Friday, 29 December 2017

 सांख्यदर्शनानुसारेण पुरुषस्वरूप विचारः
Research Article  No: 20171229  
 अनुसन्धानाध्ययनम्

जिषा के नारायणन्, गवेषका
संस्कृत-वेदान्त-विभागः, 
शङ्कराचार्य संस्कृत विश्वविद्यालयः, कालटि ।
दूरवाणी-९३८७४५९२३४ 
     
         भारतीयेषु आस्तिकदर्शनेषु प्राचीनतमं भवति सांख्यदर्शनम्। सांख्यसूत्रकर्ता कपिलमुनिः। किन्तु सग्रन्थः इदानीं नोपलभ्यते। ईश्वरकृष्ण विरचिता सांख्यकारिका इदानीं उपलभ्यमानेषु सांख्यग्रन्थेषु प्राचीनतमा मुख्यतमा च। वाचस्पति मिश्र विरचिता तत्वकौमुदी अज्ञातकर्तृता, युक्ति दीपिका, गौढपादीयम् भाष्यं, माठरकृतावृत्तिः, शङ्कराचार्य विरचिता जयमङ्ला च अस्याः व्याख्यान ग्रन्थेषु मुख्या।

         गणनार्थकात् सम्यक्ज्ञान अर्थकात् वा संख्या शब्दात् मिप्पन्नोऽयं संख्या शब्दाः। अर्थद्वयमपि अत्र सङ्गच्छते। यतो हि अत्र पुरुषः, प्रकृतिः, महत् इत्यादिभिः पञ्चविंशति सांख्याख्यानि तत्वानि प्रतिपादितानि। एतेषां तत्वानां सम्यक् ज्ञानमेव अत्र दुखत्रय आत्यन्तिक निवृत्तिरूप कैवल्योपायत्वेन अमिहितम्।

        इदानीं पुरुषस्य स्वरूपविचारारम्भकद्वारेण पुरुषस्य अस्तित्व साधकानि कारणानि उच्चते। अत्र संघातपरार्थत्वात् इति। अचेतनानां पदार्थनां क्रमं अनुसृत्य सज्जीकरणमेव अथवा सङ्घातः इत्युच्चते। तादृशाः सर्वे अपि सङ्घातः सचेतनं परं उद्धि२य वर्तते। अव्यक्तादयः सर्वे सङ्घातः अपि परं सचेत नं उद्धिश्य प्रवर्तन्ते।

Friday, 15 December 2017

ताटका                                 कथा
-सूनीश् नम्बूतिरि
       एकदा सुकेतु इति यक्षः सन्तानेच्छया कमलजं ध्यात्वा तपश्चकार कालान्तरे ब्रह्मानुग्रहेण तस्य कृते एका पुत्री जाता सा एव ताटका इति कथा। सा अतीवबलवती आसीत्।वरप्रसादेन सहस्रगजशक्तिं मायाविद्यां च सम्पाद्य सा साधुजनानां द्रोहे मग्ना जाता। ताटकापतिः झर्झरपुत्रः सुनन्दः एकदा अगस्त्याश्रमम् आक्रम्य महर्षेः कोपाग्नौ भस्मीभूतो जातः।इमां वार्तां श्रुत्वा कोपाविष्टा ताटका पुत्राभ्यां मारीचसुबाहुभ्यां सह अगस्त्याश्रमस्योपरि आक्रमणं कृतवन्तः। तपोनिष्ठोऽगस्त्यः शापेन तेभ्यः राक्षसत्वम् अददात्। ततः तटाका अनेककालं पताले तथा लङ्कायां च उषित्वा पुन अयोध्यासमीपस्थे करूषवने मुनिपीडां कृत्वा आस्थिता बभूव। अथैकदा विश्वामित्रः स्वस्य यागरक्षणार्थं रामलक्ष्मणौ करूषं प्रति आनीतवान्। यात्रायां विश्वामित्रवचनैः दुष्टनिग्रहार्थं रामः प्रेरितो जातः। अटव्यां कठोरशब्दं श्रुत्वा रामः कुतूहलेन मुनिं पप्रच्छ तदा मुनिः ताटकायाः विषये वर्णनं चकार।

कस्यचित्त्वथ कालस्य यक्षिणी कामरूपिणी।
बलं नागसहस्रस्य धारयन्ती तदा ह्यभूत्।
ताटका नाम भद्रं ते
भार्या सुनन्दस्य धीमतः।

एवं मुनिवचनात् रामः परमाद्भुतेन तटकाया: पूर्वचरितश्रवणोत्सुको जातः। रामः मुनिवचनानि श्रुत्वा ताटकाया: पीडातः सज्जनानां मुक्तिं करिष्ये इति सत्यमकरोत्।

गोब्राह्मणहितार्थाय देशस्य च हिताय च।
करिष्यामि न संदेहस्ताटकावधमुत्तमम्।

एवं ताटकया सह घोरं युद्धं प्रवृत्तम्। मायबलेन ताटकाया विविधशस्त्राणि प्रयुक्तानि तथापि अमितविक्रमेण रामेण सर्वाणि शस्त्राणि नाशितानि। ताटकाया:  करौ चिच्छेद्य युद्धान्ते रामः तस्याः वधं चकार।ताटकामोक्षेण सर्वे देवाः प्रीतमनस्काः भूत्वा पुष्पवृष्टिं चक्रुः।।
 (रामयणे बालकाण्डे ताटका इति निशाचरण्या: कथा प्रतिपादिता अस्ति। ततः संग्रहीता कथा)
----------------------------------------

Saturday, 2 December 2017

 बाणलिङ्गम्                                        कविता 

      डा गदाधर त्रिपाठी
त्पत्तिस्थितिप्रलयेषु सृष्टिरियं विभाजिता।
इच्छया प्रलयो यस्य महादेव इति स्मृतः।।

महादेवस्य नामानि अत्यद्भुतानि श्रुतानि वै।
बाणलिंगं खलु नाम तु उत्तमं सुखकरञ्च तत्।।

नर्मदायाः शिलाखण्डानि  शिव इव आदृतानि वै।
बाणलिंगानि प्राप्यन्ते रेवाया:जले हि वै।।

रेखांकिता भवन्ति रेखाभिर्विविधाभिश्च सर्वदा शुभैः।
वर्णेषु च विविधेषु बाणलिङ्गानि रंजिता: प्राप्नुवन्ति च वै।।

शिवस्योल्लेखो$स्ति देवपंचायतने तथा।
जलस्य प्रतिनिधिरयं तेन कारुणिको भवः।।

स्वयम्भवतीति स्वयम्भूलिंगं नर्मदाया नर्मदेश्वरस्तथा ।
स्मरणीयश्च महाकालः सर्वदा वै कालस्यापि निवारकः।।
                             
बाणलिङ्गं मृण्मयं ज्ञेयं बाणासुरेण च पूजितम्।
सर्व श्रेयस्करं देवं वै प्रणमामि च पुनः पुनः।। 
----------------------------------------------

भगवल्लीला                                       कविता
      डा गदाधर त्रिपाठी
काकी न रमते कोऽपि भावनेयं सार्वकालिका।
ईशोऽपिअनया बद्धश्च आयाति वै पृथिवीतले।।
               समर्थस्सृष्ट्युत्पादने चैव पालने प्रलये तथा।
               लीलायै स आयाति वै शास्त्रेष्वस्ति विवेचनम्।।
चतुर्विंशत्यवतारेषु स आगतो धरिणीतले।
कृतं सर्वं तथा तेन संसारे यथास्मज्जीवनम्।।
               लीला रामकृष्णयोर्हि प्रसिद्धा मनोरंजिका।
               मर्यादा पुरुषः रामोऽस्ति कृष्णस्तु भगवान् स्वयम्।।
लीला द्विविधा प्रोक्ता  हि नित्या अनित्या तथा।
अदृश्या नित्या चैव दृश्या लोकोपकारिका।।
               नित्या रासलीला वै कृष्णचरिते उदाहृता।
               शुकदेवेन सा दृष्टा गोपिकाः सम्मिलिता अभवन्।।
रामचरिते तु सा लीला तदासीच्च कृता हि वै।
हनुमतैव सा दृष्टा अन्येन द्रष्टुं न शक्यते।।
               उपकाराय हि जीवानां भगवतो लीला भवति हि वै।
               चतुर्मूर्तियुतो भूत्वा  श्रीशः लोकानां हितमादधे।।
         ---------------------------------------------------
                     

Monday, 27 November 2017

‘मन की बात’ [३८]
“मनोगतम्”  [३८]              (प्रसारण-तिथि:- 26.11.2017)

[“मन की बात”- “मनोगतम्” - इति कार्यक्रमस्य संस्कृत-भाषिकानुवादः ]                           
                                       -    बलदेवानन्द-सागरः  
मम प्रियाः देश-वासिनः ! 
             नमस्कारः | कतिपय-दिनेभ्यः पूर्वम् अहं कर्णाटकस्य बालमित्रैः सह परोक्ष-संवादस्य अवसरं लब्धवान् | Times Group - इत्यस्य ‘विजय-कर्णाटक’-वार्तापत्रं बाल-दिवसावसरे, प्राथमिक-प्रयासम् अकरोत् यस्मिन् साग्रहं बालाः प्रेरिताः यत्ते प्रधानमन्त्रिणं पत्रं लिखेयुः | अनन्तरम् अमुना कानिचन चितानि पत्राणि प्रकाशितानि | अहं तानि पत्राणि अपठम्, तत् मह्यं सुतरां अरोचत | एते लघु-लघु-बालकाः अपि,  देशस्य समस्याभिः अभिज्ञाताः सन्ति,  देशे प्रवर्तमानाभिः चर्चाभिरपि परिचिताः सन्ति | अनेकान् विषयान् आलक्ष्य एते बालाः अलिखन् | उत्तर-कन्नड़स्य, कीर्ति-हेगड़े, Digital India-Smart City - इति  योजनां प्रशंसन्ती परामर्शयत् यत् अस्मदीयायां शिक्षा-व्यवस्थायां परिवर्तनस्य आवश्यकतास्ति, तथा च, सा इदमपि परामर्शयत् यत् अद्यत्वे बालाः कक्ष्यायामेव पठितुं नाभिलषन्ति, तेभ्यः प्रकृति-ज्ञानं अतितरां रोचते | यदि वयं बालेभ्यः प्रकृति-सूचनां दद्मश्चेत्, स्यात् पर्यावरणस्य रक्षायाः कृते तेभ्यः भविष्यत्काले महत्-साहाय्यं सेत्स्यति | 
             लक्ष्मेश्वरातः रीडा-नदाफः अलिखत् यत् सा सैनिकस्य पुत्री अस्ति, सा चैतद्-विषये गौरवम् अनुभवति | को नाम वा भवेत् भारतीयः, यः सैनिकत्व-विषये गौरवं नानुभवेत् ! भवती तु सैनिकस्य पुत्री, भवत्याः गौरवानुभूतिस्तु स्वाभाविकी | कलबुर्गीतः इरफ़ाना-बेग़मः अलिखत् यत् तस्याः विद्यालयः तद्-ग्रामात् पञ्च-किलोमीटर-मितान्तरालेन दूरं वर्तते, यतः तया गृहात् शीघ्रं निर्गन्तव्यं भवति, अपि च, प्रत्यागमनेsपि अतितरां विलम्बो भवति | सा इदमपि लिखितवती यत् एतस्मात् कारणात् स्वीयैः सखिभिः साकं सा कालं यापयितुं नैव शक्नोति | सा परामर्शयत् यत् समीपमेव कश्चन विद्यालयः स्थापनीयः | परञ्च, देशवासिनः ! एकेन वार्तापत्रेण प्राथमिक-प्रयासत्वेन इदमारब्धम्, मां प्रति एतानि पत्राणि प्रापितानि, मह्यम् इदम् अरोचत, तेषां पत्राणां पठनस्य अवसरं लब्धवान् | मत्कृतेsपि अयं सुखदः अनुभवः आसीत् |
     मम प्रियाः देशवासिनः, अद्य नवम्बर-मासीयः एकादश-दिनाङ्कः | नवम्बर-मासीयः एकादश-दिनाङ्कः, अस्मदीय-संविधानस्य दिवसः अस्ति | ऊनविंश-शताब्दस्य ऊन-पन्चाशत्तमे वर्षे [1949] अस्मिन्नेव दिने, संविधान-सभा भारतस्य संविधानं स्वीकृतवती |  ऊनविंश-शताब्दस्य पञ्चाशत्तमे वर्षे [1950] जान्युआरि-मासे षड्विंशे दिनाङ्के संविधानं प्रवर्तितम्, अत एव वयं एनं गणतंत्र-दिवसरूपेण आयोजयामः | भारतस्य संविधानं हि, अस्मदीय-लोकतंत्रस्य आत्मा वर्तते | अद्यतनोsयं दिवसः, संविधान-सभायाः सदस्यानां स्मरण-दिनं वर्तते | ते हि भारतस्य संविधान-संरचनायाः कृते प्रायेण वर्षत्रयं यावत् परिश्रमम् अकुर्वन् | यः कश्चन तद्विषयिणीं परिचर्चां पठति, नूनं सः अनुभवति यत् राष्ट्राय समर्पित-जीवनस्य विचार-सरणी कीदृशी भवति ! एतद्-विषये वयं गौरवम् अनुभवामः | किं भवन्तः इदं कल्पयितुं शक्नुवन्ति यत् विविधता-पूर्णस्य अस्मदीय-देशस्य संविधान-रचनायै ते कियन्तं कठोरं श्रमितवन्तः ? पारदर्शित्वस्य प्रबोधस्य  दूर-दर्शितायाः च नूनं ते दर्शनं कारितवन्तः, तथा च, तस्मिन् काले यदा देशः दासतायाः शृङ्खलाभ्यः मुक्ति-प्रक्रियायाम् आसीत् |  अस्यैव संविधानस्य प्रकाशान्तर्गतं संविधान-निर्मातॄणां, तेषां महापुरुषाणां च विचार-प्रकाशान्तर्गतं नूतन-भारतस्य निर्माणम् अस्माकं सर्वेषां दायित्वं वर्तते | अस्मदीयं संविधानम् अतिव्यापकं वर्तते | सम्भवतः जीवनस्य तादृशं किञ्चन क्षेत्रं नास्ति, प्रकृतेः तादृशः कश्चन विषयो नैवास्ति, यो हि नात्र समावेशितः | सर्वेषां कृते समानता, सर्वान् प्रति च संवेदनशीलता, एतदस्ति - अस्मदीय-संविधानस्य अभिज्ञानम् | इदं प्रत्येकमपि नागरिकस्य, भवतु नाम सः निर्धनो वा दलितः, पश्चवर्ती वा वञ्चितः,  आदिवासी वा महिला - सर्वेषां मौलिकान् अधिकारान् रक्षति तेषाञ्च हितानि परिपालयति | अस्मदीयमिदं कर्तव्यं यत् वयं संविधानम् अक्षरशः अनुसरेम | भवतु नाम सः  नागरिको वा प्रशासकः, संविधानस्य भावनानुरूपम् अग्रेसरेम |  न कश्चन अपि क्षतिम् अवाप्नुयात् - अयमेवास्ति संविधानस्य सन्देशः | अद्य, संविधान-दिवसस्य अवसरे डॉ.बाबासाहेब-आंबेडकरस्य स्मरणं सुतरां  स्वाभाविकम् | अस्यां संविधान-सभायां महत्वपूर्ण-विषयाणां कृते  सप्तदश पृथक्-पृथक् समितयो विरचिताः आसन् | एतासु अतितरां महत्वपूर्णाषु समितिषु अन्यतरा आसीत् - drafting committee - प्रारूपण-समितिः | डॉ. बाबासाहेब-आंबेडकरः, संविधानस्य तस्याः प्रारूपण-समितेः अध्यक्षः आसीत् |  असौ नितरां भूयसीं महत्वपूर्णां भूमिकां निर्वाहयन् आसीत् | अद्य वयं भारतस्य यस्य संविधानस्य विषये गौरवमनुभवामः, तस्य निर्माणे बाबासाहेब-आंबेडकरस्य कुशल-नेतृत्वस्य अनुपमः प्रभावः वर्तते | तेन सुनिर्धारितमासीत् यत् समाजस्य प्रत्येकमपि वर्गस्य कल्याणं भवेत् | डिसम्बर-मासे षष्ठे दिने तस्य महापरिनिर्वाण-दिवसस्य अवसरे, वयं सर्वदा एव तं स्मरामः नमामश्च | देशस्य समृद्धौ शक्तिमत्करणे च बाबासाहेबस्य योगदानम् अविस्मरणीयम् अस्ति | डिसम्बर-मासे पञ्चदशे दिने सरदार-वल्लभभाई-पटेलस्य पुण्यतिथिरस्ति | कृषक-पुत्रतः लौह-पुरुषत्वेन प्रतिष्ठितः सरदार-पटेलः,  देशस्य एकसूत्रीकरणे अतितराम् असाधारण-कार्यम् अनुष्ठितवान् | सरदार-साहबः अपि संविधान-सभायाः सदस्यः आसीत् | असौ मौलिकाधिकाराणां, अल्प-संख्यकानाम् आदिवासिनां च कृते विरचितायाः परामर्शदातृ-समितेः अपि अध्यक्षः आसीत् |
           नवम्बर-मासीयः एकादश-दिनाङ्कः अस्मदीय-संविधान-दिवसोsस्ति, परञ्च देशोsयं कथं विस्मर्तुं प्रभवति यत् नव-वर्षेभ्यः प्राक्, अस्मिन्नेव दिने, आतंकवादिनः मुंबईम् आक्रान्तवन्तः |  देशोsयं तान् वीरान् नागरिकान्, रक्षिकर्मिणः, सुरक्षाकर्मिणः, सर्वान् अपि तान् स्मरति प्रणमति च, ये आत्मानम् उत्सृष्टवन्तः | देशोsयं तेषां बलिदानं न कदापि विस्मरिष्यति | आतंकवादः, अद्यत्वे विश्वस्य प्रत्येकमपि भू-भागे सामान्यतः प्रतिदिनं सञ्जायमानायाः घटनायाः अति-भयंकर-रूपत्वेन संतिष्ठते | वयं, भारते विगतेभ्यः चत्वारिंशद्वर्षेभ्यः आतंकवादस्य कारणात् सुबहु सम्मुखीकुर्मः | अस्मदीयाः परस्सहस्रं निर्दोष-जनाः विगत-प्राणाः जाताः | अपि च, कतिपय-वर्षेभ्यः प्राक्, यदा भारतं जगति आतंकवादं चर्चते स्म, आतंकवादात्  सञ्जायमानं भयङ्करं सङ्कटं परिचर्चते स्म, तदा जगतः जनानाम् अधिसंख्यं विषयमेनं गभीरतया स्वीकर्तुम् उद्यतं नैव आसीत् | परञ्चाद्य, आतंकवादः तेषां द्वाराणि संकेतयति तदा जगतः प्रत्येकमपि प्रशासनम्, मानवतावादे आहित-विश्वासानि, लोकतन्त्रे आश्वस्तानि प्रशासनानि च, आतंकवादं बृहत्तर-समाह्वानत्वेन अवलोकयन्ति | आतंकवादः विश्वस्य मानवतां समाह्वयति | सः मानवीय-शक्तीः नाशयितुं तत्परः | अतः न केवलं भारतं, विश्वस्य सर्वाः अपि मानवतावादि-शक्तयः सम्भूय, नूनम् आतंकवादं पराजयेरन् | भगवान् बुद्धः,  भगवान् महावीरः, गुरुः नानकः,  महात्म-गांधी चैतेषाम् एषा भूः, ये सदा जगति अहिंसा-प्रेम्णोः सन्देशं प्रसारितवन्तः |  आतंकवादः उग्रवादश्च, अस्मदीयां सामाजिक-संरचनां दुर्बलीकृत्य एनां छेत्तुं भेत्तुञ्च दुश्चेष्टेते |  अत एव, कालेsस्मिन् मानवतावादि-शक्तयः समधिक-जागरुकतया व्यवहरेयुः इति परमावश्यकम् |
         मम प्रियाः देशवासिनः, डिसम्बर-मासे चतुर्थ-दिने वयं सर्वे मिलित्वा नौ-सेना-दिवसम् आयोजयिष्यामः |  भारतीय-नौ-सेना, अस्मदीय-समुद्र-तटानि संरक्षति |  अहं, नौ-सेना-सम्बद्धान् सर्वान्नपि जनान् अभिनन्दामि | भवन्तः सर्वे जानन्त्येव यत् अस्मदीय-सभ्यतायाः विकासः नदीनां तटेषु अजायत | भवतु नाम सा गङ्गा वा सिन्धुः वा यमुना वा सरस्वती - अस्मदीयाः सरितः समुद्राश्च, आर्थिक-सामरिकेति द्विविध-लक्ष्यार्थं महत्वाधायिनः सन्ति |  एते अशेष-विश्वस्य कृते अस्मदीय-द्वाराणि सन्ति | अस्य देशस्य, अस्मदीयायाः अस्याः भूमेः महासागरैः साकम् अविभाज्यः सम्बन्धः अवर्तत, तथा च, यदा वयम् इतिहासम् अवलोकयामः, प्रायेण अष्टशत-नवशत-वर्षेभ्यः प्राक् [800-900] चोल-वंश-काले, चोल-नौ-सेना शक्तिमत्तमासु सेनासु अन्यतमा मान्यते स्म | चोल-साम्राज्यस्य विस्तरे, आर्थिक-महच्छक्तित्वेन अस्य विकासार्थं नौ-सेनायाः महद्-योगदानमासीत् | चोल-नौ-सेनायाः अभियानानाम्, अन्वेषण-यात्राणाम् चानेकानि उदाहरणानि अद्यापि, संगम-साहित्ये समुपलब्धानि सन्ति | अतिन्यूनाः एव अवगताः भवेयुः यत् जगति नौसेनानाम् अधिसंख्यं सुदीर्घ-कालानन्तरं युद्ध-पोतेषु कार्यार्थं महिलाः अनुज्ञातवत् | परञ्च, चोल-नौसेनायां, अष्टशत-नवशत-वर्षेभ्यः प्राक्, अनेकाः महिलाः प्रमुखां भूमिकां निरवहन् | न केवलम् एतावदेव, युद्धेष्वपि महिलाः समाविष्टाः आसन् | चोल-शासकाः पोत-निर्माण-विषयकं बहुतरं समृद्धं ज्ञानं सन्धारयन्ति स्म | यदा वयं नौ-सेना-विषयं कथयामः तदा छत्रपति-शिवाजी-महाराजस्य तस्य च नौ-सेनायाः सामर्थ्यं को नाम विस्मर्तुम् अर्हति ! कोंकण-तट-क्षेत्रम्, यत्र समुद्रस्य महत्वपूर्णा भूमिका वर्तते,  शिवाजी-महाराजस्य राज्यान्तर्वर्ति आसीत् |  शिवाजी-महाराजेन सम्बद्धाः अनेके दुर्गाः - यथा सिंधु-दुर्गः, मुरुड-जंजिरा-दुर्गः, स्वर्ण-दुर्गः प्रभृतयः, समुद्रतट-वर्तिनः आसन् उत वा समुद्रेण परिवृताः आसन् | एतेषां दुर्गाणां सुरक्षा-दायित्वं हि मराठा-नौ-सेना कुर्वन्ती आसीत् | मराठा-नौ-सेनायां विशाल-काय-पोतानां लघु-नौकानाञ्च संयुतिः आसीत् | अस्याः नौसैनिकाः कमपि शत्रुम् आक्रान्तुं तस्माच्च आत्मानं रक्षितुं अतितरां कुशलाः आसन् | यदा वयं मराठा-नौ-सेनायाः चर्चां कुर्मः, तदा कान्होजी-आंग्रे-वर्यस्य स्मरणं नैव जायेत, तन्नैवास्ति शक्यम् ! सः मराठा-नौ-सेनायाः स्तरोन्नयनं कृतवान् अपि च, नैकत्र, मराठा-नौ-सैनिकानाम् आस्थानकानि स्थापितवान् | स्वतंत्रतायाः प्राप्तेः अनन्तरम् अस्मदीया भारतीया नौ-सेना, विभिन्नेषु अवसरेषु स्वीयं पराक्रमं प्रादर्शयत् -  भवतु सः गोवा-मुक्ति-संग्रामः आहोस्वित् ऊनविंश-शताब्दस्य एकसप्ततितम-वर्षीयं [1971] भारत-पाक-युद्धम् |  यदा वयं नौ-सेनायाः चर्चां कुर्मः तदा केवलं युद्धमेव पश्यामः परञ्च भारतस्य नौ-सेना, मानवतायाः कार्येष्वपि सोत्साहं सहभागित्वमावहति |  वर्षेsस्मिन् जून-मासे बांग्लादेश-म्यांमार-देशयोः Cyclone Mora- इति सामुद्रिक-झञ्झावात-संकटं समापन्नमासीत्, तदा अस्मदीय-नौसेनायाः  INS-SUMITRA-पोतः तत्कालमेव सुरक्षा-साहाय्य-कार्याणि कुर्वन् अनेकान् मत्स्य-जीविनः जलेभ्यः निष्कास्य संरक्ष्य च बांग्लादेशाय अर्पितवान् | वर्षेsस्मिन् मे-जून-मासयोः यदा श्रीलंका-देशे जलपूरस्य भयंकरं संकटं समापन्नं तदा अस्मदीय-नौ-सेनायाः पोत-त्रयं तत्कालमेव तत्र गत्वा तत्रत्य-प्रशासनाय जनतायै च साहाय्यं व्यदधात् | बांग्लादेशे सेप्टेम्बर-मासे रोहिंग्या-विषये अस्मदीय-नौ-सेनायाः  INS-GHADIYAL- (घड़ियाल)- इति पोत-द्वारा मानवीय-सहायता प्रापिता | जून-मासे PAPUA NEW GUINEA ( पापुआ न्यू गिनी ) - देशस्य सर्वकारः SOS- इत्यात्मरक्षि-सन्देशं प्राहिणोत्, तथा च, तस्य मत्स्याहरण-नौकायाः धीवरान् रक्षितुम् अस्मदीया नौ-सेना साहाय्यम् अकरोत् | नवंबर-मासे एक-विंशे दिने पश्चिमीय-खाते एकस्मिन् व्यापारिक-पोते दुरापन्ने सामुद्रिक-लुण्ठन-घटनावसरेsपि, अस्मदीय-नौ-सेनायाः INS TRIKAND - (त्रिकंड) इति पोतः साहाय्यार्थं तत्र द्रुतं प्रयातः | फ़िजी-देशाय [FIJI] आरोग्य-सेवानां सम्प्रापणं वा भवेत्,  तत्कालमेव साहाय्य-प्रदानं वा स्यात्, प्रतिवेशि-देशस्य संकट-काले मानवीय-साहाय्य-प्रदानं वा स्यात्, अस्मदीया नौ-सेना सर्वदैव गौरवपूर्णानि कार्याणि कुर्वन्ती आसीत् | वयं भारतवासिनः, अस्मदीय-सुरक्षा-बलानि प्रति सर्वदैव गौरवस्य आदरस्य च भावं सन्धारयामः -  भवतु नाम स्थल-सेना वा नौ-सेना वा वायु-सेना, अस्माकं सैनिकानां साहसं, वीरता, शौर्यं, पराक्रमः, बलिदानञ्च गौरवास्पदमेव, प्रत्येकमपि देशवासी एतान् प्रणमति | सपाद-शत-कोटि-मिताः देशवासिनः सुखेन जीवनं यापयेयुः इति विचिन्त्य एते स्वीयं यौवनं राष्ट्राय समर्पयन्ति | प्रति-वर्षं डिसेम्बर-मासे सप्तमे दिने सशस्त्रबलानि ध्वज-दिनम् आयोजयन्ति |  अयं हि देशस्य सशस्त्रबलानि प्रति गर्व-सम्मानयोः प्रकटीकरणस्य दिवसोsस्ति | प्रसन्नोsस्मि यत् सम्प्रति प्रतिरक्षा-मंत्रालयः डिसेम्बर-मासे एकतः सप्तम-दिनं यावत् अभियानं प्रचालयितुं निरणैषीत् - देशस्य नागरिकान् सम्प्राप्य सशस्त्रबलानां विषये जनाः संसूचनीयाः, ते च सुतरां प्रबोधनीयाः | सम्पूर्णेsपि सप्ताहे आबाल-वृद्धाः सर्वेsपि ध्वजं सन्धारयेयुः | देशे सेनां प्रति सम्मानस्य आन्दोलनं प्रवर्तितं स्यात् |  अवसरेsस्मिन् वयं सशस्त्रबलानां ध्वजान् वितरितुं शक्नुमः | स्व-परिवर्तिभ्यः निज-परिचितेभ्यश्च सशस्त्रबलैः सम्बद्धानां अनुभवान्, तेषां शौर्यपूर्ण-कार्याणि, तत्सम्बद्ध-चित्राङ्कन-मुद्रिकाः, चित्राणि च (hashtag armedforcesflagday) #armedforcesflagday- इत्यत्र प्रेषयितुं शक्नुमः | विद्यालयेषु, महाविद्यालयेषु च, सैनिकान् सैन्याधिकारिणश्च समामन्त्र्य, तेभ्यः सैन्य-विषयाणां सूचनाः आदातुं शक्नुमः | अस्माकं नूतन-सन्ततये सेना-सम्बद्ध-सूचनाः अधिगन्तुमयं समुचितः अवसरः भवितुमर्हति | अवसरोsयं अस्माकं सशस्त्र-सैन्य-बालानां सर्वेषामपि सैनिकानां कल्याणार्थं धनराशि-संग्रहस्य कालः भवति | राशिरयं, सैनिक-कल्याण-मण्डल-माध्यमेन युद्धस्य हुतात्मनां सैनिकानां कुटुम्ब-जनानां व्रणितानाम् आहतानां च भटानां कल्याणार्थं पुनर्वासार्थञ्च व्ययीक्रियते | आर्थिक-योगदानार्थं भवन्तः विभिन्न-प्रदेय-विषयिणीः सूचनाः ksb.gov.in - इत्यतः आदातुं शक्नुवन्ति | भवन्तः एतदर्थं cashless- इति रोक्क-रहितं प्रदातुमर्हन्ति | आगच्छन्तु, अवसरेsस्मिन् वयमपि किञ्चित् तादृशं करवाम, येन अस्मदीय-सशस्त्र-बलानां मनोबलं विवर्धेत |  वयमपि तेषां कल्याण-दिशि स्वीयं योगदानं करवाम |
                  मम प्रियाः देशवासिनः, डिसेम्बर-मासीये पञ्चमे दिने ‘World Soil Day’ - इति विश्व-मृत्तिका-दिवसोsस्ति | अहं स्वीयैः कृषक-भ्रातृ-भगिनीभिः साकमपि किञ्चित् सम्भाषितुमीहे | पृथिव्याः महत्वपूर्णाङ्गत्वेन वर्तते - मृत्तिका | वयं यत्-किमपि खादामः तत्-सर्वमपि अनया मृत्तिकया एव सम्पृक्तं वर्तते | एकतस्तु, कृत्स्नापि खाद्य-शृङ्खला मृत्तिकया सम्बद्धास्ति | किञ्चित् कल्पयन्तु, यदि विश्वेsस्मिन् कुत्रचिदपि उत्पादक-मृत्तिका नैव भवेत् चेत्, किं नाम भविष्यति ? इदं विचिन्त्यैव भीतिः अनुभूयते | नैव मृत्तिका भविता, न हि पादपाः वा वृक्षाः समुत्पत्स्यन्ते, मानव-जीवनं कुत्र सम्भविता ? जीव-जन्तवः कुत्र सम्भविष्यन्ति ?  अस्मदीयायां संस्कृतौ एतद्-विषयिणी चिन्ता पूर्वमेव परिशीलिता, इदमेव कारणमस्ति यत् वयं मृत्तिकायाः महत्व-विषये प्राचीन-कालादेव जागरुकाः स्मः | अस्मदीयायां  संस्कृतौ एकतः कृषि-क्षेत्राणि प्रति, मृत्तिकां प्रति च  भक्तिः आभार-भावश्च, जनेषु प्रवर्तेत - इति कृत्वा सहजः प्रयासः विहितः, अपरतश्च, तादृश्यः वैज्ञानिक-पद्धतयः, जीवनस्य अङ्गत्वेन अवर्तन्त यत् अस्याः मृत्तिकायाः पोषणं सततं स्यात् | अस्य देशस्य कृषकस्य जीवने तथ्य-द्वयस्यापि महत्वं प्रावर्तत - निज-मृत्तिकां प्रति भक्तिः युगपदेव, वैज्ञानिक-रूपेण मृत्तिकायाः संरक्षणं परिपोषणञ्च | वयं सर्वेsपि विषयेsस्मिन् गौरवमनुभवामः यत् अस्मदीयाः कृषकाः, परम्पराभिः साकमपि सम्पृक्ताः भवन्ति तथा च, आधुनिक-विज्ञानं प्रत्यपि रुचिमन्तो भवन्ति, प्रयतन्ते, संकल्पयन्ति च | अहं हिमाचल-प्रदेशस्य हमीरपुर-जनपदस्य टोहू-ग्रामस्य  भोरंज-प्रखण्डस्य कृषकाणां विषये श्रुतवान् | अत्र पूर्वं कृषकाः असन्तोलित-रीत्या रासायनि- कोर्वरकाणाम् उपयोगं कुर्वन्ति स्म, येन एतस्याः भूमेः स्वास्थ्यम् अपक्षतम् | उत्पादनं न्यूनीभूतम्, उत्पादन-न्यूनतायाः कारणात् आयजातमपि न्यूनीभूतम्, मृत्तिकायाः उत्पादकता चापि शनैः शनैः क्षीणा जायते स्म | ग्रामस्य केचन जागरुकाः कृषकाः अस्याः परिस्थितेः गम्भीरताम् अवागच्छन्, तदनन्तरं ग्रामस्य कृषकाः काले एव स्व-मृत्तिकां परीक्षितवन्तः, तथा च, यावन्ति उर्वरकाणि, लघु-पौष्टिक-वस्तूनि, जैविकोर्वर्काणि चोपयोक्तुं ते निर्दिष्टाः, ते तदनुसृतवन्तः | तथा च, भवन्तः तत्परिणामं श्रुत्वा चकिताः भविष्यन्ति यन् मृत्तिका-आरोग्य-द्वारा कृषकाः यां सूचनां प्राप्तवन्तः, यन्मार्ग-दर्शनं लब्धवन्तः, तस्य कार्यान्वयनस्य परिणामः किमभवत् ? विगत-वित्त-वर्षे श्रावणीय-शस्यावधौ गोधूमस्य उत्पादने प्रति-एकड् त्रितः चतुर्मिता वृद्धिः जाता, अपि च, आयमितौ अपि प्रति-एकड् चतुर्तः षट्-सहस्र-रूप्यकाणां वृद्धिः अभवत् | अमुना साकं मृत्तिकायाः गुणवत्तायामपि परिष्कारः अजायत | उर्वरकस्य उपयोगस्य न्यूनता-कारणात् आर्थिक-सञ्चयोsपि जातः |  इदं दृष्ट्वा प्रसीदामितमां यन्मम कृषक-भ्रातरः, मृदा–स्वास्थ्य-पत्रस्य परमर्शान् क्रियया अन्वेतुं प्रेरिताः अभूवन्, तथा च, यथा यथा परिणामाः अवाप्यन्ते, तेषां समुत्साहः अपि संवर्धते | सम्प्रति कृषकाः अपि अनुभवन्ति यत् शस्यानि चिन्तनीयानि सन्ति चेत् प्रथमं तावत् भूमेः चिन्ता करणीयास्ति, एवं हि, यदि वयं भूमि-मातुः चिन्तां करिष्यामश्चेत् भूमि-मातापि अस्माकं सर्वेषां पोषणं करिष्यति | अशेष- देशे अस्मदीयैः कृषकैः दश-कोट्यधिकानि मृदारोग्य-पत्राणि विनिर्मितानि येन हि ते स्वीय-मृत्तिकां सम्यग्रूपेण अवगन्तुं शक्नुयुः, तदनुरूपेण च, शस्य-वपनमपि कर्तुं पारयेयुः |  वयं भूमि-मातुः भक्तिं कुर्मः, परञ्च यूरिया-सदृशैः उर्वरकैः भूमि-मातुः स्वास्थ्यं कियद् अपक्षतं भवति ? कदाचित् विचारितं वा ? प्रत्येकमपि वैज्ञानिक-प्रकारेण इदं सिद्धं यत् भूमि-माता समधिकस्य यूरियोपयोगस्य कारणात् गभीरां क्षतिं सम्मुखी- करोति | कृषकस्तु पृथिव्याः पुत्रोsस्ति, कृषकः भूमि-मातरम् अस्वस्थां कथं द्रष्टुं शक्ष्यति ?  कालस्य इयमावश्यकतास्ति यत् मातृ-पुत्रयोः सम्बन्धाः पुनरेकवारं जागृताः स्युः | किम् अस्माकं कृषकाः, अस्मदीयायाः भूमेः पुत्राः, अस्माकं धरण्याः सन्ततयश्च इदं संकल्पयितुं शक्नुवन्ति यत् साम्प्रतं ते स्वीय-क्षेत्रेषु यावन्तं यूरियोपयोगं कुर्वन्ति, एतच्छताब्दस्य द्वाविंश-वर्षं यावत्, यद्धि स्वाधीनता-प्राप्तेः पञ्च-सप्तति-वर्षं भविता, अर्धोपयोगं अवरोत्स्यन्ति ?  एक-वारं यदि, भूमि-मातुः पुत्रः, मम कृषक-भ्राता, इदं संकल्पयति चेत्, नूनं पश्यन्तु, भूमि-मातुः आरोग्यं परिष्कृतं भविता,  उत्पादनञ्च विवर्धिता | कृषकस्य जीवनं परिवर्तितुम् आरप्स्यते |
     सम्प्रति वयं सर्वेsपि Global warming, Climate change- इति जागतोष्णता-ऋतु-परिवर्तन-विषयम् अनुभवामः | कदाचित् तादृशः कालः आसीत् यदा दीपावल्याः प्रागेव शीतर्तुः प्रारभते स्म | अधुना सत्यपि डिसेम्बर-मासे आगते, शीतर्तुः शनैः शनैः समुपागच्छति | परञ्च यथैव शीतकालः आरभते, वयं सर्वेsपि अनुभवामः यत् कम्बलात् बहिः निर्गन्तुं न मनागपि कस्मैचिद् रोचते | परञ्च, एतादृशेष्वपि ऋतुषु सततं जागरुकाः सन्तः जनाः महान्तं परिणामं विधातुमर्हन्ति, अपि चैतानि उदाहरणानि अस्माकं सर्वेषां कृते प्रेरणा-प्रदायीनि भवन्ति | भवन्तोsपि इदं श्रुत्वा आश्चर्यमनुभविष्यन्ति यन् मध्यप्रदेशस्य अष्ट-वर्षीयः दिव्यांग-बालकः तुषारः, स्वीयं ग्रामं अनावृत-शौचाचरणान् मुक्तं विधातुं निरणैषीत् | एतावत्-व्यापक-स्तरीयं कार्यं तथा च, एतावान् कनीयान् बालकः ! परञ्च भावः संकल्पश्च, सुतरां बहुगुणितौ बृहन्तौ बलवत्तरौ च आस्ताम् | अष्ट-वर्षीय-बालकः न वक्तुं प्रभवति परञ्च, शीष्कारं स्वीयायुधत्वेन स्वीकृत्य प्रातः पञ्च-वादने उत्थाय स्वीय-ग्रामे प्रतिगृहं गत्वा च जनान् शीष्कार-स्वरेण जागरयति, हस्तयोः संकेतेन अनावृते शौचाचरणं नैव कर्तुं  शिक्षयितुम् आरभत | प्रतिदिनं त्रिंशत्-चत्वारिंशत्-संख्याकेषु गृहेषु गत्वा स्वच्छतायाः सन्देश-प्रदायकस्य अस्य बालकस्य कारणात् कुम्हारी-ग्रामः, अनावृते शौचाचरणान् मुक्तः अभवत् | स्वच्छता-प्रोत्साहनाय कनिष्ठः बालकः तुषारः प्रेरकं कार्यमकरोत् | अस्माकीनाः दिव्यांग-भातृ-भगिन्यः दृढ़-निश्चयिनः, सामर्थ्यवन्तः, साहसिकाः संकल्प-वन्तश्च वर्तन्ते | प्रतिक्षणं वयं किञ्चित्-किञ्चिदपि शिक्षितुं अवसरान् लभेमहि | साम्प्रतं ते प्रत्येकमपि क्षेत्रे समीचीनतरं कार्यं कुर्वन्ति | अस्माकं दिव्यांग-जनाः न कस्मादपि पश्चवर्तिनः वर्तन्ते |  भवन्तः सर्वे स्मरन्ति वा यत् अस्माकं दिव्याङ्गाः क्रीडकाः Rio Olympic-क्रीडा-स्पर्धासु भद्रतरं प्रदर्शनम् अकुर्वन्, चत्वारि पदकानि च विजितवन्तः | तथा च, नेत्रहीन- T-20 Cricket World Cup- इति स्पर्धायां अपि विजेतारः अभूवन् | अशेष-देशे पृथक्-पृथक्-प्रकारिकाः प्रतियोगिताः आयोज्यन्ते | विगतेषु दिनेषु उदयपुरे  सप्तदश-संख्याकाः राष्ट्रिय-दिव्याङ्ग-तरण-स्पर्धाः आयोजिताः | अशेष-देशाद् आगताः अस्मदीयाः युवानः दिव्याङ्गाः भ्रातृ-भगिन्यः आसु सहभागित्वम् आवहन्, स्वीयं कौशलञ्च प्रादर्शयन् | तेषु अन्यतमः अस्ति- गुजरातस्य ऊनविंश-वर्षीयः जिगर-ठक्करः, तस्य शरीरे प्रतिशतं अशीतौ भागेषु मांसकोशिकाः नैव वर्तन्ते, परञ्च, तस्य साहसम्, संकल्पम् श्रमञ्च पश्यन्तु ! राष्ट्रिय-दिव्याङ्ग-तरण-स्पर्धायाम् ऊनविंश-वर्षीयः जिगर-ठक्करः  एकादश-पदकानि विजितवान् !  असौ भारतस्य स्पर्धा-प्राधिकरण- द्वारा विंशति-विंशति-दिव्याङ्ग-ओलम्पिक-स्पर्धायै चितः, द्वात्रिंशत्-तरण-पटुषु चान्यतमः यो हि गुजराते गांधीनगरे    Centre for Excellences- इत्यत्र प्रशिक्षणं प्राप्स्यति | अहं यूनः जिगर-ठक्करस्य समुत्साहम् अभिनन्दामि, तस्मै च मङ्गल-कामनाः व्याहरामि | अस्मदीयोsयं प्रयासो वर्तते यत् देशस्य प्रत्येकमपि जनः समर्थः क्षमश्च स्यात् | एकस्य समावेशि-समाजस्य निर्माणं भवेत् | ‘सम’-‘मम’’ इत्यनयोः भावः समाजे समरसतां विवर्धयेत्, सर्वे च सम्भूय अग्रेसरेम |
          कतिपय-दिनानन्तरम् ‘ईद-ए-मिलाद्-उन-नबी’-पर्व आयोजयिष्यते| दिनेsस्मिन् पैगम्बर-हज़रत-मोहम्मद-वर्यस्य जन्म अजायत | अहं सर्वेभ्योsपि देशवासिभ्यः हार्दिकीः शुभकामनाः वितरामि, आशासे यत् इदम् ईद-पर्व,  समाजे शान्तिं सद्भावनाञ्च विवर्धयितुं अस्मभ्यं सर्वेभ्यः नूतन-प्रेरणा-प्रदायि स्यात्, अभिनवाञ्च ऊर्जां प्रदद्यात्, नवीन-संकल्पस्य च सामर्थ्य-प्रदं भवेत् |
(दूरभाषः)
‘नमस्ते ! प्रधानमन्त्रि-महोदय, अहं कानपुरतः नीरजा-सिंहः वदामि |  मम निवेदनं यत् अस्मिन् सम्पूर्णेsपि वर्षे स्वीये ‘मन की बात’-प्रसारणे यत् किमपि भवता उक्तं तेषु सर्वोत्तमान् दश-विषयान् पुनरपि अस्मान् कथयतु, येन पुनरपि तेषां विषयाणां स्मरणं स्यात् तथा च, वयं किञ्चित् इतः परमपि शिक्षितुं शक्नुमः | धन्यवादः |
( इति दूरभाष-सम्भाषणंम् )
        भवत्याः कथनं समीचीनम् | इदं वर्षं पूर्णं भवति | अभिनवं वर्षं आसन्न-प्रायम् | परञ्च भवत्या सम्यक् परामर्शितम् | भवत्या यदुक्तं तेन सह किमपि संयोक्तुं किञ्चित् परिवर्तयितुं चाभिलषामि |  अस्माकं ग्रामेषु ये वरिष्ठाः वृद्धाः भवन्ति, ते सर्वदैव कथयन्ति यत् दुःखं विस्मरतु, सुखञ्च नैव विस्मृतं स्यात् | अनुभवामि यद् विषयोsयं अस्माभिः प्रचारणीयः | वयं अष्टादशोत्तर-द्विसहस्र-तमे वर्षे शुभ-स्मरण-पुरस्सरम्, शुभ-संकल्पेन सहैव प्रविशेम | अस्माकं देशे तु संचार-माध्यमेषु, विगत-वर्षस्य अनेकासां रोचक-घटनानां पुनःस्मरणं कारयितुं प्रयत्यते | तेषु रचनात्मकमपि भवति, नकारात्मकमपि भवति | अहं भवद्भ्यः परामर्शमेकं वदामि यत् भवन्तः पञ्च वा दश वा रचनात्मक-विषयान् स्वीकर्वन्तु ये भवद्भिः श्रुताः वा दृष्टाः वा अनुभूताः स्युः तान् जनाः अपि अवगच्छन्ति चेत्, तेsपि शुभ-भावानुभूतिम् अवाप्नुयुः| किमत्र योगदानं कर्तुं शक्ष्यन्ति ?  किम् अस्मिन् क्रमे वयं अस्य वर्षस्य जीवनस्य पञ्च रचनात्मक-विषयानुभवान् संभक्तुं शक्नुमः ? भवतु नाम तत् चित्र-माध्यमेन, वा लघुकथा-रूपेण, लघु-दृश्याङ्कनेन वा, अहम् आमन्त्रयामि यत् अष्टादशोत्तर-द्विसहस्र-तम-वर्षस्य स्वागतम् अस्माभिः शुभे परिवेशे करणीयम् | शुभ-स्मृतिभिः साकं करणीयम् | रचनात्मक-चिन्तनेन सह अनुष्ठेयम् | रचनात्मक-विषयान् संस्मृत्य विधेयम् |
      आगच्छन्तु, NarendraModi App- इत्यत्र, MyGov- इत्यत्र, सामाजिक-संचार-माध्यमेषु #PositiveIndia (हैशटैग Positive India) - इत्यमुना साकं सकारात्मक-विषयान् वितरेम | अन्येभ्यः प्रेरणा-प्रदायि-घटनाः स्मरेम |  शुभं स्मरेम चेत् शुभानुष्ठानस्य रुचिः समुत्पत्स्यते | शुभ-वस्तूनि शुभ-कार्यार्थम् ऊर्जां प्रददति | शुभ-भावः,  शुभ-संकल्पस्य हेतुः भवति | शुभ-संकल्पः शुभ-परिणामार्थम् अग्रे सन्नयति |
   आगच्छन्तु, सम्प्रति प्रयतेम #PositiveIndia (हैशटैग Positive India)  | पश्यन्तु, वयं सर्वे सम्भूय प्रबलं रचनात्मकं च परिवेशं निर्माय आगमिष्यमाणस्य वर्षस्य स्वागतं करिष्यामः | अस्य वर्षस्य सामूहिक-गतेः शक्तिम्, अस्याश्च शक्तेः  प्रभावं वयं सर्वे मिलित्वा द्रक्ष्यामः | तथा च, अवश्यमहम् आगामिनि ‘मन की बात’ -प्रसारणे #PositiveIndia (हैशटैग Positive India) इत्यत्र स्थापितान् विषयान् देशवासिभ्यः प्रापयितुं प्रयतिष्ये |                                                 
            मम प्रियाः देशवासिनः,  आगामिनि मासे, आगामिने ‘मन की बात’-प्रसारणाय अहं पुनरेकवारं भवतां मध्ये आगमिष्यामि | अनेकविधान् विषयान्  चर्चितुं अवसरञ्च लप्स्ये | भूयांसो धन्यवादाः !!!

Monday, 13 November 2017

शिव उत माधवः? कस्त्वम्?
 सम्पादका -बाला  चिर्रावूरी
               "शिवस्य हृदयं विष्णुः विष्णोश्च हृदयं शिवः" इति शिवकेशवयोरैक्यं प्रतिदिनमपि संध्यायां उच्यन्ते। शिवविष्ण्वोःअभेदं अयं मन्त्रः प्रतिपाद्यते।तद्वदेव हरिहरौ, रामलिङ्गेश्वरौ, रामेश्वरौ, शंकरनारायणौ एतानि नामान्यपि अभेदं प्रतिपाद्यन्ते।

एकदा अमर्त्यानां संदेहो सञ्जातः" रामेश्वरमिति पदस्य समासःक "इति। व्याकरणे समासेषु ' कर्मधारय' 'तत्पुरुष''बहुव्रीहि' इति वर्तन्ते। 

राजसेवकः इत्युक्ते तत्पुरुषसमासो भवति। राज्ञः सेवकः इतयर्थः भवति। षष्ठीविभक्त्यर्थः अस्मिन् वर्तते इति कारणात् अयं षष्ठीतत्पुरुषसमासो भवति। 


'नीलोत्पलम्' अर्थात् नीलिवर्णयुत उत्पलमिति। इदं कर्मधारयमिति वदन्ति।

'दण्डपाणिः'अर्थात् दण्डः पाणौ यस्य सः ।बहुव्रीहिःभवति। दण्डपाणि शब्दस्य विभिन्ना अर्थाः वर्ततन्ते। यथा सुब्रह्मण्यः, कालभैरवः ... इत्यदयः। दण्ड इति शब्दात् पाणि इति शब्दादपि भिन्नोऽर्थः द्योतते बहुव्रीहौ। 'बहुव्रीहिः' इत्यस्य पदस्य अर्थ एव बहुफलसम्पन्नं धान्यसस्यमिति। 

'रामेश्वरम्' कस्समासो भवति? तत्पुरुषो वा? ' रमस्य ईश्वरः' इत्युक्ते सति ' रामस्य प्रभुरीश्वरः'इति अर्थो द्योतते। तदा तत्र शिवाधिक्यं भवति। शिवधनुर्भङ्गः कृत रामः शिवात् कथं न्यूनो भवति? सर्वलोकशरण्यो रामः , तस्मादुपरि पुनरीश्वरो वा? इमान् सन्देहाने कः समाधत्ते?  देवाः विष्णुमेव प्रक्ष्यामः इति विचार्य वैकुण्ठं प्रति अगमन्। ' अतिस्वल्पविषयमधिकृत्य बहुदूरं आगच्छन्ति?  एतत्पदस्यवलोकनेनैव तत्तपुरुष इति ज्ञायते। 'रामस्य ईश्वरः'एव इति विष्णुना प्रोक्तम्।किन्तु इतोऽपि देवाः न शंकानिवारिताः।

"विष्णुः कल्याणपरिपूर्णो भवति। कल्याणगुणेषु विनयोऽपि वर्तते। विनयसम्पन्नात्, अहंभावरहिताद्वा , ह्रिया वा विष्णुना एवं कथितम्। भवतु , शिवं प्रक्ष्यामः, सः किं कथयिष्तीति द्रक्ष्यामः" इति विचिन्त्य' विष्णुस्तत्पुरुषं ब्रूते' ' विष्णुः, रामेश्वरपदम्, तत्पुरुषसमासः इति चिन्तयन्तस्सन्तः कैलासमगच्छन्।

नाकलोकवासिनां सन्देहं श्रुतवान् नागाभरणधारी। ' भोः! अस्मिन् सन्देहस्य अवकाश कुत्रास्ति? रामेश्वरपदं बहुव्रीहिः भवति। राम एव ईश्वरः यस्य सः रामेश्वरः' इति समधत्तः ईश्वरः। 

व्याकरणविषये शिवकेशवयोर्मध्ये एवंप्रकारेण भेदाभिप्रायाः वर्तन्ते इति देवाः स्वप्ने अपि न ऊह्यन्ते। रामेश्वरपदे तयोः नाम प्रसक्तिरस्तीति कारणात् मध्यवर्तिनं पृष्ट्वा शंकानिवारणं कुर्मः इति ' बहुव्रीहिं महेश्वरः', शिवः बहुव्रीहिसमासः इति उक्तस्सन्तः  ब्रह्माणं दर्शितवन्तः। देवतानां सन्देहं, प्रचलितवृत्तान्तम्यावत् प्रशान्ततया आकर्ण्य " अयं तत्पुरुषसमसो नास्ति, बहुव्रीहिरपि नास्ति कर्मधारय इति, वीरराघव इत्युक्ते वीरः एकः राघवः अन्यो वा? नास्ति खलु! तद्वदेव रामेश्वर इत्युक्ते रामः एकः ईश्वरः अन्यो वा? रामएव ईश्वरः, ईश्वर एव रामः अर्थात् रामश्चासौ ईश्वरः- रामेश्वरः कर्मधारय एव भवति" इति शासनं क्रियते ब्रह्मणा। 

 विष्णुस्तत्पुरुषं ब्रूते बहुव्रीहिं महेश्वरः।
 उभयोरप्यतृप्तानामत्मभूः कर्मधारय।।

आत्मभूः अर्थात् ब्रह्मा, देवानां प्रति शिकेशवयोरेकमेव परतत्त्वमस्तीति ब्रह्मा बोधयामास। 

                बाला...✍

Sunday, 12 November 2017

हरियाणा-राज्यस्य कलाः संस्कृतिः इतिहासश्च  
                                                              - बलदेवानन्द-सागरः  
हरियाणा अर्थात् परमात्मनः निवास-स्थानम्  -
             सम्प्रति हिमालयस्य मुकुटवन्तं विशालम् आधुनिकञ्च भारतदेशं  सरलतया अवगन्तुं शक्यते, अस्य च वैभव-ज्ञानं सुकरञ्चेति नूनं गूगल्-कारणात् प्रतीयते परन्तु यावदवधि अस्य देशस्य कलाः संस्कृतिम् इतिहासञ्च सम्पूर्णतया हृदयङ्गमं नैव कुर्मः तावदवधि महतो भारतस्य बोधः नैवास्ति सुकरः | विशेषेण भारतस्य पृथक्-पृथक् राज्यानि अवगन्तुं तत्तद्-राज्यानां कलानां संस्कृतेः इतिहासस्य च गभीरतया हृदयङ्गमीकरणं परमावश्यकम् |
               “हरियाणा” अर्थात् हरेः [परमात्मनः] निवास-स्थानम् | मन्ये, सर्वे जानन्ति एव यत् “हरि व्यापक सर्वत्र समाना” अर्थात् “हरिः व्यापकः सर्वत्र समानः” | सः परमात्मा सर्वव्यापी किन्तु यस्याः भूमेः नाम एव हरेः निवासत्वेन ख्यातम् सा भूमिः कियती गरीयसी महत्वाधायिनी चास्तीति तु अनुभव-विषयः | शाब्दिक-व्याख्यया एवमवगन्तुं शक्यते यत् - हरि + अयन [अयण], तद्धि पूर्वं ‘हर्ययनम्’- रूपेण [‘हर्ययणम्’- रूपेण वा] प्रयुक्तमासीत्, अनन्तरं भाषित-भाषायां ‘हरियाणा’-नाम्ना प्रतिष्ठितं जातम् |  
             केचन विद्वान्सो निगदन्ति यत् अस्याः भूमेः नाम आसीत् “हरित + अरण्यम्” अर्थात् “शाद्वल-सम्भरितं काननम्” - एतस्मिन्नर्थे ‘हरितारण्यम्’ आसीत् यद्धि कालक्रमेण “हरियाणा” इति रूढं जातम् | एवम्मन्यमानेषु प्रमुखेषु विद्वत्सु श्रीमुरलीचन्द्र-शर्मा, श्रीएच्.ए.फडके, श्रीसुखदेवसिंह-छिबः श्रीमुन्नीलाल-प्रभृतयः अन्यतमाः सन्ति | 
आधुनिक-हरियाणा-राज्यस्य प्राचीन-सन्दर्भाः -        
        आधुनिक-सन्दर्भानुसारेण भारतीय-गणतन्त्रे पृथक्-राज्य-रूपेण १९६६-तमे वर्षे नवम्बर-मासे प्रथम-दिनाङ्के एतत् प्रतिष्ठापितं जातम्, किन्तु विशिष्टमेतद् ऐतिहासिकं सांस्कृतिकञ्च क्षेत्रमिति हरियाणा-राज्यस्य अस्तित्वं प्राचीनकालादेव अभिज्ञातम् आसीत् । 
         राज्यमिदम् आदिकालादेव भारतस्य  संस्कृतेः सभ्यतायाश्च धुरत्वेन अवर्तत। स्मृति-कारस्य महर्षेः मनोः अनुसारेण अस्य प्रदेशस्य अस्तित्वं देवताभिः विरचितम् अत एव अयं 'ब्रह्मवर्त'-प्रदेशः इति अभिहितम् ।  
         हरियाणा-प्रदेशस्य विषये अनेके सन्दर्भाः वैदिक-साहित्ये समुल्लिखिताः सन्ति | प्रदेशेsस्मिन् विहितेन उत्खननेन ज्ञायते यत् सिन्धु-उपत्यकायाः सभ्यतायाः, मोहनजोदड़ो- इत्यवशेषाणां च संस्कृतेः विकासः अत्रैव अजायत ।
          शास्त्र-वेत्तारः, पुराण-रचयितारः विचारकाश्च सुदीर्घ-कालं यावद् अस्य ब्रह्मर्षि-प्रदेशस्य रमणीये अङ्के स्थित्वा अनेकान् धर्म-ग्रन्थान् विरचय्य ज्ञानं प्रसारितवन्तः। ते सर्वदैव भगवत्याः मातुः सरस्वत्याः पावनस्य ब्रह्मवर्तस्य च गुणान् विविधासु निज-रचनासु वर्णितवन्तः।
         अस्य राज्यस्य ब्रह्मवर्त-ब्रह्मर्षि-इति नाम-द्वयम् अतिरिच्य 'ब्रह्मणः उत्तरवेदिका' - इति नाम्नापि प्रदेशोsयं ग्रन्थेषु जेगीयते। राज्यमिदम् आदि-सृष्टेः जन्म-स्थानमित्यपि आमन्यते । एतदपि विश्वस्यते यत् मानव-जातेः समुत्पत्तिः यस्मात् वैवस्वत-मनोः जाता, सः अस्यैव प्रदेशस्य राजा आसीत् । 
        “अवन्ति-सुन्दरी-कथा”- इति ग्रन्थे अयं मनु-महाराजः स्थाण्वीश्वर-निवासी [थानेश्वरवासी] इति वर्णितम् । पुरातत्ववेत्तारो निगदन्ति यद् आद्यैतिहासिक-कालीनायाः, प्राग्हड़प्पा-हड़प्पा-परवर्ति-हड़प्पा-प्रभृतीनाम् चानेकासां संस्कृतीनां बहुविधानि प्रमाणानि, हरियाणा-राज्यस्य वणावली-सीसवाल-कुणाल-मिर्ज़ापुर-दौलतपुर-भगवान्पुरादि-स्थानानाम् उत्खननैः प्राप्तानि ।
हरियाणा - ‘भारत’ - इति नामकरणस्य पृष्ठभूमिः अस्ति  -   
                    भरतवंशी सुदासः अस्मादेव प्रदेशाद् स्वीयं विजयाभियानम् प्रारभत, आर्याणां शक्तिञ्च सङ्घटितवान् । एते एव भरतवंशिनः आर्याः रंहसा सुदूरे पूर्वस्मिन् दक्षिणे च दिग्विभागयोः स्वीयां शक्तिं विवर्धयन्तः अग्रेसृताः । अनन्तरं तेषामेव वीर-भरतवंशिनां नाम्ना अशेष-राष्ट्रस्य अभिधानं ‘भारत’मिति प्रसिद्धिमगात्।
                   महाभारत-कालात् शताब्देभ्यः पूर्वम् आर्यवंशिनः कुरवः अत्रैव कृषि-युगमारभन्त । पौराणिक-कथानुसारेण ते आदिरूपायाः सरितः मातुः सरस्वत्याः ४८-कोष-मितम् उर्वर-प्रदेशं प्रप्रथमं कृषि-योग्यं व्यदधुः । अत एव सा ४८-कोष-परिमिता कृषि-योग्या भूमिः कुरूणां नाम्ना सुप्रतिष्ठिता सती अद्यत्वेsपि “कुरुक्षेत्र”-मिति भारतीय-संस्कृतेः पवित्रप्रदेशत्वेन जगति सम्मान्यते।
                  सुदीर्घ-कालं यावत् सरस्वत्याः गङ्गायाः च मध्यगतः सुविस्तृतः भू-भागः 'कुरु-प्रदेश'- नाम्ना अभिज्ञायते स्म । महाभारतस्य विश्व-प्रसिद्धं युद्धं कुरुक्षेत्रे एव अयुध्यत । अस्यैव युद्धस्य तुमुलेषु  शंख-नादेषु अद्भुतः सनातनः अलौकिकश्च स्वरः उदपद्यत-
“धर्मक्षेत्रे कुरुक्षेत्रे समवेताः युयुत्सवः |
मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय ! ||”  
                   श्रीमद्भगवद्गीतायाः अमुना प्रथमेन श्लोकेन साकमेव योगेश्वरस्य श्रीकृष्णस्य विश्व-जनीनस्य पारमार्थिक-स्वरस्य अनुकीर्तनम् अनुगुञ्जनञ्च अद्यापि श्रद्धालुभिः निज-कर्णाभ्यां पेपीयते | युगपुरुषस्य भगवतः श्रीकृष्णस्य मुख-कमलात् प्रकटिता श्रीमद्भग- वद्गीता या हि भारतीय-संस्कृतेः बीज-मंत्ररूपास्ति, सर्व-कालार्थं अमरायते ।
हरियाणा-प्रदेशस्य गौरवयुगम्  -
           वर्धनवंशस्य सर्वोत्तमः शासकः हर्षवर्धनः आसीत् येन विशालं साम्राज्यं स्थापितम् । हरियाणा-प्रदेशस्य तद् गौरवयुगमासीत् । चीन-देशीयः भिक्षुः ह्वेनसांगः हर्षस्य राजधान्याः (थानेश्वर) स्थाण्वीश्वरस्य वैभवं समृद्धिञ्च समीचीनतया अवर्णयत् । संस्कृत-साहित्यस्य महान् गद्यलेखकः बाणभट्टः नैजे 'हर्षचरितम्'- नाम्नि ग्रन्थे तत्कालीनस्य हरियाणा-प्रदेशस्य जन-जीवनं सांस्कृतिक-परम्पराश्च व्यापकतया अवर्णयत् । हर्षकालेsपि जनपदानां स्वरूपं यथावदेव सन्धारितमासीत् । सम्राट्, न कदापि अत्र आन्तरिक-व्यवस्थायां हस्तक्षेपमकरोत् ।
                 सम्राजो हर्षवर्धनस्य मृत्योः पश्चाद् अत्रत्यं जनजीवनं व्यस्तीभूतम् । अनारतं बाह्याक्रमणानि जायन्ते स्म । परन्तु अत्रत्याः जनाः निज-शक्त्या आन्तरिकीं सामाजिक-व्यवस्थां सन्धारितवन्तः। प्राचीनस्य हरियाणा-प्रदेशस्य सबलायाः गण-परम्परायाः फलस्वरूपेण एव अत्रत्याः जनाः सदा दृढतया जनवादिनः स्थिताः, तथा च कालान्तरेsपि ते प्रत्येकमपि तया साम्राज्यवादिन्या शक्त्या संघर्षम् अकुर्वन् याः काश्चन अपि शक्तयः तेषां जनवादि-व्यवस्थायां हस्तक्षेपं विहितवत्यः। 1857-मिते खीस्ताब्दे सञ्जातो जन-विद्रोहोsपि एतस्याः आस्थायाः प्रतीकरूपः ।
                यौधेय-काले अयं 'बहुधान्यक'- प्रदेशस्य नाम्ना अभिज्ञायते स्म। मूर्तिकला-हस्तकला-ललित-कलानां कृते यौधेयाः कृत्स्नेsपि प्रदेशे प्रसिद्धाः आसन्। रोहतकस्य मृदङ्ग-वादकाः पटह-ताडकाश्च उज्जयिनीं यावत् गत्वा प्रसिद्धिं प्राप्तवन्तः। मल्लयुद्धे युद्ध-कौशले च ते अद्वितीयाः आसन् । ते एकतः दुर्धर्षाः योद्धारः आसन्, अपरतश्च अदम्य-शक्तिमन्तः कृषकाः अपि । गौरवस्य विषयोsयं यत् सहस्राधिकानि वर्षाणि यावत् अमुना गणराज्येन भारतस्य इतिहासे अपूर्वा काचित् प्रसिद्धिः प्राप्ता, तथा च, ते नैजं प्रदेशं गणतन्त्रात्मक-राजनैतिक-व्यवस्थायाः अन्तर्गतं चरम-विकास-पर्यन्तं प्रापितवन्तः । तोमरशासकानां शासनकाले हरियाणा-प्रदेशेन कला-संस्कृति-व्यापारेषु महती उन्नतिः अधिगता यद्विषये वयं दशम-शताब्द्यां सुख्यातेन संस्कृत-विदुषा सोमदेवेन लिखिते 'यशस्तिलक-चम्पू'- इति ग्रन्थे सूचनां लभामहे। 
                  हरियाणा-प्रदेशस्य इतिहासो हि अनेक-विधानां राजनैतिक-सामाजिक-घटनानां विस्तृतेतिवृत्तं सत् विराजते यस्य विषये अत्र दिङ्गमात्रमेव निर्दिष्टमस्ति | 
भारतस्य हरित-क्रान्तौ समृद्धस्य हरियाणा-प्रदेशस्य योगदानम् -
                 ऊन-विंश-शताब्दस्य षष्ठे दशके [१९६०] देशे प्रवर्तितायां हरित-क्रान्तौ हरियाणा-प्रदेशस्य महद् योगदानमासीत् येन आधुनिकं भारतं खाद्यान्न-सम्पन्नं जातम् । भारतस्य समृद्धतम-राज्येषु अन्यतमस्य हरियाणा-राज्यस्य,  प्रतिव्यक्ति आयमानाधारेण इदं देशस्य द्वितीयं समृद्धतमं राज्यं वर्तते । एतदतिरिच्य, भारते सर्वाधिकाः ग्रामीणाः कोटि-पतयो धनिकाः अपि अस्मिन्नेव राज्ये सन्ति ।  हरियाणा-राज्यम् आर्थिकरूपेण दक्षिण-एशिया-द्वीपस्य विकसिततमं क्षेत्रं वर्तते, अपि चात्र, कृषि-विनिर्माणोद्योगः १९७०-वर्षतः अनारतं वृद्धिमवाप्नोत् । यात्रिणां कारयानानां, द्विचक्रिका-वाहनानां, कृषित्र-[ट्रैक्टर]-यानानाञ्च निर्माणे भारते हरियाणा-राज्यं सर्वोपरि वर्तते। भारते प्रतिव्यक्ति-निवेशाधारेण २०००-तमे वर्षे हरियाणा सर्वोपरि स्थानं भजते स्म । 
हरियाणा-राज्यस्य कला-परम्पराः बहुवर्णीया संस्कृतिश्च  - 
      हरियाणा-राज्यस्य सांस्कृतिक-जीवनेsपि कृषेः अर्थव्यवस्थायाः विभिन्नानाम् अवसराणां समन्वितिः प्रतिबिम्बायते तथा चास्मिन् विराजते प्राचीन-भारतस्य परम्पराणां लोककथानाञ्च भाण्डारः। हरियाणा-प्रदेशस्य एका विशिष्टा भाषित-भाषास्ति, एतस्याञ्च स्थानिकानाम् आभाणकानां सहजं प्रचलनं प्रवर्तते । स्थानीयं  लोकगीतं [विशेषरूपेण...रागिणी] नृत्यञ्च स्वीयाकर्षक-शैली-कारणात् एतद्-राज्यस्य सांस्कृतिक-जीवनं सविशेषं प्रदर्शयतः । एते ओजोभरिते स्थानीय-संस्कृतेः विनोद-प्रियतया च संपृक्ते स्तः। वसन्तर्तौ आनन्दोल्लास-सम्भृते होलिका-पर्वणि जनाः परस्परं ‘गुलाल’-इति रक्तचूर्णं स्नेहेन रागेण प्रेम्णा च प्रक्षिप्य आर्द्र-वर्णैः क्रीडन्ति | अस्मिन् न कस्यचन वयसो वा सामाजिक-योग्यतायाः वा भेदो व्यवह्रियते । हरियाणा-राज्ये जन्माष्टमी - इति भगवतः श्रीकृष्णस्य जन्मदिनस्य विशिष्टं धार्मिकञ्च महत्त्वं वर्तते |
              सूर्यग्रहणावसरे पवित्र-स्नानार्थं अशेष-देशात् लक्ष-लक्षशः श्रद्धालवः कुरुक्षेत्रं समायान्ति । अग्रोहा-(हिसारं निकषा)-पिहोवा-सहितानि अनेकानि प्राचीनानि तीर्थस्थलानि राज्येsस्मिन् विराजन्ते । अग्रोहा- इति अग्रसेन-रूपेण आमान्यते, यो हि अग्रवाल-समुदायस्य, अस्य च उपजातीनां प्रमुखः पूर्वजः वा प्रवर्तकः विश्वस्यते । अत एव अग्रोहा-तीर्थं सम्पूर्णस्य अग्रवाल-समुदायस्य जन्मभूमिः अस्ति । भारतस्य व्यापारि-वर्गेषु प्रमुखोsयं समुदायः साम्प्रतम् अशेष-देशे प्रसृतोsस्ति । अग्रसेनस्य जन्मभूमेः सम्मानस्वरूपोsयं समुदायः कतिपय-वर्षेभ्यः प्रतिष्ठापितवान् ।
              वैदिक-सन्दर्भाणाम् अनुसारेण कला-ज्ञानयोः देव्याः, सरस्वत्याः [सरितः] तट-स्थितं पिहोवा-तीर्थस्थलं पूर्वजानां श्राद्ध-हेतोः पिंडप्रदानाय महत्त्वाधायि-पवित्र-स्थलत्वेन आमान्यते । विभिन्न-देवतानां सत्पुरुषाणाञ्च स्मृतौ आयोज्यमानानि मेलकानि हरियाणा-संस्कृतेः महत्त्वपूर्णाङ्गत्वेन वर्तन्ते। अनेकेषु स्थानेषु पशु-मेलकान्यपि आयोज्यन्ते । क्षेत्रमेतत् उत्त्तम-जातेः दुग्ध-दायिनां पशूनां, विशेषेण च, महिषाणां कृषि-योग्यानां वर्ण-संकर-प्रजातीनां च पशूनां कृतेsपि सुख्यातमस्ति ।
              ‘हवेलियां’ - इति हरियाणा-प्रदेशस्य पारम्परिकाः पारिवारिकावासाः   वास्तुशिल्पस्य सुन्दरता-हेतोः, विशेषेण च तेषां द्वाराणां संरचना-कारणात् अभिज्ञायन्ते । एतेषां ‘हवेलियां’ - इति पारिवारिकावासानां द्वाराणाम् अभिकल्पनं [designing] हस्तकौशलञ्च न केवलं विविधता-युक्तम्, अपि तु, एतेषु उत्कीर्णा विभिन्न-विषयाणां शृंखलापि विस्मयकारिणी वर्तते | एते पारम्परिकाः पारिवारिकावासाः हरियाणा-राज्यस्य वीथीनां मध्ययुगीन-स्वरूपं सौन्दर्यञ्च विस्तारयन्ति । एतेषु भवनेषु बहवः आलिन्दाः [चबूतरे] भवन्ति, ये नाम आवासीयानां सुरक्षायाः धार्मिकाणां न्यायालयीयानाञ्च कार्याणां कृते समुपयुज्यन्ते । एतानि भवनानि निज-स्वामिनां सामाजिक-स्थितिमपि संकेतयन्ति । एतेषु आलिन्देषु उत्कीर्णाः कलाकृतयः अस्य क्षेत्रस्य समृद्धं सांस्कृतिकं वंशानुगतं च रिक्थं स्मारयन्ति ।
                   संक्षेपेण वक्तुं शक्यते यत् एताभिः अनेक-प्रकारिकाभिः विशेषताभिः समन्वितस्य हरियाणा-राज्यस्य विषये एतादृक्-लघु-निबन्धः एव नैवास्ति अलम् | विस्तृत-ग्रन्थस्य माध्यमेनैव वयं हरियाणा-राज्यस्य कलानां संस्कृतेः इतिहासस्य च विषये समग्रां सूचनामधिगन्तुं शक्नुमः |
शिक्षा-      रसकणिका    सम्पादका - लता चेन्नै ।

विद्यालयीय: शिक्षक: श्यामफलके लिखितवान्  -
९×१=९
९×२=१८
९×३=२७
९×४=३६
९×५=४५
९×६=५४
९×७=६३
९×८=७२
९×९=८१
९×१०=८९
     लेखनात्परं बालां दृष्टवान्तु  बाला: शिक्षकस्योपरि हसन्ति स्म , यतोहि अन्तिमं पदमशुद्धमासीत् ।
पुन: शिक्षकेनोक्तम् -
मया अन्तिमं पदं केन उद्देश्येन अशुद्धं लिखितम् , यतोहि अहम् युष्मान् सर्वान् किञ्चित् अत्यन्तं महत्वपूर्णं शिक्षयितुमिच्छामि ।

जगत् युष्माभि: सार्धमेवमेव व्यवहरिष्यति ।
यूयं द्रष्टुं शक्नुथ , यत् अहम् उपरि नववारं शुद्धं लिखितवान् परं कश्चिदपि मम प्रशंसां न कृतवान् ..??
परन्तु मम केवलमेकस्यैव अशुद्धस्योपरि यूयं अहसत आलोचनमपि अकुरुत ।
 अत: एतदेव शिक्षा अस्ति यत् - जगत् कदापि भवत्सहस्रलक्षात्मकानि  सुकार्याणि न प्रशंसते  परन्तु भवता कृतस्य  एकस्य दोषस्य आलोचनन्तु निश्चयेन करिष्यति । एतदेकं कटुसत्यमस्ति ।

Wednesday, 1 November 2017

‘मन की बात’ [37] “मनोगतम्” [37] (प्रसारण-तिथि: 29.10.2017)
[“मनोगतम्” - इति “मन की बात”-कार्यक्रमस्य संस्कृत-भाषिकानुवादः]
- बलदेवानन्द-सागरः
             मम प्रियाः देश-वासिनः ! नमस्कारः | दीपावल्याः षण्णां दिनानाम् अनन्तरम् आयोज्यमानं “महापर्व छठ”- इति अस्मदीय- देशे अतितरां निष्ठा-नियम-पुरस्सरं आयोज्यमानेषु पर्वसु अन्यतमं वर्तते, यस्मिन् पानाशनतः वेशभूषां यावत्, प्रत्येक-विषयेषु पारंपरिक-नियमाः अनुपाल्यन्ते | छठ-पूजायाः अनुपम-पर्व, प्रकृत्या प्रकृतेः उपासनया च पूर्णरूपेण सम्बद्धं वर्तते | एकतः आदिदेवः सूर्यः जलञ्च, छठ-महापर्वणः उपासनायाः केन्द्रीभूतौ विषयौ वर्तेते, अपरतश्च वेत्रेभ्यः मृत्तिकायाश्च निर्मितानि भाण्डानि कंदमूलानि च, अस्य पूजन-पद्धत्या संयुक्ताः अभिन्नाः सामग्र्यः सन्ति | आस्थायाः अस्मिन् महापर्वणि उदीयमानस्य सूर्यस्य उपासना, तथा च, अस्तंगम्यमानस्य सूर्यस्य पूजायाः सन्देशः अद्वितीय-संस्कारेण परिपूर्णोsस्ति | संसारोsयं उदीयमानान् सर्वदा पूजयति, किन्तु छठ-पूजा अस्मान् तेषामपि आराधनानुष्ठानार्थं संस्कारयति येषां अस्तंगमनं प्रायः सुनिश्चितम् |

            अस्माकं जीवने स्वच्छतायाः महत्वस्य अभिव्यक्तिः अपि अस्मिन् उत्सवे समाविष्टास्ति | छठ-पर्वणः प्राक्, संपूर्णस्य गृहस्य स्वच्छता, युगपदेव, नद्याः तडागस्य पल्वलस्य च तटेषु, पूजा-स्थलानाम् अर्थात् घट्टानामपि स्वच्छता, पूर्णोत्साहेन सर्वेsपि सम्भूय कुर्वन्ति | सूर्यस्य वंदना वा छठ-पूजा पर्यावरणसंरक्षण- स्य, रोगनिवारणस्य अनुशासनस्य च पर्व अस्ति यस्य उल्लेखः ऋग्वेदेsपि लभ्यते | ऋग्वेदे प्रोक्तम् –“सूर्य आत्मा जगतस्थुषश्च’‘ अर्थात् सूर्यः एव जगतः आत्मानं, शक्तिं चेतनाञ्च जागरयति |
             सामान्यरूपेण केचन जनाः याचयित्वा आदानं हि हीन-भावत्वेन परिगणयन्ति, परन्तु षष्ठी-पूजायां प्रातःकालिकस्य अर्घ्य-प्रदानस्य पश्चात् प्रसादं याचयित्वा अशनस्य एका विशिष्टा

Saturday, 28 October 2017

प्रीतिभोजनम्                         कविता  - डा गदाधर त्रिपाठी
उत्सवप्रियो मनुष्य इति प्रवृत्तिर्हि स्वाभाविकी मता।
आयोजनानि भवन्त्येव मनुष्याणाञ्च खलु जीवने।
विचित्रो$यं संसारो वै नैव को$पि च तिष्ठति।
क्षणार्धाय भवतु विस्मृतिर्येन आयोजनं भवति।।
यद् भोजनं भवति एकाकी उदरपूर्त्यै भवति हि तत्।
समूहे भोजनं यच्च आत्मभावं हि वर्धयति।
भुंक्ते भोजयते चैवोक्तं द्विधं प्रीतिलक्षणम्।
प्रीतिभोजनेन प्रीतिरायोजनमाह्लादकारकम्।।
जन्मोत्सवे विवाहे वै पर्वणि आयोज्यते सदा।
मित्राणि सम्बन्धिनश्चैव प्रसन्ना भवन्ति सर्वदा।।
            -----------------
               
कृष्णस्य हासः                   कविता
                                                    रचयिता -  डा. गदाधर त्रिपाठी।    
अवतारेषु कृष्णो हि अद्भुत आह्लादकारकः।
यस्य हास्येन आबद्धा:सर्वा व्रजकन्यकाः।।
एकदा कुपिता माता कृष्णाय बन्धनं कृतम्।
अपूर्णा रज्जुरभवद्धि कृष्णेन हसितं तदा।।
निरावृता यदा अभवन् युवत्यो यमुनाजले।
चोरितानि वस्त्राणि  कृष्णेन हसितं तदा।।
विलपन्तं कृष्णं दृष्ट्वा विधेर्मनसि विभ्रमः।
कथं वै अयं भगवान् हि रुदन्नेवञ्च गच्छति  ।।
वत्साश्चोरितास्तेन प्रसन्नो$भवत् प्रजापति:।
इच्छया अपरा सृष्टिः कृष्णेन हसितं तदा।।
एकदा मघवा रुष्टः कृष्णात् कृपणचेतसा।
जलेन पूरिता पृथिवी चिन्तिता  व्रजवासिनः।।
गोवर्धनं समुत्थाप्य  प्रदर्शिता शक्तिर्यदा।
अवशोऽभवन्मघवा वै कृष्णेन हसितं तदा।।
नागविषेण यमुनायास्तदा वै जलमभवत् प्रदूषितम्।
यमुनाया निष्कासितो नागः कृष्णेन हसितं तदा।।
कंसस्य तु शक्तयः सर्वा विफला अभवन् यदा।
युद्धे हतो यदा कंसः कृष्णेन हसितं तदा।।
क्षणस्थितञ्च किमपि नास्ति प्रसन्नाश्च सर्वे वयम्।
अस्माकमज्ञतां पश्य कृष्णेन हसितं तदा।।
               .........................

Tuesday, 17 October 2017

दीपावलिः

वि के हरीशः
दीपावलिः भारतवर्षस्य एकः महान् उत्सवः अस्त्ति । दीपावलि इत्युक्ते दीपानाम् आवलिः । अयम् उत्सवः कार्तिकमासास्य अमावस्यायां भवति । कार्त्तिकमासस्य कृष्णपक्षस्य त्रयोदशीत: आरभ्य कार्त्तिकशुद्धद्वितीयापर्यन्तं ५ दिनानि यावत् आचर्यते एतत् पर्व । सायंकाले सर्वे जनाः दीपानां मालाः प्रज्वालयन्ति । दीपानां प्रकाशः अन्धकारम् अपनयति । एतत्पर्वावसरे गृहे, देवालये, आश्रमे, मठे, नदीतीरे, समुद्रतीरे एवं सर्वत्रापि दीपान् ज्वालयन्ति । प्रतिगृहं पुरत: आकाशदीप: प्रज्वाल्यते । दीपानां प्रकाशेन सह स्फोटकानाम् अपि प्रकाश: भवति । पुरुषाः स्त्रियः बालकाः बालिकाः च नूतनानि वस्त्राणि धारयन्ति आपणानां च शोभां द्रष्टुं गच्छन्ति । रात्रौ जनाः लक्ष्मीं पूजयन्ति मिष्टान्नानि च भक्षयन्ति । सर्वे जनाः स्वगृहाणि स्वच्छानि कुर्वन्ति, सुधया लिम्पन्ति सुन्दरैः च चित्रैः भूषयन्ति । ते स्वमित्रेभ्यः बन्धुभ्यः च मिष्टान्नानि प्रेषयन्ति । बालकाः बालिकाः च क्रीडनकानां मिष्टान्नानां स्फोटकपदार्थानां च क्रयणं कुर्वन्ति । अस्मिन् दिवसे सर्वेषु विद्यालयेषु कार्यालयेषु च अवकाशः भवति । भारतीयाः इमम् उत्सवम् प्रतिवर्षं सोल्लासं समायोजयन्ति । एवं सर्वरीत्या अपि एतत् पर्व दीपमयं भवति । अस्य पर्वण: दीपालिका, दीपोत्सव:, सुखरात्रि:, सुखसुप्तिका, यक्षरात्रि:, कौमुदीमहोत्सव: इत्यादीनि नामानि अपि सन्ति । अस्मिन्नवसरे न केवलं देवेभ्य: अपि तु मनुष्येभ्य: प्राणिभ्य: अपि दीपारतिं कुर्वन्ति ।

इदं कथ्यते यत् अस्मिन् दिवसे रावणं हत्वा रामः सीतया लक्ष्मणेन च सह अयोध्यां प्रत्यागच्छत् । तदा अयोध्यायाः जनाः अतीव प्रसन्नाः अभवन् । अतः ते स्वानि गृहाणि दीपानां मालाभिः आलोकयन् । ततः प्रभृति प्रतिवर्षम् तस्मिन् एव दिवसे एषः उत्सवः भवति ।

नीराजयेयुदेर्वांस्तु विप्रान् गावतुरङ्गमान् ।
ज्येष्ठान्पूज्यान् जघन्यां मातृमुख्या योषित: ॥ इति उक्तम् अस्ति ।
दीप: ज्ञानस्वरूप:, सर्वविद्यानां कलानां च मूलरूप: । सत्तामात्रं निर्विशेषं निरीहं स त्वं साक्षात् विष्णुरध्यात्मदीप: । इति वदति भागवतम् । हृदयकमलमध्ये दीपवद्वेदसारम् इति उच्यते गुरुगीतायां स्कान्दपुराणे च । यद्यपि दीपावली सर्वैरपि आचर्यते तथापि विशेषतया वैश्यपर्व इति उच्यते । एतदवसरे धनदेवताया: महालक्ष्म्या:, धनाध्यक्षस्य कुबेरस्य च पूजां कुर्वन्ति ।

पूजनीया तथा लक्ष्मीर्विज्ञेया सुखसुप्तिका ।
सुखरायां प्रदोषे तु कुबेरं पूजयन्ति हि ॥
एतत् केवलं धनसम्बद्धं पर्व न । अत्र महालक्ष्मी: केवलं धनदेवता न । श्रेयस: सर्वाणि अपि रूपाणि लक्ष्मीस्वरूपाणि एव । सा धर्मलक्ष्मी: मोक्षलक्ष्मी: अपि । वैश्या: तद्दिने लक्ष्मीपूजां कृत्वा नूतनगणनाया: आरम्भं कुर्वन्ति । तमिळुनाडुराज्ये चतुर्दशीदिनं दीपावली इति, कर्णातके चतुर्दशी-प्रतिपत् च दिनद्वयं दीपावली इति वदन्ति ।

त्रयोदश्यां सायङ्काले स्नानगृहं तत्रत्यानि पात्राणि च स्वच्छीकृत्य शुद्धं जलंपूरयन्ति । तत् जलपूरणपर्व इति वदन्ति । तद्दिने रात्रौ अपमृत्युनिवारणाय यमधर्मराजस्य सन्तोषाय च गृहस्य बहिर्भागे दीप: प्रज्वालनीय: इति वदति स्कान्दपुराणम् । तस्य दीपस्य नाम एव यमदीप: इति ।

कार्त्तीकस्यासिते पक्षे त्रयोदश्यां निशामुखे ।
यमदीपं बहिर्दद्यात् अपमृत्युर्विनश्यति ॥ (स्कान्दपुराणम्)
मृत्युना पाशदण्डाभ्यां कालेन श्यामया सह ।
त्रयोदश्यां दीपदानात् सूर्यज: प्रियतां मम ॥ (स्कान्द-पद्म-पुराणे)
चतुर्दश्यां प्रात:काले सर्वेपि अभ्यङ्गस्नानं कुर्वन्ति । एतद्दिने एव श्रीकृष्ण: नरकासुरं संहृत्य प्रात: अभ्यङ्गं कृतवान् आसीत् । अनेन स्नानेन नरकान्तक: नारायण: सन्तुष्ट: भवति । नरकभीति: निवार्यते । तद्दिने प्रात:काले तैले लक्ष्मी:, जले च गङ्गा निवसत: इति । तैलजलयो: उपयोगं कृत्वा य: स्नाति स: यमलोकं न गच्छति, तस्य अलक्ष्मीपरिहार: अपि भवति इति विश्वसन्ति ।

”तैले लक्ष्मीर्जले गङ्गा दीपावल्याचतुर्दशीम् ।
प्रात:काले तु य: कुर्यात् यमलोकं न पश्यति ॥“ (पद्मपुराणम् - ४-१२४)
”अलक्ष्मीपरिहारार्थम् अभ्यङ्गस्नानमाचरेत् ।” (नारदसंहिता)
तद्दिने विभिन्नानां चतुर्दशशाकानां भक्षणपद्धति: अपि कुत्रचित् अस्ति ।

”अत्र आचारात् चतुर्दशशाकभक्षणं च कर्तव्यम् ॥ इति उक्तिरपि श्रूयते ।
रात्रौ च ज्वलन्तम् आलातं गृहीत्वा पित्रृभ्य: मार्गदर्शनम् अपि कुर्वन्ति ।
यमाय धर्मराजाय मृत्यवे चान्तकाय च ।
वैवस्वताय कालाय सर्वभूतक्षयाय च ॥
औदुम्बराय दध्नाय नीलाय परमेष्ठिने ।
वृकोदराय चित्राय चित्रगुप्ताय वै नम: ॥
इति यमधर्मराजस्य चतुर्दशनामानि वदन्त: तस्मै तिलतर्पणं समर्पयन्ति । तद्दिने रात्रौ नरकपरिहाराय देवालयेषु, मठेषु, वृन्दावनेषु, गृहेषु, गृहात् बहि: प्राङ्गणे, आयुधशालासु, नदीतीरे, दुर्गेषु, कूपसमीपे, अश्वशालासु, गजशालासु मुख्यमार्गेषु च दीपान् ज्वालयन्ति । नरकासुरस्य स्मरणार्थं वर्त्तिकाचतुष्टययुक्तम् एकं दीपम् अपि ज्वालयन्ति । महाविष्णुं, शिवं, महारात्रिदेवता: च पूजयित्वा रात्रौ केवलं भोजनं कुर्वन्ति । मधुरभक्ष्याणां वितरणम् अपि कुर्वन्ति ।

अमावास्यायाम् अपि प्रात:काले अभ्यङ्गस्नानं कृत्वा लक्ष्मीपूजां कुर्वन्ति । ल्क्ष्म्या: पूजनेन दारिद्य्रं दौर्भाग्यं च नश्यति इति । अभ्यङ्गस्नानस्य जले उदुम्बर-अश्वत्थ-आम्र-वट-प्लक्षवृक्षाणां त्वगपि योजयन्ति । स्नानानन्तरं महिला: पुरुषाणाम् आरतिं कुर्वन्ति । नरकासुरेण बन्धने स्थापिता: १६ सहस्रं कन्या: बन्धमुक्ता: सन्त्य: कृतज्ञतासमर्पणरूपेण कृष्णस्य आरतिं कृतवत्य: आसन् एतद्दिने । देवपूजया सह पितृपूजाम् अपि कुर्वन्ति । तद्दिने गृहे सर्वत्र दीपान् ज्वालयन्ति । नृत्य-गीत-वाद्यै: सन्तोषम् अनुभवन्ति । नूतनानि वस्त्राभरणानि धरन्ति । रात्रौ जागरणं कुर्वन्ति । तद्दिने अलक्ष्मी: निद्रारूपेण आगच्छति इति भेरि पणवानकै: महाशब्दं कुर्वन्ति निद्रानिवारणाय । अस्मिन् दिने वणिज: गणनापुस्तकस्य पूजां कृत्वा ग्राहकेभ्य: मधुरभक्ष्याणि ताम्बूलं च वितरन्ति । लक्ष्म्या सह धनाध्यक्षं कुबेरम् अपि पूजयन्ति ।
-कूष्माण्ड-मुरनामकानां राक्षसानाम् अपि चित्राणि लिखन्ति । कर्णकुण्डलकिरीटै: शोभमानं बलिं विभिन्नै: कमलपुष्पै:, गन्ध-धूप-दीप-नैवेद्यै: पूजयन्ति । स्वर्णेन अथवा स्वर्णवर्णपुष्पै: तस्य पूजां कुर्वन्ति ।

”बलिराज नमस्तुभ्यं विरोचनसुत प्रभो ।
भविष्येन्द्र सुराराते विष्णुसान्निध्यदो भव ॥“
पूजेयं प्रतिगृह्यताम् इति प्रार्थयन्ति । एतद्दिने महादानी बलिचक्रवर्ती वामनावतारिण: विष्णो: सकाशात् प्राप्तस्य वरस्य अनुगुणं भूलोकं द्रष्टुम् आगच्छति इति । अत: बलिम् उद्दिश्य तद्दिने यानि दानानि दीयन्ते तानि अक्षयफलदायकानि भवन्ति, नारायणस्य सन्तोषम् अपि जनयन्ति इति वदति भविष्योत्तरपुराणम् ।

”बलिमुद्दिश्य दीयन्ते बलय: कुरुनन्दन ।
यानि तान्यक्षयाण्याहु: मय्येवं सम्प्रदर्शितम् ॥“ (भविष्योत्तरपुराणम् - १४०-५७)
एतद्दिने पार्वतीशिवौ द्यूतं कीडितवन्तौ । तत्र पार्वत्या जय: प्राप्त: इति वदति ब्रह्मपुराणम् । तस्य स्मरणार्थं तद्दिने द्यूतम् अपि क्रीडन्ति कुत्रचित् । तत्र य: जयं प्राप्नोति स: वर्षपूर्णं जयं प्राप्नोति इति विश्वास: ।

”तस्मात् द्यूतं प्रकर्तव्यं प्रभाते तत्र मानवै: ।
तस्मिन् द्यूते जयो यस्य तस्य संवत्सर: शुभ: ॥“
एतद्दिने एव श्रीकृष्ण: गोवर्धनपर्वतम् उन्नीय गोकुलस्य रक्षणं कृतवान् इति । अत: तस्य दिनस्य स्मरणार्थं गोपूजाम् आचरन्ति । तद्दिने गोवृषभेभ्य: विश्रान्तिं यच्छन्ति । गोवृषभान् स्नापयित्वा अलङ्कुर्वन्ति । तेषां पूजां कृत्वा नैवेद्यं समर्पयन्ति । गोवर्धनपर्वतस्य गोपालकृष्णस्य च पूजां कुर्वन्ति । पर्वतं गन्तुम् अशक्ता: तस्य विग्रहं, चित्रं वा पूजयन्ति । गोवर्धनपूजाम् अन्नकूट: इति वदन्ति । गोपालेभ्य: नैवेद्यरूपेण अन्नसन्तर्पणं व्यवस्थापयन्ति च एतद्दिने ।

अग्रिमं दिनम् अस्ति कार्त्तीकशुद्धद्वितीया । एतद्दिनं भ्रातृद्वितीया, यमद्वितीया, भगिनीद्वितीया इति अपि वदन्ति ।

”यमं च यमुनां चैव चित्रगुप्तं च पूजयेत् ।
अर्घ्यात्र प्रदातव्यो यमाय सहजद्वयै: ॥“

एतद्दिने एव यमदेव: भगिन्या: यमुनादेव्या: गृहं गत्वा आतिथ्यं प्राप्तवान् इति । अत: पुरुषा: सर्वे यमाय यमुनादेव्यै च अर्घ्यं समर्प्य भगिनीनां गृहं गच्छन्ति भोजनार्थम् । भगिनीभ्य: उपायनानि दत्त्वा ता: सन्तोषयन्ति च । मार्कण्डेयादीनां चिरञ्चीवीणां स्तोत्रं कुर्वन्ति । तद्दिने विशेषतया यमुनानद्यां स्नात्वा तां पूजयन्ति । एतत् दिनं दीपावलीपर्वण: अन्तिमं दिनम् । एवं ५ दिनानि आचरन्ति दीपावलीपर्व ।

”उपशमित मेघनादं प्रज्वलित दशाननं रमितरामम् ।
रामायणमिव सुभगं दीपदिनं हरतु वो दुरितम् ॥“ (भविष्योत्तरपुराणम् - १४० - ७१l

रामायणे मेघनाद: (इन्द्रजित्) यथा शान्त: तद्वत् एतत् पर्वावसरे मेघ: शान्त: जात: भवति । रामायणे दशमुखरावण: यथा दग्ध: भवति तथा अस्मिन् पर्वणि दशामुखं (वर्त्तिका) दहति । रामायणे राम: यथा रमते तद्वत् अस्मिन् पर्वणि सर्वे जना: रमन्ते । एवं रामायणमिव रमणीयं दीपावलीपर्व अस्माकं पापानि नाशयतु इति वदति अयं श्लोकः ll

Saturday, 2 September 2017

‘मन की बात’ [35]
“मनोगतम्”  [35]              (प्रसारण-तिथि:- 27.08.2017)
[“मन की बात”- “मनोगतम्” - इति कार्यक्रमस्य संस्कृत-भाषिकानुवादः]                                 
                -भाषान्तर-कर्ता -   डॉ. बलदेवानन्द सागर

मम प्रियाः देश-वासिनः ! 
           सादरं  नमस्कारः |
         एकतः देशः उत्सवेषु व्यापृतः अस्ति अपरतः च, हिन्दुस्थानस्य कस्मादपि कोणात् यदा हिंसा-वार्ता आयाति तदा देशस्य चिन्ता स्वाभाविकी एव | अस्मदीयः देशः अयं बुद्ध-गान्धिनोः देशः वर्तते | देशस्य एकतायै प्राण-पाणेनापि प्रयत्नशीलस्य सरदार-पटेलस्य देशः अयं | नैक-सहस्र-वर्षेभ्यः अस्मदीयाः पूर्वजाः सार्वजनिक-जीवन-मूल्यानि अहिंसां समादरञ्च स्वीकृतवन्तः | अस्मदीयेषु अन्तर्मनस्सु एतत् संभृतं वर्तते | “अहिंसा परमो धर्मः” - सूत्रमिदं वयं बाल्यकालादेव शृण्वन्तः  कथयन्तः च स्मः | रक्तदुर्गस्य प्राचीरेभ्यः अपि अहं उक्तवान् यत् आस्था-नाम्ना विधीयमाना हिंसा न मनागपि सहिष्यते | भवतु नाम सा सांप्रदायिकी आस्था वा राजनीतिक-विचारधारां प्रति आस्था वा भवतु नाम व्यक्ति-विशेषं प्रत्यास्था, उताहो स्याद् वा परम्पराः प्रत्यास्था -  आस्था-व्याजेन न कश्चन विधिं स्वयत्तीकर्तुं अधिकृतः अस्ति | डॉ.बाबा-साहेब-अम्बेडकरः अस्मभ्यं संविधानं प्रादात्, एतस्मिन् सर्वोsपि जनः न्यायं प्राप्नुयादिति सर्वप्रकारेण  व्यवस्थापितमस्ति | अहं देशवासिनः विश्वासयितुं वाञ्छामि यत् विधिं स्वायतीकर्तुं प्रयतमानः वा हिंसा-मार्ग-निरतः दमनशीलः वा, कश्चन अपि भवतु नाम व्यक्तिविशेषः वा समूहः, नायं देशः तं सहिष्यते न वा कश्चन सर्वकारः | प्रत्येकमपि जनः विधेः समक्षं नत-मस्तकः स्यात् | विधिरेव तत् उत्तरदायित्वं निश्चेष्यति | तथा च, दोषिणो नूनं   दण्डयिष्यन्ते |
मम प्रियाः देशवासिनः !
      अस्माकं देशः विविधताभिः सम्भरितः अस्ति, एताः विविधताः पानाशनयोः वासावासयोः परिधानादिषु एव सीमिताः  नैव सन्ति | जीवनस्य प्रत्येकमपि व्यवहारे वैविध्यमिदं द्रष्टुं शक्यते | एतावद् एव नैव, अस्मदीयाः उत्सवाः अपि वैविध्य-पूर्णाः सन्ति | सहस्रेभ्यः अपि वर्षेभ्यः प्राचीनम् अस्मदीयं सांस्कृतिकं रिक्थम् अतः,  पश्यन्तु नाम,  एताः सांस्कृतिक-परम्पराः वा सामाजिक-परम्पराः, अवलोकयन्तु वा ऐतिहासिक-घटनाः|

Monday, 28 August 2017

ग्रन्थाः - ग्रन्थकाराश्च 
अभिषेकनाटकम् - भास
अभिज्ञानशाकुन्तलम् - कालिदास
अविमारक - भास
सुदर्शनविजयम्-- मधुसूदनमिश्र
अर्थशास्त्र - चाणक्य
अष्टाध्यायी - पाणिनि
आर्यभटीयम् - आर्यभट
आर्या-सप्तशती - गोवर्धनाचार्य
उरुभंग - भास
ऋतुसंहार - कालिदास
कर्णभार - भास
कादम्बरी - बाणभट्ट
कामसूत्र - वात्स्यायन

Friday, 11 August 2017

Standard Article No: 20170811
  संस्कृतकवयित्रीणां सामान्यपरिचयः     लेखनम्

Silpa N.S 
Research scholar,
Dept. Of Vyakarana
Sree Sankaracharya University of Sanskrit, Kalady.

              विश्ववाङ्मये संस्कृतसाहित्यस्य स्थानम् उन्नतमस्ति। अनेके पाश्चात्याः विद्वांसः अपि संस्कृतसाहित्यं प्रति मुग्धाः परिलक्ष्यन्ते। संस्कृतस्य प्रतिभाधनाः कवयः विश्वप्रसिधिं  प्राप्नुवन्। कविरत्नभूताः कवयित्र्यः अपि संस्कृतसाहित्ये आदरणीयं स्थानमलङ्कुर्वन्ति।
                     वैदिककालादारभ्य आधुनिककालपर्यन्तं स्त्रियः स्वसृजनतायाः योगदानं संस्कृतसाहित्याय प्रयच्छन्त्यः सन्ति। कवयित्रीणां समृद्धपरम्परा भारतदेशे द्रष्टुं शक्यते। स्त्रियः द्वारा रचितं साहित्यं न्यूनमस्ति। पारिवारिक तथा सामाजिकावरोधः बन्धनं च स्त्रीणां प्रतिभायाः न्यूनतायाः हेतुरभवन्। प्रतिभा अस्ति चेदपि कोपि न जानाति।
                 भारतीयजीवनव्यवस्था पुरुषप्रधाना इत्यस्मात् साहित्यक्षेत्रेपि स्त्रीणां योगदानं न्यूनमस्ति। अतः तासां योगदानम् अधिकतया प्रेरणारूपेण आसीत्, स्रष्टारूपेण न्यूनं च।
वैदिककालः
                 लिखितप्रमाणेषु ऋग्वेदः प्राचीनतमः अस्ति। तस्मिन् काले महिलानां सामाजिकस्थितिः उन्नताः, स्त्रियः शिक्षिताः च मन्त्राणां द्वारा ज्ञायते। ऋग्वेदे स्त्रीणाम् ऋचः उपलभ्यन्ते। ऋषिकाः इति नाम्ना अभिहिताः ताः वेदशास्त्रेषु पारङ्गताः भुत्वा काव्यरचनामकुर्वन्। ऋग्वेदे सामवेदे च आहत्य एकविंशति महिलानां नामानि विद्यन्ते। अधिकाधिकं भक्तिगीताः विरचिताः अभवन्। ऋग्वेदकालीनकवयित्रीणां नामानि तु एवमुच्यन्ते- विश्ववारा आत्रेयी, वागम्भृणी, ब्रह्मवादिनी सूर्या, लोपामुद्रा, रोमशा, घोषा, शश्वती, श्रद्धा, काक्षीवती, कामायनी च।
1. ब्रह्मवादिनी सूर्या
                सावित्री सूर्या ब्रह्मवादिनी नाम्ना प्रसिद्धा अभवत्। सा स्वस्याः तपश्चर्यायाः प्रभावेण ऋग्वेदस्य दशममण्डलस्य पञ्चाशीतिसूक्तस्य सम्पूर्णसप्तचत्वारिंशत् ऋचः सूर्या सूक्तमित्याख्यं व्यरचयत्। तस्याः मन्त्रेषु प्रेमभावस्य महत्त्वं दृश्यते। सा स्त्री-पुरुषयोः समानतायाः विशिष्टतलमप्यददत्। तस्मात् भारते अद्यापि विवाहसंस्कारविधौ ते मन्त्राः प्रयुज्यन्ते। सूर्यसावित्र्याः विवाहसम्बन्धेषु मन्त्रेषु विवाहस्य आदर्शम् आधारितमस्ति।
2. विश्ववारा आत्रेयी
                विश्ववारा इति तस्याः नाम, आत्रेयी कुलनाम च। सा अत्रिमहर्षेः परम्परायां जाता। अत्रिमहर्षेः पत्न्या अनसूयया तपोबलेन मन्दाकिनी नदीं प्रवाहितवती। आत्रेयी विश्ववारा तु काव्यस्य सरः मन्दाकिनी प्रवाहितवती इति काचन उक्तिरस्ति। तया त्रिष्टुप्, जगती, अनुष्टुप् इत्यादि छन्दसः उपयुज्यन्ते। एकस्यैव सूक्तस्य ऋषिका सा अस्य सूक्तस्य विषयवस्तुनः दृष्ट्या एकस्याः कवयित्र्याः जीवनस्य सम्पूर्णतां दर्शयति। सा सद्गृहिणी आसीदिति सूक्तपठनेन ज्ञायते।
"समिद्धो अग्निर्दिविशोचिरश्रेत् प्रत्यङुषसमुर्विया विभाति।
प्रति प्राची विश्ववारा नमोभिर्देवाँ ईळाला हविषा घृताची।।"
3. वागम्भृणी
                वागम्भृणीनामकऋषिकायाः मतानुसारं यदा विश्वस्य भूतानाम् आत्मनि सर्वभूतानि दृश्यन्ते, सर्वभूतेषु चात्मानं दृशेयन्ते च तदा ऋषिः मन्त्रद्रष्टा भविष्यतीति। तस्याः जीवनकालः अन्यकार्याणि च न ज्ञायते। तया विरचिताः केचन मन्त्राः लभ्यन्ते।
                 यस्य मनसि औदार्यभावं नास्ति तस्य कृते विश्वे किमपि मूल्यं न प्राप्स्यतीति तया मन्त्रैः सूच्यते। दानं विना स्वीकारः तस्याः अभीष्टं नासीत्। सा स्वमन्त्रैः मानवीयशक्तिषु ब्रह्मणः आलेखनं करोति।
"श्रोत्रस्य श्रोत्रं मनसो मनो यद् वाचो ह वाचं स उ प्राणस्य प्राणम्।
चक्षुषश्चक्षुरतिमुच्य धीरा प्रेत्यास्माल्सोकदमृता भवन्ति।।"
                ब्रह्मशक्तेः अनुपस्थितौ अस्माकं श्रोत्र-नेत्रादि अवयवाः शक्तिहीनाः भविष्यन्तीति अस्य सारः। तस्याः दृष्ट्याः ब्रह्मज्ञानग्रहणं विना उन्नतिं न प्राप्नोति। ब्रह्मज्ञानं तु अन्तः ज्ञानमेव तद् बाह्यजगतः न प्राप्नोति।

Thursday, 3 August 2017

 “मनोगतम्” [34]
 (प्रसारण-तिथि:- 30.07.2017)
[“मनोगतम्” - इति “मन की बात”-कार्यक्रमस्य संस्कृत-भाषिकानुवादः]                                  
                     -  भाषान्तर-कर्ता -    बलदेवानन्द सागरः 
मम प्रियाः देश-वासिनः !
            नमस्कारः| मानवस्य मनः एव तादृशं यदस्मै वर्षाकालः रोचते| कालोsयम् अतितरां रमणीयः| पशु-पक्षि-पादप-वृक्ष-प्रकृति-इति प्रत्येकमपि वर्षायाः आगमनेन प्रफुल्लताम् अनुभवति| परञ्च कदाचित् यदा प्रकृतिः विकरालं रूपं धत्ते तदा अनुभवामः यत् जलस्य विनाश-शक्तिः कियती बलवत्तरा भवति ? प्रकृतिः अस्मभ्यं जीवनं ददाति, पालयति च, परञ्च कदाचित् जलपूर-भूकम्प-सदृशीभिः प्राकृतिकापद्भिः सह अस्याः भीषणं स्वरूपं बहु विनाशकारि भवति| परिवर्तमाने ऋतु-चक्रे पर्यावरणे च यत् किमपि परिवर्तते, तस्य बृहत्तरः नकारात्मकः प्रभावः अपि सञ्जायते| विगतेभ्यः कतिपय-दिनेभ्यः भारतस्य केषुचित् भागेषु, विशेषेण असमोत्तरपूर्व-गुजरात-राजस्थान-बङ्गालेषु अतिवृष्टि-कारणात् प्राकृतिकापदः सम्मुखीक्रियन्ते| जलपूर-प्रभावितानां क्षेत्राणां पूर्णम् अवेक्षणं विधीयते| व्यापक-स्तरेण साहाय्य-कार्याणि अनुष्ठीयन्ते| यत्र शक्यमस्ति तत्र मन्त्रि-परिषदः मम सहकर्मिणः
अपि यान्ति| राज्य-प्रशासनानि अपि स्व-स्व-पद्धत्या पूर-प्रपीडितानां साहाय्यार्थं समग्रतया प्रयतन्ते| सामाजिक-संघटनानि अपि, सांस्कृतिक-संघटनानि अपि, सेवाभावेन कार्य-निरताः नागरिकाः अपि, एतादृशीषु स्थितिषु जनेभ्यः साहाय्यं प्रापयितुं  सर्वात्मना प्रयतन्ते| भारत-प्रशासन-पक्षतः स्थल-सेनानां सैनिकाः स्युः वा वायु-सेनानां सदस्याः, NDRF- इति राष्ट्रियापदा-प्रबन्धन-बलस्य वा अर्ध-सैन्य-बालानां च जनाः भवेयुः, सर्वेsपि एतादृशे काले आपत्-पीडितानां साहाय्यार्थं सर्वात्मना संलग्नाः भवन्ति| जल-पूरैः जन-जीवनम् अतितरां व्यग्रं व्याकुलं व्यस्तञ्च भवति| शस्यानि, पशुधनम्, आधारभूतानि साधनानि, मार्गाः, विद्युदापूर्तिः, सञ्चार-संपर्काः चेति सर्वमपि दुष्प्रभवति| विशेषेण, अस्मदीयाः कृषक-भ्रातरः, तेषां च कृषि-क्षेत्राणि शस्यानि च दुष्प्रभवन्ति| अतः एतेषु दिनेषु आगोप-समवायाः, विशेषेण च शस्यागोप-समवायाः पूर्वतः एव सक्रियतया व्यवहरेयुः इति कृत्वा योजना विरचितास्ति येन कृषकाः शीघ्रमेव स्वीय-प्रत्यर्थित्वं समाधातुं शक्नुयुः| अपि च, जलपूर-स्थितिं प्रतीकर्तुम् अहर्निशं नियन्त्रण-कक्षस्य सहायिनी दूरभाष-संख्या १०७८ इति अनारतं कार्यनिरतास्ति| जनाः अपि स्व-स्व-काठिन्यानि सूचयन्ति| वर्षर्तोः आगमनात् प्राक्, अधिकतमेषु स्थानेषु पूर्वाभ्यासं कृत्वा अशेषमपि प्रशासकीयं तन्त्रं सन्नद्धीकृतम् आसीत्| NDRF- इति राष्ट्रियापदा-प्रबन्धन-बलस्य गणाः नियोजिताः| नाना-स्थानेषु आपदा-मित्राणां निर्माणम्, तेषाञ्च कर्तव्याकर्तव्य-प्रशिक्षणम्, स्वयंसेविनां निर्धारणं चेति जन-संघटनं निर्मीय एतादृश्यां स्थितौ कार्याणि आचरणीयानि भवन्ति| एतेषु दिनेषु ऋतोः पूर्वानुमानमपि लभ्यते| साम्प्रतं प्रविधिः प्रोन्नतः जातः| अन्तरीक्ष-विज्ञानस्यापि अत्र महती भूमिका वर्तते| अस्य साहाय्येन पूर्वानुमानं प्रायेण समीचीनमेव जायते| शनैः शनैः वयमपि तादृशं स्वभावं स्वीकुर्मः येन ऋतोः पूर्वानुमानस्य अनुसारेण स्वीय-कार्य-कलापान् विरचयामः, एवं कृते सति वयं सम्भावितां हानिं परिहर्तुं शक्ष्यामः|

Sunday, 9 July 2017

प्रक्रियासर्वस्वम्
 डॉ. जि. गङ्गाधरन् नायर्
       
                 भारतराष्ट्रे केरलराज्ये जन्म प्राप्तवत्सु संस्कृतसाहित्यसपर्यां कृतवत्सु महात्मसु सर्वप्रथमं स्थानम् अद्वैताचार्यस्य श्रीशङ्करस्य , तदनन्तरं स्थानं श्रीमतः नारायणभट्टपादस्य इति भूयसाम् आधुनिकगवेषकाणाम् अभिप्रायः। केरलीयभाषाभूते मलयाळे नारायणभट्टतिरि (नारायणभट्टश्रीः इति संस्कृते) इति प्रथितः अयं भट्टापादः श्रीकृष्णभक्तिमयस्य नारायणीयम् इति स्तोत्रकाव्यस्य रचनां कृतवान् , गुरुवायुपुरे श्रीकृष्णमन्दिरे विग्रहस्य पुरतः प्रतिदिनम् एकं दशकम् इति क्रमेण दिनशतेन इदं काव्यं पठित्वा स्वस्य तीव्रवातरोगात् विमुक्तः अभवत् इति ऐतिह्यं प्रसिद्धं भवति। मीमांसा, व्याकरणं, ज्योतिषं, तर्कः इत्यादिषु नानाशास्त्रेषु निष्णातः नारायणभट्टः अम्बरनदीराजस्य देवनारायणस्य आज्ञया प्रक्रियासर्वस्वं नाम व्याकरणग्रन्थस्य रचनां षष्ट्या दिनैः ( by 60 days ) कृतवान्। सः वदति –

                 भूखण्डे केरळाख्ये सरितमिह निळामुत्तरेणैव नावा-
                क्षेत्राद् गव्यूतिमात्रे पुनरुपरिनवग्रामनाम्नि स्वधाम्नि।
                धर्मिष्ठाद्भट्टतन्त्राद्यखिलमतपटोर्मातृदत्तद्विजेन्द्रा-
                ज्जातो नारायणाख्यो निरवहदतुलां देवनारायणाज्ञाम्॥

इतः ज्ञायते तस्य गृहम्  उपरिनवग्रामः ( मेल्पुत्तूर् इति मलयाळभाषायाम् ), तच्च निळायाः ( इदानीं भारतप्पुषा इति प्रथितायाः नद्याः ) तीरे  नावामुकुन्ददेवमन्दिरात् नातिदूरे, पिता मातृदत्तनामकः नम्पूतिरिब्राह्मणः च इति॥

स्वस्य शिक्षाविषये भट्टापादः वदति –

            मीमांसादि स्वतातान्निगममविकलंमाधवाचार्यवर्यात्-
           तर्कं दामोदरार्यादपि पदपदवीमच्युताख्याद्  बुधेन्द्रात्।
           तेषां कारुण्ययोगात् किमपि च कवितामाप्नवं कर्म चैतद्
           भूयात्कृष्णार्पणं मे भवतु च सततंधीरघारेः कथायाम्॥
एतदनुसृत्य नारायणस्य मीमांसागुरुः पिता एव, वेदगुरुः माधवाचार्यः, न्यायशास्त्रगुरुः दामोदरः, व्याकरणाचार्यः अच्युतपिषारोटिः च आसन् इति।

             शास्त्रेषु काव्यभेदेषु च भट्टपादः बहून् ग्रन्थान् विरचितवान्।  नारायणीयं काव्यं पूर्वं सूचितम्।  गुरुवायुपुरेशम् अभिसम्बोध्य शतसङ्ख्यकेषु दशकेषु सहस्राधिकैः पद्यैः तस्मिन् कृष्णकथा वर्णिता अस्ति। अतिमनोहरं काव्यम् इदम्। श्रीपादसप्ततिः इति देवीस्तुतिपरं स्तोत्रकाव्यं बाणभट्टस्य चण्डीशतकस्य समानं वर्तते। धातुकाव्यं व्याकरणशास्त्रकाव्यं भवति यत्र त्रिषु सर्गेषु कंसवधवर्णनेन साकं  माधवीयधातुवृत्तिम् अनुसृत्य क्रमेण धातुनिष्पन्नक्रियारूपाणि उदाहृतानि सन्ति। देवीस्तुतिनामके स्तोत्रे नव पद्यनि सन्ति येषु कटपयादिसंख्यासम्प्रदायेन ऋग्वेदस्य अष्टकानां वर्गाणाम् अध्यायानां सूक्तानां च संख्याः सूचिताः। स्वस्य उपकारं कृतवतां राज्ञां प्रशस्तयः नारायणेन प्रणीताः सन्ति -- शैलाब्धीशमानविक्रमप्रशस्तिः, माटमहीशवीर-केरलप्रशस्तिः, अम्बरनदीशदेवनारायणप्रशस्तिः, बिम्बिलीशगोदवर्मप्रशस्तिः च। राजसूयम्, सुभद्राहरणम्, पाञ्चालीस्वयंवरः, मत्स्यावतारः, गजेन्द्रमोक्षः, कुचेलवृत्तम्, अजामिलोपाख्यानम्, अष्टमीचम्पूः इत्यादयः अनेके चम्पूप्रबन्धाः तेन विरचिताः सन्ति यान् उपयुज्य चाक्यारनामक-जातीयाः इदानीमपि देवमन्दिरेषु अनुष्ठेयं "कूत्तु" नामकं  क्लारूपम् अवतारयन्ति। शूर्पणखा-प्रलापप्रबन्धे अनुनासिकाः वर्णाः न सन्ति इति सः निरनुनासिकप्रबन्धः इति प्रसिद्धः। व्याकरणे प्रक्रियासर्वस्वम् , अपाणिनीयप्रमाणता इति ग्रन्थतल्लजद्वयं विशेषतः उल्लेखनीयं वर्तते।

व्याकरणप्रस्थानद्वयं प्रक्रियासर्वस्वं च
     पाणिनेः अष्टाध्याय्यां येन क्रमेण सूत्राणि पठितानि तेन क्रमेण एव पुरातनकाले सूत्राणाम् अर्थप्रतिपादनम् उदाहरणप्रदर्शनं च आसीत्। अत्यन्तं सङ्क्षेपेण, स्मरणसौकर्यापेक्षया च पाणिनिना सूत्राणां क्रमः स्वीकृतः। अतः सूत्रेषु शब्दानाम् आवर्तनं यावच्छक्यं परिहृतम् । एकस्य सूत्रस्य अर्थज्ञानाय तस्मिन् सूत्रे विद्यमानानाम् ऊह्यानां वा शब्दानाम् अपेक्षया अधिकाः शब्दाः आवश्यकाः सन्ति तर्हि पूर्वसूत्रेभ्यः ग्रहीतुं शक्यन्ते इति अस्य क्रमस्य सौष्ठवम्। काशिकायाम् अष्टाध्यायीक्रमेणैव सूत्राणाम् पाठः, अर्थप्रतिपादनम्, उदाहरणं च सन्ति। एवं रीत्या पाणिनीयसूत्रशिक्षणस्य काशिकाप्रस्थानम् इति नाम अधुना व्याकरणशास्त्रिभिः कथ्यते। शब्दानां रूपनिष्पत्तिप्रतिपानाय अष्टाध्याय्याम्  एकत्र पठितस्य सूत्रस्य अनन्तरम् अपरत्र पठितस्य सूत्रस्य अपेक्षा स्यात्। अतः प्रक्रियाज्ञाने  क्लेशः अस्ति इति अस्य प्रस्थानस्य दोषः।

      धर्मकीर्तेः रूपावतारे, विमलसरस्वत्याः रूपमालायां, रामचन्द्रदीक्षितस्य प्रक्रियाकौमुद्यां च अष्टाध्यायीक्रमं त्यक्त्वा प्रक्रियानुसारेण सूत्राणि विन्यस्य व्याख्यातानि उदाहृतानि च । इमां रीतिं कौमुदीप्रस्थानमिति कथयन्ति वैयाकरणाः।  नारायणभट्टः ( 1560-1666  क्रि.सं.), तस्य समकाले जीवितवान् भट्टोजिदीक्षितः ( 1550-1630 क्रि.सं.) च प्रक्रियानुसारेण सूत्राणि प्रतिपादितवन्तौ। नारायणभट्टस्य प्रक्रियासर्वस्वं भट्टोजिदीक्षितस्य वैयाकरण-सिद्धान्तकौमुदी च कौमुदीप्रस्थाने अन्तर्भवतः। तौ महान्तौ परस्परं न दृष्टवन्तौ, परस्परस्य ग्रन्थान् अपि न दृष्टवन्तौ। कर्णाकर्णिकया दीक्षितः नारायणस्य  महत्त्वं श्रुतवान् इति ऐतिह्यं प्रचलति। सिद्धान्तकौमुद्याः महान् प्रचारःअभवत्। इदानीमपि  व्याकरणपठने  सा एवअधिकतया आश्रीयते॥
 प्रक्रियासर्वस्वस्य  पृष्ठभूमिका

     काशिकावृत्तौ  शब्दानां रूपसिद्धिप्रकारः सम्यक् न प्रदर्शितः। रूपावतारे, प्रक्रियाकौमुद्याम् , अन्येषु प्रक्रियाग्रन्थेषु च सर्वेषां पाणिनिसूत्राणां वर्णनं नास्ति। अनेन कारणेन अम्बरनदीदेशनरेशः पाणिनीयव्याकरणस्य समग्रं ग्रन्थं रचयितुं भट्टपादम् आदिष्टवान्। तद्विषये भट्टः लिखति--
                सो/थ कदाचन राजा स्वगुणैराकृष्य स्वसन्निधिं नीतम्।
                 श्रीमातृदत्तसूनुं नारायणसंज्ञमशिषदवनिसुरम्॥

             वृत्तौ चारु न रूपसिद्धिकथनं रूपावतारे पुनः
                   कौमुद्यादिषु चात्र सूत्रमखिलं नास्त्येव तस्मत् त्वया।
             रूपानीतिसमस्तसूत्रसहितं स्पष्टं मितं प्रक्रिया-
                     सर्वस्वाभिहितं निबन्धनमिदं कार्यं मदुक्ताध्वना॥

    स्वकीयग्रन्थस्य यावच्छक्यं सर्वशब्दानुशासनत्वम् अभिलषन् नारायणभट्टः स्वपठितानां बहूनां ग्रन्थानाम् उपयोगं करोति। व्याकरणग्रन्थरचनार्थं यावत्सङ्ख्यकानां ग्रन्थानाम् उपयोगं सः कृतवान् तावत्सङ्यकानाम् अन्यः न को/पि अन्यः शास्त्रकारः कृतवान् इति नारायणस्य प्रशंसायां वक्तव्यमस्ति। मुनित्रयात् परमपि भाषायां प्रयोगे आगतानां शब्दानां साधुत्वं साधयितुम् इच्छन् भोजराजविरचितस्य सरस्वतीकण्ठाभरणस्य , दण्डनाथेन विरचितायायाः तद्वाख्यायाः हृदयहारिण्याः च अधिकतया उपयोगं करोति इति सुव्यक्तं दृश्यते॥

विषयविन्यासः   शैली च
     अम्बरनदीनरेशः विद्वान् आसीत्। तस्य निर्देशम् अनुसृत्य एव प्रक्रियासर्वस्वे प्रकरणानि योजितानि। तत्र विंशतिः खण्डाः सन्ति --  संज्ञाखण्डः, परिभाषाखण्डः, सन्धिखण्डः, कृत्खण्डः, तद्धितखण्डः, समासखण्डः, स्त्रीप्रत्ययखण्डः, सुबर्थखण्डः, सुब्विधिखण्डः, आत्मनेपद-परस्मैपदविभागखण्डः, तिङ्खण्डः, लार्थविशेषखण्डः, सनन्तखण्डः, यङ्खण्डः, यङ्लुक्खण्डः, सुब्धातुखण्डः, न्यायखण्डः, धातुखण्डः, उणादिखण्डः, छान्दसखण्डः।
     सरलवाक्यैः सूत्राणाम् अर्थः उदाहरणानि च प्रक्रियासर्वस्वे उच्यन्ते। क्वचित् क्वचित् पद्येन प्रतिपादनं भवति। शास्त्रे यस्मिन् कस्मिन् अपि विषये मतभेदः इतरेषां दृश्यते तर्हि तस्य अपि विवरणं तत्र स्वस्य युक्तिसम्मतं मतं च  भट्टपादः लिखति।
                रासविलासविलोलं भजत मुरारेर्मनोरमं रूपम्  ।
               प्रकृतिषु यत् प्रत्ययवत् प्रत्येकं गोपिकासु सम्मिलितम्॥   इति मङ्गलश्लोकेन प्रक्रियासर्वस्वम् आरभमाणः नारायणः सूत्राणां भूयांसि उदाहरणानि श्रीकृष्णसम्बद्धानि एव ददाति। प्रायेण अन्ये ग्रन्थकाराः भाष्यकाशिकादिषु विद्यमानान्  उदाहरणविशेषान् एव यदा ददाति तदा नारायणः स्वयमेव अन्यानि उदाहरणानि अधिकतया दर्शयति। प्रायेण तस्य उदाहरणानि तस्य कविथवद्योतकानि अपि भवन्ति॥
मुनित्रयस्य विधीनाम् अविषयान् शब्दान् अपाणिनीयान् उक्त्वा केचिद् वैयाकरणाः शाठ्येन तान् असाधून् कथयन्ति, तिरस्कुर्वन्ति च। महाकवीनां कृतिषु अपि तादृशाः शब्दाः दृश्यन्ते। केनापि उक्तम् –

अपशब्दत्रयं माघे  भारवेरेकविंशतिः।
असङ्ख्याः कालिदासस्य व्यासस्तन्मयतां गतः ॥
इति।
नारायणभट्टः रूढप्रयोगाणां शब्दानाम् असाधुत्वं नाङ्गीकरोति। महाकवीनां प्रयोगाणां साधुत्वम् अपि सः प्रतिपादयति। उदाहरणार्थं भवभूत्यादिभिः प्रयुक्तः विश्रामशब्दः दृश्यताम्। पाणिनीयव्याकरणानुसारेण विश्रमः साधुः, न विश्रामः। वर्धमान-भोजराजादयः विश्रामशब्दमपि साधयन्ति । नारायणः वदति --
        वर्धमानाख्य आचार्यो वौ श्रमेर्वेत्यसूत्रयत्।  विश्रमेर्वेति भोजो/पि तेन विश्राम-विश्रमौ॥
        विश्रामस्यापशब्दत्वं वृत्त्युक्तं नाद्रियामहे।  मुरारिभवभूत्यादीनप्रमानणीकरोति कः॥
       विश्रामशाखिनं वाचां विश्रामो हृदयस्य च।  विश्रामहेतोरित्यादि महान्तस्ते प्रयुञ्जते॥

अपाणिनीयप्रयोगाणां साधुत्वप्रतिपादनम्

     पाणिनि-कात्यायन-पतञ्जलिभिः त्रिभिः मुनिभिः यथोत्तरम् अधिकप्रामाण्यवद्भिः अनुगृहीताः एव शब्दाः साधवः, अन्ये असाधवः इति वदामः चेत् अस्माभिः अङ्गीकर्तव्यं यत् मुनित्रयात् परंसंस्कृतभाषा वन्ध्या निर्जीवा च आसीद् इति। एतत् सत्यं न। पुराण-काव्य-कथादिसाहित्यं यत् पतञ्जलेः परं जातं तत् अतीव पुष्कलं भवति। मानवस्य कालानुसारिविकासम् अनुसृत्य नूतनवस्तूनि उत्पद्यन्ते, नूतनाः आशयाः जायन्ते। तेषामपि प्रतिपादनार्थं भाषा नूतनशब्दैः विकसिता भवति।  को वा इच्छति मुनित्रयस्य काले यानि वस्तूनि, ये आशयाः च आसन् तैः एव अहं जिविष्यामि, ततः परं लोके आविर्भूतं किमपि मम न आवश्यकम् इति ? लोकव्यवहारार्थं नृत्यन्ती ऊर्जस्वला भाषा आवश्यकी।  पुराणकाव्यादिषु संस्कृतभाषा तादृशी एव दृश्यते । तस्याः समर्थनार्थम् एव चन्द्रगोमि-भोज-बोपदेवप्रभृतयः नूतनशब्दानां साधुत्वं प्रतिपादितवन्तः।  तेषाम् आशयान् यथावत् अवगम्य अपाणिनीयाः इति कैश्चित् निन्दितान् शब्दान् अपि साधयितुम् ऊर्जस्वलः नारायणः युक्तिपूर्णम् अपाणिनीयप्रामाण्यसाधनम् इति ग्रन्थं लिखितवान्।  एषः ग्रन्थः प्रक्रियासर्वस्वस्य आधारशिला इति वक्तुं शक्यते।
     अपाणिनीयप्रामाण्यसाधनस्य आरम्भे एव नारायणः पद्येन वदति --
             पाणिन्युक्तं प्रमाणं न तु पुनरपरं चन्द्रभोजादिसूत्रं
            के/प्याहुस्तल्लघिष्ठं न खलु बहुविदामस्ति निर्मूलवाक्यम्।
            बह्वङ्गीकारभेदो भवति गुणवशात् पाणिनेः प्राक् कथं वा
           पूर्वोक्तं पाणिनिश्चाप्यनुवदति विरोधे/पि कल्प्यो विकल्पः ॥

      वार्तिककारः कात्यायनः पाणिनिसूत्रोक्तिषु परिष्कारं विदधाति। तथैव भाष्यकारः पतञ्जलिः सूत्रकार-वार्त्तिककारयोः उभयोः अपि उक्तिषु परिष्कारं निर्दिशति। लोकव्यवहारमेव प्रमाणं स्वीकृत्य वार्त्तिककार-भाष्यकारौ एवं कुरुतः। सूत्रकारः स्वयम् अपि पूर्वेषां मतानि उद्धृत्य अङ्गीकरोति। मुनित्रयस्य रीतिमेव चन्द्र-भोजादयः अनुवर्तयन्ति। अतः तेषाम् उक्तिषु अपाणिनीयत्वम् आरोप्य तिरस्करणं बालिशमेव इत्येव नारायणभट्टस्य सुचिन्तितं युक्तिसहं मतम्।
उपसंहारः
     नारायणभट्टः दीर्घदर्शितया समीक्षात्मकबुद्ध्या विशालचिन्तया च संस्कृतस्य पोषणाय प्रक्रियासर्वस्वम् इति व्याकरणग्रन्थं रचितवान्। अभिनन्दनीयः तस्य प्रयासः। केवलं मासद्वयेन रचिते अस्मिन् व्याकरणग्रन्थे यावन्तः शब्दाः अनुशिष्टाः तावन्तः अन्यस्मिन् कस्मिन् अपि व्याकरणग्रन्थे न सन्ति। दैनन्दिनव्यवहाराय संस्कृतस्य प्रयोगे केन अपि कारणेन त्रुटिः अभूत्। अतः अस्माकं प्राचीनेषु ग्रन्थेषु विद्यमानान् व्याकरणग्रन्थेषु पठितान् बहून् शब्दान्  अर्थतः वयं न अवगच्छामः। यदि प्रक्रियासर्वस्वं पठिष्यामः तर्हि बहूनां तादृशानां शाब्दानां ज्ञानं सुलभं भविष्यति ।दैनन्दिनव्यवहारे पुनरुज्जीवितां संस्कृतभाषां प्रचारयतां संस्कृतानुरागिणाम् अयं ग्रन्थः सहायः भविष्यति। प्रक्रियासर्वस्वात् सन्दर्भोचितानि त्रीणि पद्यानि अधः दीयन्ते --

न किञ्चिदत्र स्वकपोलकल्पितंलिखामि शास्त्रे क्वचिदीक्षितं विना।
अनेकधा यत्र पुराविदां मतंमनोहरं तत्र परं ग्रहीष्यते॥

वृत्तौ नानाप्रमादा विवृतिषु कथिता माधवाद्यैश्च सर्व-
व्यास्वाख्यायि दोषो बहुलमघटितं प्रक्रियाकाव्यपङ्क्तौ।
नाम व्याख्यास्वनन्तं किल तदिह महाकोविदैरप्यवर्ज्या
विभ्रान्तिश्चेत्  कृशाभ्यासिनि कृशधिषणे मादृशे किन्नु वाच्यम्॥
 स्वनिर्मितत्वप्रणयावकुण्ठितःस्वकाव्यदोषं न बुधो/पि बुध्यते ।
              अतो/त्र सूरीन् । ॥
                   ॥  शुभम् ॥

Monday, 26 June 2017

“मनोगतम्” [33] ‘मन की बात’ [33]
 (प्रसारण-तिथि: 25.06.2017)     

[“मनोगतम्” - इति “मन की बात”-कार्यक्रमस्य द्वितीयः  संस्कृत-भाषिकानुवादः ]
                                 -   संस्कृत-भाषान्तर-कर्ता -                                                     
                                                              -  डॉ.बलदेवानन्द-सागरः

  
 
मम प्रियाः देश-वासिनः ! नमस्कारः |
 ऋतुः परिवर्तते | अस्मिन् वर्षे निदाघस्य तापः अपि अधिकः आसीत् | परञ्च सुखदम् इदं वृत्तं  यत् वर्षर्तुः काले एव सम्प्राप्तः | देशस्य अनेकेषु स्थानेषु मूसलाधार-वृष्टि-कारणात् सुदिनानि सञ्जातानि | वर्षायाः अनन्तरं प्रवहमानैः शीतलैः मन्द-समीरैः विगत-दिनानां आतापात् मुक्तिः अनुभूयते | अस्माभिः सर्वैः अपि अनुभूतं यत् जीवने कियती अपि व्यग्रता भवेत्, कियती अपि आततिः स्यात्, भवतु नाम वैयक्तिकं जीवनं वा सार्वजनिकम् - वर्षायाः आगमनं हि अस्मदीयां मनसः स्थितिम् अपि परिवर्तयति |
अद्यत्वे भगवतः जगन्नाथस्य रथयात्रा-समुत्सवः देशस्य नाना-भागेषु राष्ट्रवासिनः सोल्लासं सश्रद्धञ्च समायोजयन्ति | साम्प्रतन्तु जगतः अपि केषुचित् स्थानेषु भगवतः जगन्नाथस्य रथयात्रा-महोत्सवः आमान्यते | अपि च, भगवता जगन्नाथेन साकमेव राष्ट्रस्य निर्धन-जनः  संयुक्तोsस्ति | ये जनाः डॉ.बाबा-साहेब-अम्बेडकरस्य जीवनम् अधीतवन्तः, ते नूनम् अनुभूतवन्तः यत् सः भगवतः जगन्नाथस्य मन्दिरं एतद्-विषयिणीः परम्पराः च अतितरां प्रशंसति स्म | यतो हि अत्र सामाजिक-न्यायः, सामाजिकी च समरसता अन्तर्निहिते स्तः | वस्तुतस्तु भगवान् जगन्नाथः निर्धनानां देवता | तथा च, आङ्ग्ल-भाषायाम् एकः शब्दः अस्ति - juggernaut | मन्ये, न्यूनाः एव अवगताः स्युः यत् अस्य अर्थः भवति- एतादृशः भव्यः रथः यस्य गतिः अप्रतिहता भवति, न कश्चन अपि एनम् अवरोद्धुं पारयति | juggernaut इति शब्दस्य शब्दकोशीयेन अर्थेण अपि ज्ञायते यत् जगन्नाथस्य रथ-साम्यत्वेन juggernaut इति शब्दः समुद्भूतः | अत एव वयम् अवगन्तुं शक्नुमः यत् भगवतः जगन्नाथस्य यात्रैषा अशेष-संसारेण स्व-स्व-प्रकारेण कियता महता माहात्म्येन स्वीक्रियते | भगवतो जगन्नाथस्य रथयात्रायाः शुभेsस्मिन् अवसरे सर्वेभ्योsपि राष्ट्रवासिभ्यः शुभ-कामनाः वितरामि, भगवतो जगन्नाथस्य श्रीचरणेषु अपि प्रणामाञ्जलीन् निवेदयामि |
     अस्ति भारतस्य विविधता हि अस्य विशेषता | भारतस्य विविधता चास्ति भारतस्य शक्तिरपि | रमज़ानस्य पवित्रमासः पवित्र-भावैः प्रार्थनाभिः च सर्वैः समाचरितः | सम्प्रति वर्तते ईद्-पर्व | ईद्-उल्-फ़ितर्-पर्वणः अवसरे मम पक्षतः सर्वेभ्यः भूरिशः मङ्गल-कामनाः | रमज़ान-मासः पुण्य-दानस्य मासत्वेन ख्याप्यते, प्रसन्नतायाः वितरणस्य मासः अस्ति, यावन्-मात्रिकं प्रसन्नता-वितरणं भवति, तावन्त्यः प्रसन्नताः विवर्धन्ते | आगच्छन्तु, वयं सर्वे मिलित्वा एतेभ्यः पवित्र-समुत्सवेभ्यः प्रेरणाम् आदाय प्रसन्नता-प्रवाहान् वितरेम, देशञ्च अग्रेसारयेम  !!
रमज़ानस्य पवित्र-मासावधौ उत्तर-प्रदेशस्य बिजनौरस्य मुबारकपुर-ग्रामस्य एका महती प्रेरिका घटना मम दृष्टिपथमागता | प्रायेण सार्ध-त्रि-सहस्रं अस्मदीयाः मुस्लिम-समुदायस्य भगिन्यः भ्रातरः चात्र लघु-ग्रामे निवसन्ति, अत्र आधिक्येन मुस्लिम-समुदायस्य जनाः वर्तन्ते | रमज़ान-मासावधौ ग्रामवासिनः मिलित्वा शौचालयानां निर्माणार्थं निर्णीतवन्तः | अपि च, वैयक्तिक-शौचालयानां निर्माणार्थं सर्वकार-पक्षतः अपि साहाय्यं प्रदीयते | एतेभ्यः ग्रामवासिभ्यः प्रायेण सप्त-दश-लक्ष-रूप्यकाणि साहाय्य-रूपेण प्रदत्तानि | एतद् ज्ञात्वा भवन्तः सुखदम् आश्चर्यम् आनन्दं चापि अनुभविष्यन्ति | अस्मदीयाः सर्वेsपि मुस्लिम-भ्रातरः भगिन्यः च, रमज़ान-मासावधौ सर्वकाराय तां सप्तदश-लक्ष-रूप्यकात्मिकां राशिं परावर्तितवन्तः | अपि च, ते एवम् उक्तवन्तः यत् वयं स्वश्रमेण स्वीय-रूप्यकैः एव निज-शौचालयान् निर्मास्यामः | सप्त-दश-लक्ष-रूप्यकात्मिका एषा राशिः ग्रामस्य अन्य-सौविध्यार्थम् उपयुक्तः स्यात् | रमज़ानस्य पवित्रावसरः समाजस्य लाभार्थं उपयुक्तः इति कृत्वा अहं मुबारकपुरस्य सर्वान् अपि ग्रामवासिनः अभिनन्दामि | तेषां प्रत्येकमपि निर्णयः अतितरां प्रेरकः अस्ति | अपि च, सर्वतोsधिकतरम् अवधेयमिदं यत् तैः मुबारकपुरम् अनावृत-शौचाचरणात् मुक्तं विहितम् | वयं जानीमः यत् सिक्किम-हिमाचल-केरळ-इति राज्य-त्रयं पूर्वतः एव अनावृत-शौचाचरणात् मुक्तं घोषितम् | सप्ताहेsस्मिन् उत्तराखण्ड-हरियाणा-इति राज्य-द्वयमपि ODF- इति अनावृत-शौचाचरणात् मुक्तं घोषितम् | एतत्-कार्य-पूर्त्यर्थम् अहम् एतेषां पञ्चानां राज्यानां प्रशासनाय, शासनाय, विशेषेण च, जनता-जनार्दनाय साधुवादान् व्याहरामि |
वयं संयुक्तया जानीमः - व्यक्तेः जीवने, समाजस्य जीवने च यत् किमपि समुचितं करणीयम् अस्ति चेत्, अतितरां कठोरः परिश्रमः करणीयो भवति | यदि अस्माकं हस्त-लेखः सम्यक् नास्ति, स च सम्यक् करणीयः चेत् तदा सुदीर्घ-कालं यावत् अतितराम् अवधानतया प्रयतनीयं भवति | तदनु एव, शरीरस्य मनसः च अभ्यासः परिवर्तते | स्वच्छतायाः विषयोsपि एतादृशः एवास्ति | कानिचित् व्यसनानि अस्मदीय-स्वभावस्य अङ्गरूपाणि सञ्जातानि | एतानि अस्मदीयाचरणस्य अङ्गत्वेन वर्तन्ते | एतानि अपसारयितुम् अविरतं अस्माभिः नूनं प्रयतनीयम् | वारं वारं एतद्विषयकं स्मरणमपि करणीयम् | प्रत्येकमपि जनस्य ध्यानाकर्षणमपि विधेयम् | समीचीनानां प्रेरिकाणां च घटनानां पौनःपुनिकं स्मरणमपि करणीयम् | तथा च, प्रसीदामितराम् यत् अद्यत्वे स्वच्छता-विषयः सर्वकारीय-कार्यक्रमत्वेन एव नैव प्रवर्तते | अयं तु जन-सामान्यस्य जन-समाजस्य च आन्दोलनत्वेन सततं परिणमते | शासनारूढाः जनाः अपि यदा जन-सह-भागितया कार्यमेनत् अग्रेसारयन्ति, तदा अतुलनीया शक्तिः विवर्धते |
विगतेषु दिनेषु एका उत्तमा घटना मम ध्याने उपस्थिता यामहं भवतां समक्षं नूनं वर्णयिष्यामि | एषास्ति घटना आन्ध्रप्रदेशस्य विजयनगरम्-जनपदस्य | तत्रत्य-प्रशासनेन जन-सह-भागितायाः बृहदेकं कार्यं आरब्धम् | मार्च-मासे दश-दिनाङ्कात् प्रातः षड्-वादनात् आरभ्य चतुर्दश-दिने प्रातः दशवादनं यावत् अर्थात् शत-होरावधिं यावत् अनारतम् अभियानम् | लक्ष्यं किमासीत् ? शत-होरावधौ एक-सप्ततौ ग्राम-पञ्चायतेषु दश-सहस्रं गृहाभ्यन्तरीणानां शौचालयानां निर्माणम् |
अयि भोः मम प्रियाः देशवासिनः ! वृत्तमेनत् ज्ञात्वा भवन्तः प्रसन्नाः भविष्यन्ति यत् जनता-जनार्दनेन शासनेन च सम्भूय शतं होरासु दश-सहस्रं शौचालयानां निर्माणं सफलतया पूर्णतामानीतम् | एक-सप्ततिः ग्रामाः ODF- इति अनावृत-शौचाचरणात् मुक्ताः जाताः | अहं शासनाधिरूढान्  शासनिकाधिकारिणः विजयानगरम्-जनपदस्य एतान् ग्राम-नागरिकान् च भूरिशः वर्धापयामि यत् ते परिश्रम-पराकाष्ठां स्वीकृत्य उत्तमं प्रेरकोदाहरणम् उपस्थापितवन्तः |
एतेषु दिनेषु ‘मन की बात’ इति कार्यक्रमे सततम् अहं जनता-जनार्दनस्य पक्षतः परामर्शान् अवाप्नोमि | एते च, NarendraModiApp- इत्यत्र  MyGov.in- इत्यत्र पत्राणां माध्यमेन, आकाशवाणीतः चाधिगम्यन्ते |
श्रीमान् प्रकाश-त्रिपाठी आपातकालं स्मारयन् अलिखत् यत् जून-मासीयं पञ्च-विन्शतितमं दिनं लोकतन्त्रस्य इतिहासे कालुष्य-पूर्ण-काल-खण्ड-रूपेण वर्तते | श्रीप्रकाश-त्रिपाठिनः लोकतन्त्रं प्रति एषा जागृतिः प्रशंसनीया वर्तते | लोकतन्त्रं न केवलम् एका व्यवस्था, एतच्च संस्कारत्वेन अपि विराजते | Eternal Vigilance is the Price of Liberty - लोकतन्त्रं प्रति अनारतम् अवधानता नितराम् आवश्यकी अत एव लोकतन्त्रस्य आघातकराणि तथ्यानि अपि स्मरणीयानि, तथा च, अस्माभिः लोकतन्त्रस्य समीचीन-तथ्यान्वितायां दिशि अग्रेसर्तव्यम् | विगते शताब्दे पञ्चसप्तति-तमे वर्षे जूनमासे पञ्च-विन्शतितमा रात्रिः तादृशी कालुष्यपूर्णा आसीत्, यां न कश्चन अपि लोकतन्त्र-प्रेमी विस्मर्तुं शक्नोति | न कश्चन भारतवासी एनां विस्मर्तुं पारयति | एकप्रकारेण अशेष-देशः कारागृहत्वेन परिवर्तितः आसीत् | विरोधि-स्वरः दमितः | जय-प्रकाश-नारायणेन सह राष्ट्रस्य गण-मान्याः नेतारः कारासु बन्दिनो विहिताः | न्याय-व्यवस्था अपि आपातकालस्य भीकर-रूपस्य छायया आच्छादिता आसीत् | वार्तापत्राणि तु पूर्णरूपेण प्रतिबद्धानि आसन् | पत्रकारिता-जगतः विद्यार्थिनः, लोकतन्त्रस्य कर्मकराः च लोकतन्त्रस्य तं कालुष्यपूर्णं कालखण्डं स्मरन्तः लोकतन्त्रं प्रति अवधान-संवर्धनाय सततं प्रयासान् अनुतिष्ठन्तः आसन् | अपि चैतद् नूनं करणीयम् | तदा अटल-बिहारि-वाजपेयि-वर्यः अपि कारायां पिहितः आसीत् | यदा वर्षावधिकः कालः यापितः तदा तेन कारायामेव एका कविता लिखिता, अस्यां कवितायां तेन तत्कालीना मनःस्थितिः वर्णीता अस्ति -   
झुलसाता जेठ मास,
शरद चाँदनी उदास,
झुलसाता जेठ मास,
शरद चाँदनी उदास,

सिसकी भरते सावन का,
अंतर्घट रीत गया,
एक बरस बीत गया,
एक बरस बीत गया ||

सीखचों में सिमटा जग,
किंतु विकल प्राण विहग,
सीखचों में सिमटा जग,
किंतु विकल प्राण विहग,

धरती से अम्बर तक,
धरती से अम्बर तक,
गूंज मुक्ति गीत गया,
एक बरस बीत गया,
एक बरस बीत गया ||


पथ निहारते नयन,
गिनते दिन पल-छिन,
पथ निहारते नयन,
गिनते दिन पल-छिन,
लौट कभी आएगा,
लौट कभी आएगा,
मन का जो मीत गया,
एक बरस बीत गया ||
लोकतन्त्रस्य प्रेमिणः कठिन-तरं युद्धं सम्मुखीकृतवन्तः | भारतं नाम विशालं राष्ट्रम्, प्राप्ते सति काले भारतस्य प्रत्येकमपि जनस्य चेतसि लोकतन्त्रं कियत् व्यापकं विराजते - इति निर्वाचन-माध्यमेन सा लोक-शक्तिः प्रदर्शितास्ति | प्रत्येकमपि जनस्य चेतसि परिव्याप्तस्य अस्य लोकतन्त्रस्य भावः अस्मदीयः अमृतः रिक्थः वर्तते | अस्माभिः  रिक्थोsयम् इतः परमपि दृढतरः करणीयः | 
        मम प्रिया देशवासिनः ! प्रत्येकमपि भारतीयः अद्यत्वे शिरान्सि उन्नमय्य गौरवम् अनुभवति | वर्षेsस्मिन् जून-मासे एकविन्शतितमे दिने सम्पूर्णमपि विश्वं योगमयं जातम् | जलतः पर्वत-पर्यन्तं जनाः प्रभाते एव योगाभ्यास-माध्यमेन भगवतः सूर्यस्य किरणानां स्वागतम् अकुर्वन् | कश्चन नाम वा भारतीयः भवेत् यो एतद्विषये नूनं गौरवमनुभवेत् | एवं नास्ति यत् योगाचरणं पूर्वमपि न क्रियते स्म | परन्तु अद्यत्वे यदा योगसूत्रेण बद्धाः स्मः, योगः विश्वं संयोजयितुं कारणत्वेन विराजते | विश्वस्य प्रायेण सर्वेsपि देशाः योगस्य अवसरमेनं स्वीयावसर-रूपेण स्वीकृतवन्तः | चीन-देशे The Great Wall of China - इत्यत्र जनाः योगाभ्यासम् अकुर्वन् | अपरत्र, Peru-देशे World Heritage Site- इति  माचू-पिच्चू-स्थले यद्धि समुद्र-तलात् चतुःचत्वारिन्शत्-शत-मीटर-मितेन ऊच्चैः वर्तते, तत्रापि जनाः योगाभ्यासम् अकुर्वन् | फ़्रांस-देशे  एफिल-टॉवर-इत्यत्स्य छायायां जनाः योगमाचरितवन्तः | UAE-इत्यत्र Abu Dhabi-नगरे चतुःसहस्राधिकाः जनाः सामूहिक-योगमाचरितवन्तः I अफगानिस्ताने  हेरात-स्थले India Afghan Friendship Dam- इति सलमा-जलावष्टम्भे योगाभ्यासं  कृत्वा जनाः भारतस्य सख्याय अभिनवम् आयामं प्रादुः | सिंगापुर-सदृशे लघुनि  स्थाने सप्तत्यधिकेषु स्थलेषु कार्यक्रमाः अभूवन्, अपि च, ते सप्ताहावधिकम् अभियानमेकं प्रवर्तितवन्तः | संयुक्त-राष्ट्र-संघेन अन्ताराष्ट्रिय-योग-दिवसम् आलक्ष्य दश प्रैष-मुद्राङ्काः प्रसारिताः | संयुक्त-राष्ट्र-संघस्य मुख्यालयेषु   Yoga Session with Yoga Masters- इति कार्यक्रमः आयोजितः | संयुक्त-राष्ट्र-संघस्य अधिकारिणः, कार्मिकाः, अशेष-जगतः कूटनीतिज्ञाः चेति सर्वेsपि अत्र सहभागित्वं निरवहन् |
       साम्प्रतं पुनरेकवारं योगेन विश्वस्य आभिलेख्यमपि अर्जितम् | गुजराते अमदावादे प्रायेण पञ्च-पञ्चाशत्-सहस्रं जनाः युगपदेव योगाभ्यासं कृत्वा अभिनवं विश्व-कीर्तिमानं विरचितवन्तः | अहमपि लखनऊ-नगरे योग-कार्यक्रमे सहभागित्वस्य अवसरं प्राप्तवान्, परञ्च, प्रथमवारं वर्षायां योगाभ्यासस्य सद्भाग्यं प्राप्तम् | अस्माकं सैनिकाः सियाचिन्-पर्वत-शिखरे यत्र विंशति-पञ्चविंशति-चत्वारिंशत्-डीग्रीमितं न्यूनं तापमानं भवति, तत्र योगाभ्यासं कृतवन्तः | अस्मदीयाः सशस्त्र-बलस्य, सीम-सुरक्षा-बलस्य, ITBP-बलस्य, केन्द्रीयारक्षितारक्षि-बलस्य, CISF-इति बलस्य चेति प्रत्येकमपि स्वीय-कर्तव्येन सहैव योगाभ्यासं स्वीयाङ्गत्वेन अङ्गीकृतवत् | एतद्-योग-दिवसावसरे अहम् उक्तवान् यत् संतति-त्रयम्, यतो हि तृतीयोsयम् अन्ताराष्ट्रिय-योग-वर्षीय-दिवसः, अतः कुटुम्बस्य सन्तति-त्रयं युगपदेव योगाभ्यासं कुर्वदेव तच्चित्रं प्रेषयेत् | काश्चन दृश्य-वाहिकाः अपि तथ्यमेनत् प्रचारितवत्यः | अवसरेsस्मिन् अनेकानि चित्राणि मया लब्धानि, तेषु कानिचन चितानि चित्राणि NarendraModiApp- इत्यत्र संयोजितानि सन्ति | येन प्रकारेण अशेष-जगति योगः परिचर्च्यते, तस्मात् एकं लाभकरं तथ्यमेतत् समुद्भवति यत् अद्यतनः स्वास्थ्य-जागरूक-समाजः समीचीनतातः अनारोग्यतां प्रति अग्रेसरति | ते इदम् अनुभवन्ति यत् समीचीनतायाः महत्त्वं तु अस्त्येव, परञ्च, अनारोग्यतायाः कृते योगः उत्तमः मार्गः अस्ति |
   “आदरणीय ! प्रधानमन्त्रि-महोदय ! अहं डॉ.अनिल-सोनारा, अमदवादतः वदामि | महोदय ! मम जिज्ञासा वर्तते | नातिचिरं केरळे वयं भवन्तं श्रुतवन्तः | विभिन्नेषु स्थलेषु उपहारत्वेन पुष्प-गुच्छाः प्रदीयन्ते | एतत्-स्थाने अस्माभिः स्मृति-उपहारत्वेन पुस्तकानि प्रदेयानि | एतद्विषयकः शुभारम्भः भवान् गुजराते निज-कार्यकाले विहितवान् | साम्प्रतं नैतत् अस्माभिः दृश्यते | so can we do something  ? किं वयं सन्दर्भे अस्मिन् किमपि कर्तुं पारयेम ? येन देश-व्यापिना स्तरेण अस्य कार्यान्वयनं स्यात् |”
       विगतेषु दिनेषु अहं मम प्रियतमेषु अन्यतमे कार्यक्रमे सहभागित्वस्य अवसरं लब्धवान् | केरळे सुष्ठु-कार्यक्रमः प्रचलति | कतिपय-वर्षेभ्यः श्री-पी-एन्-पण्णिकर-प्रतिष्ठानेन कार्यक्रमोsयं प्रचाल्यते यस्मिन् जनानां पठनाभ्यासः स्याद्, जनाः पठनं प्रति जागरूकाः स्युः चेति कृत्वा reading day, reading month- इत्युत्सवः आयोज्यते | अस्य कार्यक्रमस्य शुभारम्भार्थम्  अहं तत्र गतवान् | तत्र मह्यम् एतत् सूचितं यत् ते पुष्प-गुच्छं नैव परञ्च पुस्तकं ददति | मह्यम् इदं रोचते स्म | मया यत् विस्मारितमासीत्,   झटिति तत् पुनः स्मरणाधीनं जातम् | यतो हि, यदा अहं गुजराते आसम्, तदा मया प्रशासने एका परम्परा प्रवर्तिता आसीत् यत् वयं पुष्प-गुच्छं नैव, पुस्तकानि दास्यामः, आहोस्वित् करवस्त्रेण स्वागतं करिष्यामः | अपि च खादी-करवस्त्रेण एव, येन खादी-वस्त्राणां संवर्धनं स्यात् | यावत्पर्यन्तं गुजराते आसम्, अस्माकं सर्वेषां अभ्यासः जातः, परम्, अत्रागमनस्य अनन्तरं सः अभ्यासः अपगतः | किन्तु केरळ-गमनेन सः अभ्यासः पुनः जागृतः तथा च, अहं तु प्रशासने पुनः एतत् सूचयितुम् आरभम् | वयमपि शनैः शनैः तादृशं स्वभावं विकासयितुं शक्नुमः | तथा च, पुष्प-गुच्छस्य आयुः तु अत्यल्पं भवति | एकवारं स्वीकृत्य परित्यजामः | परन्तु, पुस्तकं दीयते चेत् तत्तु गृहस्य कुटुम्बस्य च   अङ्गत्वेन परिभाव्यते | खादी-कर-वस्त्र-प्रदानेन अपि अनेकेषां निर्धनानां साहाय्यं भवति | व्ययः अपि न्यूनः भवति, समुचित-रूपेण तस्य उपयोगो भवति | यदा एतत् अहं वर्णयामि तदा संस्मरामि यत् एतादृश-व्यवहारस्य बहुमात्रिकम् ऐतिहासिकं महत्वं भवति | गते वर्षे यदा अहं UK-देशं गतवान् तदा London-नगरे Britain-साम्राज्ञी, Queen Elizabeth मां निमन्त्रितवती | तत्र मातृ-सहजः परिवेशः आसीत् | आत्मीय-प्रेम्णा सा भोजनमपि कारितवती, परञ्च अनन्तरं सा मां सादरं अतितरां भावात्मक-स्वरेण सूत्रैः ग्रथितं लघु  खादी-करवस्त्रं दर्शितवती, तदा तस्याः नयनयोः अलौकिकं  ज्योतिः व्यराजत, सा उक्तवती यत् यदा मम विवाहः सञ्जातः तदा एतत् कर-वस्त्रं महात्म-गान्धी मङ्गल-कामना-उपहारत्वेन मह्यं प्रेषितवान् | कति वर्षाणि व्यतीतानि ? परञ्च, Queen Elizabeth-महाभागया   महात्म-गान्धिना प्रदत्तम् एतत् handkerchief-इति कर-वस्त्रं सम्भालितमस्ति | तथा च, सा मां दर्शयन्ती अस्ति- इति कृत्वा सा आनन्द-सन्दोहं अनुभवति स्म | अपि च, यदा अहं तत् पश्यन् आसं तदा सा साग्रहं माम् उक्तवती यत् स्पृष्ट्वा एतत् अनुभवेयम् | महात्म-गान्धिना प्रदत्तः अल्पीयान् अपि उपहारः तस्याः जीवनस्य अङ्गत्वेन अजायत, तस्याः इतिवृत्तस्य अविभाज्यः भागः अभवत् |    

         अहं विश्वसिमि यत् एताः कुरीतयः सहसा नैव परिवर्तन्ते | तथा च, यदा हि वयम् एतादृशं किमपि आलपामः, जनाः आलोचनामपि कुर्वन्ति | एवं संजायमाने सत्यपि तथ्ये, अस्माभिः सततं प्रयतनीयम् | कुत्रचित् गच्छामि, तत्र कश्चन पुष्पगुच्छम् उपाहरति चेत् तस्य प्रतिषेधं नैव करिष्यामि, परञ्च परिष्कारार्थं तु सततं प्रयतिष्यामहे |
    मम प्रियाः देशवासिनः ! प्रधानमन्त्रिणः दायित्व-कारणात् अनेक-प्रकारकाणि कार्याणि मया करणीयानि भवन्ति | पञ्जिकासु मग्नाः भवामः, परञ्च, अहं स्वस्मै अभ्यासमेकं विकासितवान् यत् मम कृते यानि पत्राणि लभ्यन्ते तेषु कानिचित् अहं प्रतिदिनं पठामि | एवं हि अहं सामान्य-जनैः सह संपृक्तो भवामि | अनेक-प्रकारकाणि भवन्ति एतानि पत्राणि | पृथक्-पृथक् जनाः एतानि पत्राणि लिखन्ति | एतेषु दिनेषु एकं तादृशं पत्रं पठितुम् अवसरं लब्धवान् यत् अवश्यं मया तद्विषये भवतां समक्षं विवर्णनीयम् | दूरे सुदूरे दक्षिण-प्रदेशे तमिलनाडु-राज्ये स्थितस्य मदुराई-नगरस्य एका गृहिणी अरुल-मोझी-सर्वनन् मह्यं पत्रमेकं प्राहिणोत् | सा अलिखत् यत् कुटुम्बस्य बालानां शिक्षणार्थं मया किञ्चित् आर्थिक-कार्य-जातं विधातुं विचारितम् | अतः मया ‘मुद्रा-योजना’-माध्यमेन बैङ्कात् किञ्चित् धनम् आदत्तम्, विपणीतः च, सामग्रीम् आनीय आपूर्ति-कार्यम् आरब्धम् | एतादृश्यां स्थितौ मया अवगतं यत् सर्वकारः Government E-Marketplace- इत्याख्यां काञ्चित् व्यवस्थां प्रावर्तयत् | मया अन्विष्टम् यत् किमेतत् ? केचन जनाः मया पृष्टाः| तदनु अहम् आत्मानं तत्र पञ्जीकारितवती |
      अहं देशवासिनः सूचयितुं इच्छामि  यत् भवन्तः अपि लब्धे सति अवसरे Internet- इति अन्तर्जाले E-GEM - इत्यत्र अवलोकयन्तु | एषा नूतना लाभप्रदायिनी व्यवस्था वर्तते | यः कश्चन प्रशासनाय किमपि वस्तु-जातम् आपूरयितुं वाञ्छति, लघु-लघूनि वस्तूनि प्रेषयितुं इच्छति, यथा विद्युद्दीपान्, अवकर-कण्डोलिकाः, मार्जनीः, आसन्दिकाः, आधार-पटलानि च प्रेषयितुं वा विक्रेतुं वाञ्छति, सः अत्र स्वीय-पञ्जीकरणं कर्तुं शक्नोति | वस्तूनां गुणत्वं विलिख्य मूल्यादिकं निर्दिश्य च सूचयितुम् अर्हति | सर्वकारीय-विभागानां कृते एतत् अनिवार्यं वर्तते यत् ते नूनम् एतत् प्रेषितं सर्वं विवरणम् अवलोकयेयुः, अनन्तरं सर्वं सम्यक् अस्ति चेत् तद्वस्तु-प्रेषणाय आदेष्टव्यम् | एवंरीत्या ये मध्यस्थाः भवन्ति तेषामत्र हस्त-क्षेपो नैव भविता | सर्व-विधं पारदर्शित्वं समापन्नम् | प्रविधि-माध्यमेन एव सर्वं संजायते | अतः E-GEM- इति व्यवस्थायाः अन्तर्गतं ये जनाः पञ्जीकरणं कुर्वन्ति, तान् सर्वकारस्य सर्वे अपि विभागाः अवलोकयन्ति | मध्यस्थाः जनाः नैव भवन्ति इति कृत्वा वस्तूनि महार्घाणि नैव भवन्ति |  अधुना अरुल-मोझी-महाभागा सर्वकारस्य अन्तर्जाल-वाहिकां प्रति यां यां सामग्रीं प्रेषयितुं शक्नोति तासां सर्वासां पञ्जीकरणं विहितवती | तस्याः पत्रमिदम् अतितरां रुचिकरं वर्तते | सा अलिखत् यत् एकतः मया ‘मुद्रा’तः धनं लब्धम्, मम व्यापारः आरभत | E-GEM- इत्यस्याः अन्तर्गतं किं किम् अहं प्रेषयितुं प्रभवामि, तद्विषयिणी सूची स्थापिता, तथा च, PMO- इति प्रधानमन्त्रिणः कार्यालयात् आदेशः अवाप्तः |
         मम कृते अपि नवमिदं वृत्तमासीत् यत् PMO-इत्यनेन किम् आदिष्टम् | सा अलिखत् यत् PMO-इत्यनेन थर्मोस्-इति उष्णता-रक्षक-द्वयं क्रीतम्, तदर्थं षोडश-शतं रूप्यकाणि अपि मया लब्धानि | एतदस्ति - शक्ती-करणम् | एषः चास्ति उद्यमिनां प्रोत्साहनावसरः | यदि अरुल-मोझी मां पत्रं नैव अलिखिष्यत् तदा अहमपि एतदर्थं निध्यातुं नैव अपारयिष्यम् | एषा अस्ति देशस्य शक्तिः | अत्र पार-दर्शित्वमपि वर्तते, शक्तीकरणमपि उद्यमित्वमपि चास्ति |           
      मम प्रियाः देशवासिनः ! एकतः वयं योग-विषयकं गौरवम् अनुभवामः, अपरतः वयं अन्तरिक्ष-विज्ञाने अस्मदीयाः अधिगतोपलब्धीः अभिलक्ष्यापि गर्वम् अनुभवितुं शक्नुमः | इयमेवास्ति भारतस्य विशेषता | यदि अस्माकं पादौ योगाधृतौ भूमौ स्तः, अपरतः अस्मदीयानि स्वप्नानि  सुदूरे गगनस्य सीमानम् अतिक्रान्तुं वर्तन्ते |
      विगतेषु दिनेषु भारतेन क्रीडासु विज्ञाने चापि सुबहु अनुष्ठीय प्रदर्शितम् | अद्यत्वे भारतं न केवलं भूमौ, अन्तरिक्षे अपि स्वीयं ध्वजं उत्तोलयति |     दिवस-द्वय-पूर्वमेव ISRO-इति भारतीयान्तरिक्षानुसन्धान-संघटनेन  ‘Cartosat-2 Series Satellite’-इत्यनेन साकं त्रिन्शत् Nano-Satellites-यानानि प्रक्षिप्तानि | एतेषु उपग्रहेषु भारतमतिरिच्य  फ्राँस, जर्मनी, इटली, जापान, ब्रिटेन, अमेरिका-प्रभृतयः प्रायः चतुर्दश देशाः समाविष्टाः सन्ति | nano-उपग्रहाभियानेन कृषि-क्षेत्रे, कृषकाणां कार्येषु, प्राकृतिकापत्सु चापि महत्-साहाय्यम् अवाप्स्यते | प्रत्येकमपि भारतीयः एतद्-गौरवमपि अनुभवितुं शक्नोति यत् कतिपय-दिवसेभ्यः प्राक्, ISRO-इत्यनेन ‘G-SAT-19’-इत्यस्य सफ़लं प्रक्षेपणं विहितम् | अपि च, भारतेन अधुनावधि प्रक्षिप्तोपग्रहेषु सर्वाधिकं भारयुतं अवर्तत |  अस्माकं देशस्य वार्तापत्रैः तु अस्य भार-तुलना गज-भारेण सार्धं विहितासीत् | भवन्तः कल्पयितुं शक्नुवन्ति यत् अस्मदीयाः वैज्ञानिकाः अन्तरिक्षे कियत् बृहत् कार्यं कृतवन्तः इति |  जूनमासे ऊनत्रिंशति दिने ‘मार्स-मिशन’ इति कार्यक्रमस्य सहस्रं दिनानि पूर्णतां गतानि |  सहस्र-दिनानन्तरमपि अस्मदीयं मङ्गल-यानं कार्यं करोति, चित्राणि प्रेषयति, सूचनाः प्रेषयति, scientific data-इति वैज्ञानिक-विवरणं च प्राप्यते | इयं हि अन्तरिक्ष-क्षेत्रे अस्मदीया महत्वाधायिनी सिद्धिः वर्तते |
       एतेषु दिनेषु क्रीडासु अपि अस्मदीयानां यूनां प्रवृत्तिः रुचिश्च समेधेते इति वयं पश्यामः |
साम्प्रतं एतद् अवलोक्यते यत् अध्ययनेन सहैव क्रीडास्वपि अस्माकीनाः युवानः स्वीयं प्रशस्तं भविष्यत् परिभावयन्ति | तथा च, अस्माकं क्रीडकानां कारणात्, तेषां पुरुषार्थेण, तेषाञ्च सिद्धि-कारणात् राष्ट्रस्य नामापि कीर्ति-युतं भवति |  नातिचिरमेव, भारतस्य बैडमिंटन्-क्रीडकः किदाम्बी-श्रीकांतः   इंडोनेशिया-मुक्त-स्पर्धायां विजयश्रियं अवाप्य राष्ट्रस्य गौरवम् अवर्धयत् | अस्यै उपलब्ध्यै तं तस्य प्रशिक्षकाय च हृदयेन अभिनन्दामि | कतिपय-दिनेभ्यः प्राक्,  पी.टी.उषा-इति सुख्यातायाः धाविकायाः Usha School of Athletics- इत्यस्य Synthetic Track- उद्घाटन-समारोहे समुपस्थितेः अवसरः लब्धः | वयं क्रीडाः यावतीः विवर्धयिष्यामः तावन्तः एव क्रीडा-भावाः, तावत्यः स्पर्धा-भावनाः च विवर्धिष्यन्ते | क्रीडाः व्यक्तित्वस्य विकासार्थमपि अतितरां महत्वाधायिनीं भूमिकां निर्वहति | सर्व-विध-व्यक्तित्व-विकासाय खेलानां अतिमाहात्म्यं वर्तते | देशे प्रतिभानां किञ्चिदपि नैयून्यं नैव वर्तते | यदि अस्माकं कुटुम्बे अपि बालानाम् अभिरुचिः खेला-विषयिणी अस्ति चेत् तेभ्यः ताभ्यश्च नूनम् अवसराः प्रदेयाः | तान् ताश्च क्रीडा-क्षेत्रेभ्यः समाकृष्य कक्षेषु पिहित्वा पुस्तक-पठनाय च विवशीकरणं नैवास्ति समीचीनम् | ते ताश्च पठन्तु नाम, तस्मिन् क्षेत्रे अपि अग्रेसरन्ति चेत्, नूनम् अग्रेसरन्तु | परञ्च क्रीडासु तेषां सामर्थ्यम् अस्ति, अभिरुचिः वर्तते चेत् तदा, विद्यालयस्य, महाविद्यालयस्य, कुटुम्बस्य परिपार्श्व-वर्तिनः, सर्वे अपि जनाः तान् समर्थ्य प्रोत्साहयेयुः |  भाविनीनां Olympic-स्पर्धानां कृते प्रत्येकमपि जनेन स्वप्नायितुं शक्यते |
पुनरेकवारम्, मम प्रियाः देशवासिनः ! वर्षर्तुः, अनारतं उत्सवानां परिवेशः च परमार्थेन - एतत्-सर्वा कालखण्डस्य नूतना एव अनुभूतिः भवति | अहं पुनरेकवारं भवद्भ्यः सर्वेभ्यः मङ्गल-कामनाः व्याहरन् आगामि मनोगतम् इति ‘मन की बात’ इत्यस्य समये पुनः संभाषिष्ये | नमस्कारः !!!
                        “मन की बात” [३३] -प्रसारण-तिथि - २५-जून’२०१७ 
                      संस्कृत-भाषान्तरकर्ता
                         - डॉ.बलदेवानन्द सागर
                            Cell- 9810 5622 77                           
                  Email - baldevanand.sagar@gmail.com