म च भवन्ति । षोडशसंस्काराः अस्मिन्नेव अन्तर्भवन्ति। श्रौतसूत्राणि गृह्यसूत्राण्यपि वेदसंबद्धीनि भवन्ति। ऋग्वेदीये द्वे गृह्यसूत्रे उपलब्धे । आश्वलायनं साख्ययनं च।

शौनकं - शाल्यं- ऐतरेयं- बह्वृचं- भारवीयं- पाराशरं- पैड़्गमिति सप्तनष्टप्रायाणि। शुक्लयजुर्वेदीये द्वे- पारस्करं वाचसनेयं च।
कृष्णयजुर्वेदीयानि नव उपलभ्यन्ते। तानि बौधायनं- भारद्वाजम् - आपस्तम्बं- हिरण्यकेशी-वैखानसं-अग्निवेश्यं - मानवं-काठकं-वराहञ्च। सामवेदीयानि चत्वारि- गाभिलं-खादिरं ( द्राह्यायनं)जैमनीयं कौथूमञ्च। अथर्ववेदीयमेकमेव कौशीकगृह्यसूत्रम्। तच्च शौनकशाखासंबद्धम्।

धर्मसूत्राणि

धर्मपदस्य नियमः- प्रशिक्षणं - उपयोगः - आचारनिष्ठाशीलं- कर्तव्यं- सदाचारः- इत्यादयोऽनेके अर्थाः सन्ति। धर्मसूत्रेषु धर्माश्रमिणां कर्तव्यानि प्रतिपादितानि। धर्मस्य निर्वचनेन साकं अर्थभेदांश्च एषु विवृण्वन्ति। धर्मसूत्राणि गद्यरूपेण  लिखितानि सन्ति। एषु एकैकं प्रश्नाध्यायखण्डरूपेण विभक्तम्। अद्य उपलभ्यमानाः धर्मसूत्रग्रन्थाः -----------------------चत्वारः एव। गौतमधर्मसूत्रं, बौधायनधर्मसूत्रं, आपस्तम्बधर्मसूत्रं, वासिष्ठधर्मसूत्रञ्च। अपि च हिरण्यकेशी, विष्णु, पारीतादीनि अपि सन्ति इति केचन वदन्ति। इतराण्यपेक्ष्य धर्मसूत्राणि सर्ववेदसंबद्धानि भवन्ति।

धर्मस्वरूपं चतुर्णां वर्णानाम् आचाराः, कर्तव्यानि, जीवितवृत्तयश्च चतुर्णामाश्रमाणाम् आचाराः , सपिण्डनं, पापप्रायश्चित्तानि मतानां नियमाः, आशौचं, न्यायव्यवहारं, राजधर्माः, स्त्रीधर्माः, पुत्रविचाराः , स्त्रीधनं , दायव्यवस्था, विवाहभेदाः इत्यादीनि धर्मसूत्रे प्रतिपादितानि।

शुल्बसूत्रम्-

शुल्बं नाम रज्जुः। अतः मापननिर्धारणं श्रौतसूत्रसंबद्धं साहित्यं भवति शुल्बसूत्रम्। संहितासु विद्यमानाः गणितविषयाः संगृह्य यागवेद्यदिषु कथम् उपयोक्तुं शक्यन्ते इति शुल्बसूत्राणि विशदयन्ति।

कात्यायनः, आपस्तम्बः, बौधायनः , सत्याषाढः , मानवः, वाराहः, मैत्रायणि इत्येतानि शुल्बसूत्रणि अद्य उपलभ्यन्ते। यागशालायाः घटना, यागवेदिः , अग्निकुण्डम् इत्यादीनि क्षेत्रगणितणमनुसृत्यैव कल्पितानि। क्षेत्रगणितस्य अड़्कगणितस्य च  सूचनाः शुल्बसूत्रेषु उपलभ्यन्ते। विविधानां यागानां वेदिकानिर्माणं कथंभवेदिति शुल्बसूत्रग्रन्थेषु  विव्रियते।




गणितानाम् आधारतत्वानि प्रमाणसूत्राणि तथा वर्गमूलं दशांशः इत्यादीनां सूचनाः
शुल्बसूत्रेभ्यो लभ्यन्ते। गृह्यसूत्रेषु धर्मसूत्रेषु शुल्बसूत्रेषु च प्रतिपादितानि नित्यनैमित्तिक काम्यकर्माणि अनुष्ठानानि गणितक्रिया चेत्यादयः अद्यापि मानवजीवने समाजे च प्रमाणतया स्वीक्रियन्ते।
एवं भारतीयजीवने अस्य कल्पशास्त्रस्य अत्यन्तमुपादेयता दृश्यते। वेदोक्तकर्मणां प्रतिपादनात् कल्पः वेदपुरुषस्य हस्तरूपेण कल्प्यते। कल्पनामनादरे वेदो खण्डितहस्तो भवेत्। भारतीयजीवनपद्धतेः दर्पणायते इदं कल्पशास्त्रम्।
----------------------------------------------------------------------------------------