Saturday 2 September 2017

‘मन की बात’ [35]
“मनोगतम्”  [35]              (प्रसारण-तिथि:- 27.08.2017)
[“मन की बात”- “मनोगतम्” - इति कार्यक्रमस्य संस्कृत-भाषिकानुवादः]                                 
                -भाषान्तर-कर्ता -   डॉ. बलदेवानन्द सागर

मम प्रियाः देश-वासिनः ! 
           सादरं  नमस्कारः |
         एकतः देशः उत्सवेषु व्यापृतः अस्ति अपरतः च, हिन्दुस्थानस्य कस्मादपि कोणात् यदा हिंसा-वार्ता आयाति तदा देशस्य चिन्ता स्वाभाविकी एव | अस्मदीयः देशः अयं बुद्ध-गान्धिनोः देशः वर्तते | देशस्य एकतायै प्राण-पाणेनापि प्रयत्नशीलस्य सरदार-पटेलस्य देशः अयं | नैक-सहस्र-वर्षेभ्यः अस्मदीयाः पूर्वजाः सार्वजनिक-जीवन-मूल्यानि अहिंसां समादरञ्च स्वीकृतवन्तः | अस्मदीयेषु अन्तर्मनस्सु एतत् संभृतं वर्तते | “अहिंसा परमो धर्मः” - सूत्रमिदं वयं बाल्यकालादेव शृण्वन्तः  कथयन्तः च स्मः | रक्तदुर्गस्य प्राचीरेभ्यः अपि अहं उक्तवान् यत् आस्था-नाम्ना विधीयमाना हिंसा न मनागपि सहिष्यते | भवतु नाम सा सांप्रदायिकी आस्था वा राजनीतिक-विचारधारां प्रति आस्था वा भवतु नाम व्यक्ति-विशेषं प्रत्यास्था, उताहो स्याद् वा परम्पराः प्रत्यास्था -  आस्था-व्याजेन न कश्चन विधिं स्वयत्तीकर्तुं अधिकृतः अस्ति | डॉ.बाबा-साहेब-अम्बेडकरः अस्मभ्यं संविधानं प्रादात्, एतस्मिन् सर्वोsपि जनः न्यायं प्राप्नुयादिति सर्वप्रकारेण  व्यवस्थापितमस्ति | अहं देशवासिनः विश्वासयितुं वाञ्छामि यत् विधिं स्वायतीकर्तुं प्रयतमानः वा हिंसा-मार्ग-निरतः दमनशीलः वा, कश्चन अपि भवतु नाम व्यक्तिविशेषः वा समूहः, नायं देशः तं सहिष्यते न वा कश्चन सर्वकारः | प्रत्येकमपि जनः विधेः समक्षं नत-मस्तकः स्यात् | विधिरेव तत् उत्तरदायित्वं निश्चेष्यति | तथा च, दोषिणो नूनं   दण्डयिष्यन्ते |
मम प्रियाः देशवासिनः !
      अस्माकं देशः विविधताभिः सम्भरितः अस्ति, एताः विविधताः पानाशनयोः वासावासयोः परिधानादिषु एव सीमिताः  नैव सन्ति | जीवनस्य प्रत्येकमपि व्यवहारे वैविध्यमिदं द्रष्टुं शक्यते | एतावद् एव नैव, अस्मदीयाः उत्सवाः अपि वैविध्य-पूर्णाः सन्ति | सहस्रेभ्यः अपि वर्षेभ्यः प्राचीनम् अस्मदीयं सांस्कृतिकं रिक्थम् अतः,  पश्यन्तु नाम,  एताः सांस्कृतिक-परम्पराः वा सामाजिक-परम्पराः, अवलोकयन्तु वा ऐतिहासिक-घटनाः|