Monday, 28 August 2017

ग्रन्थाः - ग्रन्थकाराश्च 
अभिषेकनाटकम् - भास
अभिज्ञानशाकुन्तलम् - कालिदास
अविमारक - भास
सुदर्शनविजयम्-- मधुसूदनमिश्र
अर्थशास्त्र - चाणक्य
अष्टाध्यायी - पाणिनि
आर्यभटीयम् - आर्यभट
आर्या-सप्तशती - गोवर्धनाचार्य
उरुभंग - भास
ऋतुसंहार - कालिदास
कर्णभार - भास
कादम्बरी - बाणभट्ट
कामसूत्र - वात्स्यायन

Friday, 11 August 2017

Standard Article No: 20170811
  संस्कृतकवयित्रीणां सामान्यपरिचयः     लेखनम्

Silpa N.S 
Research scholar,
Dept. Of Vyakarana
Sree Sankaracharya University of Sanskrit, Kalady.

              विश्ववाङ्मये संस्कृतसाहित्यस्य स्थानम् उन्नतमस्ति। अनेके पाश्चात्याः विद्वांसः अपि संस्कृतसाहित्यं प्रति मुग्धाः परिलक्ष्यन्ते। संस्कृतस्य प्रतिभाधनाः कवयः विश्वप्रसिधिं  प्राप्नुवन्। कविरत्नभूताः कवयित्र्यः अपि संस्कृतसाहित्ये आदरणीयं स्थानमलङ्कुर्वन्ति।
                     वैदिककालादारभ्य आधुनिककालपर्यन्तं स्त्रियः स्वसृजनतायाः योगदानं संस्कृतसाहित्याय प्रयच्छन्त्यः सन्ति। कवयित्रीणां समृद्धपरम्परा भारतदेशे द्रष्टुं शक्यते। स्त्रियः द्वारा रचितं साहित्यं न्यूनमस्ति। पारिवारिक तथा सामाजिकावरोधः बन्धनं च स्त्रीणां प्रतिभायाः न्यूनतायाः हेतुरभवन्। प्रतिभा अस्ति चेदपि कोपि न जानाति।
                 भारतीयजीवनव्यवस्था पुरुषप्रधाना इत्यस्मात् साहित्यक्षेत्रेपि स्त्रीणां योगदानं न्यूनमस्ति। अतः तासां योगदानम् अधिकतया प्रेरणारूपेण आसीत्, स्रष्टारूपेण न्यूनं च।
वैदिककालः
                 लिखितप्रमाणेषु ऋग्वेदः प्राचीनतमः अस्ति। तस्मिन् काले महिलानां सामाजिकस्थितिः उन्नताः, स्त्रियः शिक्षिताः च मन्त्राणां द्वारा ज्ञायते। ऋग्वेदे स्त्रीणाम् ऋचः उपलभ्यन्ते। ऋषिकाः इति नाम्ना अभिहिताः ताः वेदशास्त्रेषु पारङ्गताः भुत्वा काव्यरचनामकुर्वन्। ऋग्वेदे सामवेदे च आहत्य एकविंशति महिलानां नामानि विद्यन्ते। अधिकाधिकं भक्तिगीताः विरचिताः अभवन्। ऋग्वेदकालीनकवयित्रीणां नामानि तु एवमुच्यन्ते- विश्ववारा आत्रेयी, वागम्भृणी, ब्रह्मवादिनी सूर्या, लोपामुद्रा, रोमशा, घोषा, शश्वती, श्रद्धा, काक्षीवती, कामायनी च।
1. ब्रह्मवादिनी सूर्या
                सावित्री सूर्या ब्रह्मवादिनी नाम्ना प्रसिद्धा अभवत्। सा स्वस्याः तपश्चर्यायाः प्रभावेण ऋग्वेदस्य दशममण्डलस्य पञ्चाशीतिसूक्तस्य सम्पूर्णसप्तचत्वारिंशत् ऋचः सूर्या सूक्तमित्याख्यं व्यरचयत्। तस्याः मन्त्रेषु प्रेमभावस्य महत्त्वं दृश्यते। सा स्त्री-पुरुषयोः समानतायाः विशिष्टतलमप्यददत्। तस्मात् भारते अद्यापि विवाहसंस्कारविधौ ते मन्त्राः प्रयुज्यन्ते। सूर्यसावित्र्याः विवाहसम्बन्धेषु मन्त्रेषु विवाहस्य आदर्शम् आधारितमस्ति।
2. विश्ववारा आत्रेयी
                विश्ववारा इति तस्याः नाम, आत्रेयी कुलनाम च। सा अत्रिमहर्षेः परम्परायां जाता। अत्रिमहर्षेः पत्न्या अनसूयया तपोबलेन मन्दाकिनी नदीं प्रवाहितवती। आत्रेयी विश्ववारा तु काव्यस्य सरः मन्दाकिनी प्रवाहितवती इति काचन उक्तिरस्ति। तया त्रिष्टुप्, जगती, अनुष्टुप् इत्यादि छन्दसः उपयुज्यन्ते। एकस्यैव सूक्तस्य ऋषिका सा अस्य सूक्तस्य विषयवस्तुनः दृष्ट्या एकस्याः कवयित्र्याः जीवनस्य सम्पूर्णतां दर्शयति। सा सद्गृहिणी आसीदिति सूक्तपठनेन ज्ञायते।
"समिद्धो अग्निर्दिविशोचिरश्रेत् प्रत्यङुषसमुर्विया विभाति।
प्रति प्राची विश्ववारा नमोभिर्देवाँ ईळाला हविषा घृताची।।"
3. वागम्भृणी
                वागम्भृणीनामकऋषिकायाः मतानुसारं यदा विश्वस्य भूतानाम् आत्मनि सर्वभूतानि दृश्यन्ते, सर्वभूतेषु चात्मानं दृशेयन्ते च तदा ऋषिः मन्त्रद्रष्टा भविष्यतीति। तस्याः जीवनकालः अन्यकार्याणि च न ज्ञायते। तया विरचिताः केचन मन्त्राः लभ्यन्ते।
                 यस्य मनसि औदार्यभावं नास्ति तस्य कृते विश्वे किमपि मूल्यं न प्राप्स्यतीति तया मन्त्रैः सूच्यते। दानं विना स्वीकारः तस्याः अभीष्टं नासीत्। सा स्वमन्त्रैः मानवीयशक्तिषु ब्रह्मणः आलेखनं करोति।
"श्रोत्रस्य श्रोत्रं मनसो मनो यद् वाचो ह वाचं स उ प्राणस्य प्राणम्।
चक्षुषश्चक्षुरतिमुच्य धीरा प्रेत्यास्माल्सोकदमृता भवन्ति।।"
                ब्रह्मशक्तेः अनुपस्थितौ अस्माकं श्रोत्र-नेत्रादि अवयवाः शक्तिहीनाः भविष्यन्तीति अस्य सारः। तस्याः दृष्ट्याः ब्रह्मज्ञानग्रहणं विना उन्नतिं न प्राप्नोति। ब्रह्मज्ञानं तु अन्तः ज्ञानमेव तद् बाह्यजगतः न प्राप्नोति।

Thursday, 3 August 2017

 “मनोगतम्” [34]
 (प्रसारण-तिथि:- 30.07.2017)
[“मनोगतम्” - इति “मन की बात”-कार्यक्रमस्य संस्कृत-भाषिकानुवादः]                                  
                     -  भाषान्तर-कर्ता -    बलदेवानन्द सागरः 
मम प्रियाः देश-वासिनः !
            नमस्कारः| मानवस्य मनः एव तादृशं यदस्मै वर्षाकालः रोचते| कालोsयम् अतितरां रमणीयः| पशु-पक्षि-पादप-वृक्ष-प्रकृति-इति प्रत्येकमपि वर्षायाः आगमनेन प्रफुल्लताम् अनुभवति| परञ्च कदाचित् यदा प्रकृतिः विकरालं रूपं धत्ते तदा अनुभवामः यत् जलस्य विनाश-शक्तिः कियती बलवत्तरा भवति ? प्रकृतिः अस्मभ्यं जीवनं ददाति, पालयति च, परञ्च कदाचित् जलपूर-भूकम्प-सदृशीभिः प्राकृतिकापद्भिः सह अस्याः भीषणं स्वरूपं बहु विनाशकारि भवति| परिवर्तमाने ऋतु-चक्रे पर्यावरणे च यत् किमपि परिवर्तते, तस्य बृहत्तरः नकारात्मकः प्रभावः अपि सञ्जायते| विगतेभ्यः कतिपय-दिनेभ्यः भारतस्य केषुचित् भागेषु, विशेषेण असमोत्तरपूर्व-गुजरात-राजस्थान-बङ्गालेषु अतिवृष्टि-कारणात् प्राकृतिकापदः सम्मुखीक्रियन्ते| जलपूर-प्रभावितानां क्षेत्राणां पूर्णम् अवेक्षणं विधीयते| व्यापक-स्तरेण साहाय्य-कार्याणि अनुष्ठीयन्ते| यत्र शक्यमस्ति तत्र मन्त्रि-परिषदः मम सहकर्मिणः
अपि यान्ति| राज्य-प्रशासनानि अपि स्व-स्व-पद्धत्या पूर-प्रपीडितानां साहाय्यार्थं समग्रतया प्रयतन्ते| सामाजिक-संघटनानि अपि, सांस्कृतिक-संघटनानि अपि, सेवाभावेन कार्य-निरताः नागरिकाः अपि, एतादृशीषु स्थितिषु जनेभ्यः साहाय्यं प्रापयितुं  सर्वात्मना प्रयतन्ते| भारत-प्रशासन-पक्षतः स्थल-सेनानां सैनिकाः स्युः वा वायु-सेनानां सदस्याः, NDRF- इति राष्ट्रियापदा-प्रबन्धन-बलस्य वा अर्ध-सैन्य-बालानां च जनाः भवेयुः, सर्वेsपि एतादृशे काले आपत्-पीडितानां साहाय्यार्थं सर्वात्मना संलग्नाः भवन्ति| जल-पूरैः जन-जीवनम् अतितरां व्यग्रं व्याकुलं व्यस्तञ्च भवति| शस्यानि, पशुधनम्, आधारभूतानि साधनानि, मार्गाः, विद्युदापूर्तिः, सञ्चार-संपर्काः चेति सर्वमपि दुष्प्रभवति| विशेषेण, अस्मदीयाः कृषक-भ्रातरः, तेषां च कृषि-क्षेत्राणि शस्यानि च दुष्प्रभवन्ति| अतः एतेषु दिनेषु आगोप-समवायाः, विशेषेण च शस्यागोप-समवायाः पूर्वतः एव सक्रियतया व्यवहरेयुः इति कृत्वा योजना विरचितास्ति येन कृषकाः शीघ्रमेव स्वीय-प्रत्यर्थित्वं समाधातुं शक्नुयुः| अपि च, जलपूर-स्थितिं प्रतीकर्तुम् अहर्निशं नियन्त्रण-कक्षस्य सहायिनी दूरभाष-संख्या १०७८ इति अनारतं कार्यनिरतास्ति| जनाः अपि स्व-स्व-काठिन्यानि सूचयन्ति| वर्षर्तोः आगमनात् प्राक्, अधिकतमेषु स्थानेषु पूर्वाभ्यासं कृत्वा अशेषमपि प्रशासकीयं तन्त्रं सन्नद्धीकृतम् आसीत्| NDRF- इति राष्ट्रियापदा-प्रबन्धन-बलस्य गणाः नियोजिताः| नाना-स्थानेषु आपदा-मित्राणां निर्माणम्, तेषाञ्च कर्तव्याकर्तव्य-प्रशिक्षणम्, स्वयंसेविनां निर्धारणं चेति जन-संघटनं निर्मीय एतादृश्यां स्थितौ कार्याणि आचरणीयानि भवन्ति| एतेषु दिनेषु ऋतोः पूर्वानुमानमपि लभ्यते| साम्प्रतं प्रविधिः प्रोन्नतः जातः| अन्तरीक्ष-विज्ञानस्यापि अत्र महती भूमिका वर्तते| अस्य साहाय्येन पूर्वानुमानं प्रायेण समीचीनमेव जायते| शनैः शनैः वयमपि तादृशं स्वभावं स्वीकुर्मः येन ऋतोः पूर्वानुमानस्य अनुसारेण स्वीय-कार्य-कलापान् विरचयामः, एवं कृते सति वयं सम्भावितां हानिं परिहर्तुं शक्ष्यामः|