Saturday, 28 October 2017

प्रीतिभोजनम्                         कविता  - डा गदाधर त्रिपाठी
उत्सवप्रियो मनुष्य इति प्रवृत्तिर्हि स्वाभाविकी मता।
आयोजनानि भवन्त्येव मनुष्याणाञ्च खलु जीवने।
विचित्रो$यं संसारो वै नैव को$पि च तिष्ठति।
क्षणार्धाय भवतु विस्मृतिर्येन आयोजनं भवति।।
यद् भोजनं भवति एकाकी उदरपूर्त्यै भवति हि तत्।
समूहे भोजनं यच्च आत्मभावं हि वर्धयति।
भुंक्ते भोजयते चैवोक्तं द्विधं प्रीतिलक्षणम्।
प्रीतिभोजनेन प्रीतिरायोजनमाह्लादकारकम्।।
जन्मोत्सवे विवाहे वै पर्वणि आयोज्यते सदा।
मित्राणि सम्बन्धिनश्चैव प्रसन्ना भवन्ति सर्वदा।।
            -----------------
               
कृष्णस्य हासः                   कविता
                                                    रचयिता -  डा. गदाधर त्रिपाठी।    
अवतारेषु कृष्णो हि अद्भुत आह्लादकारकः।
यस्य हास्येन आबद्धा:सर्वा व्रजकन्यकाः।।
एकदा कुपिता माता कृष्णाय बन्धनं कृतम्।
अपूर्णा रज्जुरभवद्धि कृष्णेन हसितं तदा।।
निरावृता यदा अभवन् युवत्यो यमुनाजले।
चोरितानि वस्त्राणि  कृष्णेन हसितं तदा।।
विलपन्तं कृष्णं दृष्ट्वा विधेर्मनसि विभ्रमः।
कथं वै अयं भगवान् हि रुदन्नेवञ्च गच्छति  ।।
वत्साश्चोरितास्तेन प्रसन्नो$भवत् प्रजापति:।
इच्छया अपरा सृष्टिः कृष्णेन हसितं तदा।।
एकदा मघवा रुष्टः कृष्णात् कृपणचेतसा।
जलेन पूरिता पृथिवी चिन्तिता  व्रजवासिनः।।
गोवर्धनं समुत्थाप्य  प्रदर्शिता शक्तिर्यदा।
अवशोऽभवन्मघवा वै कृष्णेन हसितं तदा।।
नागविषेण यमुनायास्तदा वै जलमभवत् प्रदूषितम्।
यमुनाया निष्कासितो नागः कृष्णेन हसितं तदा।।
कंसस्य तु शक्तयः सर्वा विफला अभवन् यदा।
युद्धे हतो यदा कंसः कृष्णेन हसितं तदा।।
क्षणस्थितञ्च किमपि नास्ति प्रसन्नाश्च सर्वे वयम्।
अस्माकमज्ञतां पश्य कृष्णेन हसितं तदा।।
               .........................

Tuesday, 17 October 2017

दीपावलिः

वि के हरीशः
दीपावलिः भारतवर्षस्य एकः महान् उत्सवः अस्त्ति । दीपावलि इत्युक्ते दीपानाम् आवलिः । अयम् उत्सवः कार्तिकमासास्य अमावस्यायां भवति । कार्त्तिकमासस्य कृष्णपक्षस्य त्रयोदशीत: आरभ्य कार्त्तिकशुद्धद्वितीयापर्यन्तं ५ दिनानि यावत् आचर्यते एतत् पर्व । सायंकाले सर्वे जनाः दीपानां मालाः प्रज्वालयन्ति । दीपानां प्रकाशः अन्धकारम् अपनयति । एतत्पर्वावसरे गृहे, देवालये, आश्रमे, मठे, नदीतीरे, समुद्रतीरे एवं सर्वत्रापि दीपान् ज्वालयन्ति । प्रतिगृहं पुरत: आकाशदीप: प्रज्वाल्यते । दीपानां प्रकाशेन सह स्फोटकानाम् अपि प्रकाश: भवति । पुरुषाः स्त्रियः बालकाः बालिकाः च नूतनानि वस्त्राणि धारयन्ति आपणानां च शोभां द्रष्टुं गच्छन्ति । रात्रौ जनाः लक्ष्मीं पूजयन्ति मिष्टान्नानि च भक्षयन्ति । सर्वे जनाः स्वगृहाणि स्वच्छानि कुर्वन्ति, सुधया लिम्पन्ति सुन्दरैः च चित्रैः भूषयन्ति । ते स्वमित्रेभ्यः बन्धुभ्यः च मिष्टान्नानि प्रेषयन्ति । बालकाः बालिकाः च क्रीडनकानां मिष्टान्नानां स्फोटकपदार्थानां च क्रयणं कुर्वन्ति । अस्मिन् दिवसे सर्वेषु विद्यालयेषु कार्यालयेषु च अवकाशः भवति । भारतीयाः इमम् उत्सवम् प्रतिवर्षं सोल्लासं समायोजयन्ति । एवं सर्वरीत्या अपि एतत् पर्व दीपमयं भवति । अस्य पर्वण: दीपालिका, दीपोत्सव:, सुखरात्रि:, सुखसुप्तिका, यक्षरात्रि:, कौमुदीमहोत्सव: इत्यादीनि नामानि अपि सन्ति । अस्मिन्नवसरे न केवलं देवेभ्य: अपि तु मनुष्येभ्य: प्राणिभ्य: अपि दीपारतिं कुर्वन्ति ।

इदं कथ्यते यत् अस्मिन् दिवसे रावणं हत्वा रामः सीतया लक्ष्मणेन च सह अयोध्यां प्रत्यागच्छत् । तदा अयोध्यायाः जनाः अतीव प्रसन्नाः अभवन् । अतः ते स्वानि गृहाणि दीपानां मालाभिः आलोकयन् । ततः प्रभृति प्रतिवर्षम् तस्मिन् एव दिवसे एषः उत्सवः भवति ।

नीराजयेयुदेर्वांस्तु विप्रान् गावतुरङ्गमान् ।
ज्येष्ठान्पूज्यान् जघन्यां मातृमुख्या योषित: ॥ इति उक्तम् अस्ति ।
दीप: ज्ञानस्वरूप:, सर्वविद्यानां कलानां च मूलरूप: । सत्तामात्रं निर्विशेषं निरीहं स त्वं साक्षात् विष्णुरध्यात्मदीप: । इति वदति भागवतम् । हृदयकमलमध्ये दीपवद्वेदसारम् इति उच्यते गुरुगीतायां स्कान्दपुराणे च । यद्यपि दीपावली सर्वैरपि आचर्यते तथापि विशेषतया वैश्यपर्व इति उच्यते । एतदवसरे धनदेवताया: महालक्ष्म्या:, धनाध्यक्षस्य कुबेरस्य च पूजां कुर्वन्ति ।

पूजनीया तथा लक्ष्मीर्विज्ञेया सुखसुप्तिका ।
सुखरायां प्रदोषे तु कुबेरं पूजयन्ति हि ॥
एतत् केवलं धनसम्बद्धं पर्व न । अत्र महालक्ष्मी: केवलं धनदेवता न । श्रेयस: सर्वाणि अपि रूपाणि लक्ष्मीस्वरूपाणि एव । सा धर्मलक्ष्मी: मोक्षलक्ष्मी: अपि । वैश्या: तद्दिने लक्ष्मीपूजां कृत्वा नूतनगणनाया: आरम्भं कुर्वन्ति । तमिळुनाडुराज्ये चतुर्दशीदिनं दीपावली इति, कर्णातके चतुर्दशी-प्रतिपत् च दिनद्वयं दीपावली इति वदन्ति ।

त्रयोदश्यां सायङ्काले स्नानगृहं तत्रत्यानि पात्राणि च स्वच्छीकृत्य शुद्धं जलंपूरयन्ति । तत् जलपूरणपर्व इति वदन्ति । तद्दिने रात्रौ अपमृत्युनिवारणाय यमधर्मराजस्य सन्तोषाय च गृहस्य बहिर्भागे दीप: प्रज्वालनीय: इति वदति स्कान्दपुराणम् । तस्य दीपस्य नाम एव यमदीप: इति ।

कार्त्तीकस्यासिते पक्षे त्रयोदश्यां निशामुखे ।
यमदीपं बहिर्दद्यात् अपमृत्युर्विनश्यति ॥ (स्कान्दपुराणम्)
मृत्युना पाशदण्डाभ्यां कालेन श्यामया सह ।
त्रयोदश्यां दीपदानात् सूर्यज: प्रियतां मम ॥ (स्कान्द-पद्म-पुराणे)
चतुर्दश्यां प्रात:काले सर्वेपि अभ्यङ्गस्नानं कुर्वन्ति । एतद्दिने एव श्रीकृष्ण: नरकासुरं संहृत्य प्रात: अभ्यङ्गं कृतवान् आसीत् । अनेन स्नानेन नरकान्तक: नारायण: सन्तुष्ट: भवति । नरकभीति: निवार्यते । तद्दिने प्रात:काले तैले लक्ष्मी:, जले च गङ्गा निवसत: इति । तैलजलयो: उपयोगं कृत्वा य: स्नाति स: यमलोकं न गच्छति, तस्य अलक्ष्मीपरिहार: अपि भवति इति विश्वसन्ति ।

”तैले लक्ष्मीर्जले गङ्गा दीपावल्याचतुर्दशीम् ।
प्रात:काले तु य: कुर्यात् यमलोकं न पश्यति ॥“ (पद्मपुराणम् - ४-१२४)
”अलक्ष्मीपरिहारार्थम् अभ्यङ्गस्नानमाचरेत् ।” (नारदसंहिता)
तद्दिने विभिन्नानां चतुर्दशशाकानां भक्षणपद्धति: अपि कुत्रचित् अस्ति ।

”अत्र आचारात् चतुर्दशशाकभक्षणं च कर्तव्यम् ॥ इति उक्तिरपि श्रूयते ।
रात्रौ च ज्वलन्तम् आलातं गृहीत्वा पित्रृभ्य: मार्गदर्शनम् अपि कुर्वन्ति ।
यमाय धर्मराजाय मृत्यवे चान्तकाय च ।
वैवस्वताय कालाय सर्वभूतक्षयाय च ॥
औदुम्बराय दध्नाय नीलाय परमेष्ठिने ।
वृकोदराय चित्राय चित्रगुप्ताय वै नम: ॥
इति यमधर्मराजस्य चतुर्दशनामानि वदन्त: तस्मै तिलतर्पणं समर्पयन्ति । तद्दिने रात्रौ नरकपरिहाराय देवालयेषु, मठेषु, वृन्दावनेषु, गृहेषु, गृहात् बहि: प्राङ्गणे, आयुधशालासु, नदीतीरे, दुर्गेषु, कूपसमीपे, अश्वशालासु, गजशालासु मुख्यमार्गेषु च दीपान् ज्वालयन्ति । नरकासुरस्य स्मरणार्थं वर्त्तिकाचतुष्टययुक्तम् एकं दीपम् अपि ज्वालयन्ति । महाविष्णुं, शिवं, महारात्रिदेवता: च पूजयित्वा रात्रौ केवलं भोजनं कुर्वन्ति । मधुरभक्ष्याणां वितरणम् अपि कुर्वन्ति ।

अमावास्यायाम् अपि प्रात:काले अभ्यङ्गस्नानं कृत्वा लक्ष्मीपूजां कुर्वन्ति । ल्क्ष्म्या: पूजनेन दारिद्य्रं दौर्भाग्यं च नश्यति इति । अभ्यङ्गस्नानस्य जले उदुम्बर-अश्वत्थ-आम्र-वट-प्लक्षवृक्षाणां त्वगपि योजयन्ति । स्नानानन्तरं महिला: पुरुषाणाम् आरतिं कुर्वन्ति । नरकासुरेण बन्धने स्थापिता: १६ सहस्रं कन्या: बन्धमुक्ता: सन्त्य: कृतज्ञतासमर्पणरूपेण कृष्णस्य आरतिं कृतवत्य: आसन् एतद्दिने । देवपूजया सह पितृपूजाम् अपि कुर्वन्ति । तद्दिने गृहे सर्वत्र दीपान् ज्वालयन्ति । नृत्य-गीत-वाद्यै: सन्तोषम् अनुभवन्ति । नूतनानि वस्त्राभरणानि धरन्ति । रात्रौ जागरणं कुर्वन्ति । तद्दिने अलक्ष्मी: निद्रारूपेण आगच्छति इति भेरि पणवानकै: महाशब्दं कुर्वन्ति निद्रानिवारणाय । अस्मिन् दिने वणिज: गणनापुस्तकस्य पूजां कृत्वा ग्राहकेभ्य: मधुरभक्ष्याणि ताम्बूलं च वितरन्ति । लक्ष्म्या सह धनाध्यक्षं कुबेरम् अपि पूजयन्ति ।
-कूष्माण्ड-मुरनामकानां राक्षसानाम् अपि चित्राणि लिखन्ति । कर्णकुण्डलकिरीटै: शोभमानं बलिं विभिन्नै: कमलपुष्पै:, गन्ध-धूप-दीप-नैवेद्यै: पूजयन्ति । स्वर्णेन अथवा स्वर्णवर्णपुष्पै: तस्य पूजां कुर्वन्ति ।

”बलिराज नमस्तुभ्यं विरोचनसुत प्रभो ।
भविष्येन्द्र सुराराते विष्णुसान्निध्यदो भव ॥“
पूजेयं प्रतिगृह्यताम् इति प्रार्थयन्ति । एतद्दिने महादानी बलिचक्रवर्ती वामनावतारिण: विष्णो: सकाशात् प्राप्तस्य वरस्य अनुगुणं भूलोकं द्रष्टुम् आगच्छति इति । अत: बलिम् उद्दिश्य तद्दिने यानि दानानि दीयन्ते तानि अक्षयफलदायकानि भवन्ति, नारायणस्य सन्तोषम् अपि जनयन्ति इति वदति भविष्योत्तरपुराणम् ।

”बलिमुद्दिश्य दीयन्ते बलय: कुरुनन्दन ।
यानि तान्यक्षयाण्याहु: मय्येवं सम्प्रदर्शितम् ॥“ (भविष्योत्तरपुराणम् - १४०-५७)
एतद्दिने पार्वतीशिवौ द्यूतं कीडितवन्तौ । तत्र पार्वत्या जय: प्राप्त: इति वदति ब्रह्मपुराणम् । तस्य स्मरणार्थं तद्दिने द्यूतम् अपि क्रीडन्ति कुत्रचित् । तत्र य: जयं प्राप्नोति स: वर्षपूर्णं जयं प्राप्नोति इति विश्वास: ।

”तस्मात् द्यूतं प्रकर्तव्यं प्रभाते तत्र मानवै: ।
तस्मिन् द्यूते जयो यस्य तस्य संवत्सर: शुभ: ॥“
एतद्दिने एव श्रीकृष्ण: गोवर्धनपर्वतम् उन्नीय गोकुलस्य रक्षणं कृतवान् इति । अत: तस्य दिनस्य स्मरणार्थं गोपूजाम् आचरन्ति । तद्दिने गोवृषभेभ्य: विश्रान्तिं यच्छन्ति । गोवृषभान् स्नापयित्वा अलङ्कुर्वन्ति । तेषां पूजां कृत्वा नैवेद्यं समर्पयन्ति । गोवर्धनपर्वतस्य गोपालकृष्णस्य च पूजां कुर्वन्ति । पर्वतं गन्तुम् अशक्ता: तस्य विग्रहं, चित्रं वा पूजयन्ति । गोवर्धनपूजाम् अन्नकूट: इति वदन्ति । गोपालेभ्य: नैवेद्यरूपेण अन्नसन्तर्पणं व्यवस्थापयन्ति च एतद्दिने ।

अग्रिमं दिनम् अस्ति कार्त्तीकशुद्धद्वितीया । एतद्दिनं भ्रातृद्वितीया, यमद्वितीया, भगिनीद्वितीया इति अपि वदन्ति ।

”यमं च यमुनां चैव चित्रगुप्तं च पूजयेत् ।
अर्घ्यात्र प्रदातव्यो यमाय सहजद्वयै: ॥“

एतद्दिने एव यमदेव: भगिन्या: यमुनादेव्या: गृहं गत्वा आतिथ्यं प्राप्तवान् इति । अत: पुरुषा: सर्वे यमाय यमुनादेव्यै च अर्घ्यं समर्प्य भगिनीनां गृहं गच्छन्ति भोजनार्थम् । भगिनीभ्य: उपायनानि दत्त्वा ता: सन्तोषयन्ति च । मार्कण्डेयादीनां चिरञ्चीवीणां स्तोत्रं कुर्वन्ति । तद्दिने विशेषतया यमुनानद्यां स्नात्वा तां पूजयन्ति । एतत् दिनं दीपावलीपर्वण: अन्तिमं दिनम् । एवं ५ दिनानि आचरन्ति दीपावलीपर्व ।

”उपशमित मेघनादं प्रज्वलित दशाननं रमितरामम् ।
रामायणमिव सुभगं दीपदिनं हरतु वो दुरितम् ॥“ (भविष्योत्तरपुराणम् - १४० - ७१l

रामायणे मेघनाद: (इन्द्रजित्) यथा शान्त: तद्वत् एतत् पर्वावसरे मेघ: शान्त: जात: भवति । रामायणे दशमुखरावण: यथा दग्ध: भवति तथा अस्मिन् पर्वणि दशामुखं (वर्त्तिका) दहति । रामायणे राम: यथा रमते तद्वत् अस्मिन् पर्वणि सर्वे जना: रमन्ते । एवं रामायणमिव रमणीयं दीपावलीपर्व अस्माकं पापानि नाशयतु इति वदति अयं श्लोकः ll