Friday 19 January 2018


पातञ्जलयोगसूत्रे अन्तरायाः
फिलोमिना टि एल्
अनुसन्धानाध्ययनम्
 Research Article No: 20180119
फिलोमिना टि एल्
शोधछात्रः
श्री शङ्कराचार्य विश्वविद्यालयः,  कालटी।


   भारतवर्षो ऋषीणाम्  अन्वेषणफलत्वेनैव दर्शनशाखाः अविर्भवन्। तासु दर्शनेषु अन्यतमं  भवति योगदर्शनम्। अस्य योगदर्शनस्य प्रणेता भवति पतञ्चलिः।  अधिकारिकं ग्रन्थं च भवति पातञलं योगसूत्रम्। योगसूत्रे चत्वारः पादाः सन्ति। ते च समाधिपादः साधनपादः विभूतिपादः कैवल्यपादः। अत्र प्रथमम् समाधिपादे समाहितचित्तस्य सोपायं योगं प्रतिपादयति। अनन्तरं द्वितीयं साधनापादे  व्युत्थितचित्तस्य कथम्‌ उपायाभ्यासपूर्वकः योगाः साध्यः इति तत्साधनानुष्ठानः क्रिया योगः प्रतिपादयति। विभूति इति तृतीयपादे संयमत्वादिनां* कथम् अस्य लोकस्य नाशम् इति प्रतिपादयति। चतुर्थः कैवल्यपादे कथम् पूर्वोक्तैः उपायैः कैवल्यम् अश्नुते इति प्रतिपादयति।
           पातञ्जलयोगसूत्रम् अथ योगानुशासनम् इतिसूत्रेण आरब्धम्। योगो नाम चित्तवृत्ति निरोध:। वृत्तीनां प्रमाण-विपर्यय-विकल्प-निद्रादीनां स्मृत्यादीनां निरोधः योगः इत्युच्यते। अन्तरायाऽभावे एव योगः सम्भवति अत्र अन्तरायाः विशदीकुर्वन्ति।

अन्तरायाः
          ततः प्रत्यक् चेतनाऽधिगमोऽप्यन्तरायाभावश्च* इति ईश्वर प्रणिधानात् आत्मस्वरूपज्ञानं तथा विघ्नानां निवर्तिः च संभवति इति प्रतिपादितं भवति। तत्र व्याधिस्त्यानसंशय-प्रमादाऽऽलस्याऽविरतिभ्रान्ति दर्शनाऽलब्धभूमिकत्वाऽनवस्थितत्वानि चित्त विक्षेपास्तेऽन्तरायाः* इति पातञ्जलयोगसूत्रे समाधि पादे अन्तरायाः चिन्तयन्ति। ते अन्तरायाः रजस्तमो गुणानां बलात् प्रवर्तमानं चित्तस्य विक्षेपाः भवन्ति। तैः अन्तरायैः एकाग्रता विरोधित्वेन चित्तं प्रव
र्त्तयति।

व्याधिः
      अत्र व्याधिः नाम धातुवैषम्यनिमित्तं ज्वरादिः भवन्ति। यथा वातपित्त कफादीनां वैषम्यात् ज्वरादीनां सम्भवः । तदेव अत्र व्याधित्वेन उच्यते।

स्त्यानम्
           मनसः अकर्मण्यता भवति स्त्यानम्। मनसः कर्मरहितः वृत्तिः एव स्त्यानत्वेन उच्यते।

संशयम्
          अत्र योगः साध्यो वा न इति प्रतिपादितम् भवति। अत्र अङ्गादीनाम्  अनुष्ठानसमये तत् योगम् साध्यो वा न वा इति संशयः।

प्रमादम्
        समाधिसाधनेषु उदासीनत्वम्, अनुष्ठानशीलत्वं च भवति प्रमादः। यथा समाधि सम्पादनव्यग्रः  अपि तत् सम्पादनाय अनुष्ठानसाधनेषु उदासीनत्वेन वर्तनं तदेव प्रमादः।

आलस्यम्
          कायचित्तयोः गुरुत्वम् , चित्तस्य शरीरस्य च गुरुत्वमेव आलस्यम् । तत् योगविषये  प्रवृत्यभावस्य हेतुः भवति।  आलस्यं नाम विक्षेपे तमोगुणस्य आधिक्यात् निद्रा अलसता च भवति

अविरतिः
         चित्तस्य विषयसम्प्रयोगात्मा गर्धः, नाम विषयेषु अग्रहमेव अविरतिः। विषयाणाम्  इन्द्रियाणां च संयोगेन विषयेषु इच्छा भवति तथा वैराग्यस्य भङ्गः च अस्ति चेत्  तदेव अविरतिः नाम विक्षेपः।

भ्रान्तिदर्शनम्
          शुक्तिकायां रजतत्वद् विपर्य्ययज्ञानमेव भ्रान्तिज्ञानम् ।

अलब्धभूमिकत्वम्
        कश्चित् निमित्तात् समाधिभूमेः अलाभः असम्प्राप्तिः भवति अलब्धभूमिकत्वम् । साधनानि यथाविधि कुर्वन्तः अपि अनुभूतिः  नास्ति तर्हि तदेव अलब्धभूमिकत्वं नाम विक्षेपः। तत् साधकस्य उत्साहं शीघ्रमेव मन्दीकरोति।

अनवस्थितत्वम्
         लब्धायामपि समाधिभूमौ चित्तस्य अप्रतिष्ठा अनवस्थितत्वम्। साधनैः लभ्यमानाः अनुभूतयः अस्थिराः भवन्ति। तदेव अनवस्थितत्वम् नाम विक्षेपः।
       एवं प्रधानतया समाधि विघ्नत्वेन  नवविधाः चित्तविक्षेपाः  वर्णितम्। साधकः एतानि अन्तरायान् सम्यक्  ज्ञात्वा तान् दूरीकर्तुं  सदा परिश्रमं  करणीयम्।   ते एते समाधेः एकाग्राताया प्रतिपक्षत्वात् अन्तरायाः इति उच्यन्ते।
प्रधानीभूतान् अन्तरायान् उक्त्वा अनन्तरं  दुःखदौर्मनस्याऽङ्गमेजयत्वा - श्वास-प्रश्वासा विक्षेपसहभुवः एते दुःखादयः अपि अन्तरायानां सहकारित्वेन उच्यन्ते। ते दुःखम्, दौर्मनस्यम्, अङ्गमेजयत्वम्, श्वासम्, प्रश्वासम् चेति पञ्चविधाः भवन्ति।

दुःखम्
       कुतश्चित् निमित्तात् उत्पन्नेषु विक्षेपेषु एते दुःखादयः प्रवर्तन्ते। तत्र दुःखं रजोगुणस्य परिणामः समाधेः बाधनालक्षणः भवति। सामान्यतः दुःखं त्रिविघं भवति। आध्यात्मिकम्, आधिभौतिकम् , आधिदैविकं चेति। तत्र आध्यात्मिकं दुःखं शारीरं मानसं चेति द्विविधम्। शारीरं वात-पित्त-श्लेष्माणां वैषम्यनिमित्तम्। मानसम् काम-क्रोध-लोभ-मोह-भय-ईर्ष्या-विषादा-निराशा मूलकम्। आधिभौतिकं दुःखम् मानुष-पशु-पक्षि-सरीसृपस्थावराः। आधिदैविकं दुःखम्  यक्ष-राक्षस-विनायक-ग्रहादीनां  आवेशमूलकम्* ।

दौर्मनस्यम्
       स्व स्व इच्छायाः अनिवर्तनीयात् सांखतत्व कौमुदी अधिष्ठितम्। चित्तोत्पन्नः क्षोभमेव दौर्मनस्यम्। अथवा बाह्य आभ्यन्तरैः कारणैः मनसः दुःस्थिति एव दौर्मनस्यम्।

अङ्गमेजत्वम्
      शरीरस्य सर्वाङ्गिणो वेपथुः एव अङ्गमेजयत्वम् । तत् आसनमनसः स्थैर्यस्य बाधकः एव।
श्वासः
       प्राणो यद्‌ बाह्यं वायुमाचामति स श्वासः प्रश्वासः, कौष्ठ्यमृ वायोः निःश्वासमेव प्रश्वासः। ते एते । विक्षेपैः सह वर्तमानं भवति। तत् अपि अभ्यास वैराग्याभ्यां* निरोद्धव्यमेव भवति। योगसूत्रे उक्तस्वरूपस्य ईश्वरस्य वाचकमभिधाय तस्य उपासना तत् फलञ्च उक्तम् । अत्र. ईश्वरोपासनायाः फलं तु प्रत्यक्चेतनाधिगमः  अन्तरायाभावः च इति। अत्र व्याधिस्त्यानादीनाम् अन्तरायानाम्  अभावः तस्य सार्धत्रिमात्रिकस्य प्रणवस्य उपासनायाः फलम्।  ईश्वरनिरपेक्षकाणां मनसि  तस्य उपासनेन न किञ्चिदपि प्रयोजनम् अस्तीति वदन्ति। किन्तु तदपेक्षकाणां मनसि तदुपासनया व्याध्यादि विघ्नानां निवारणमेव कार्यः इति। तदेव अत्र  योगशास्त्रे  सूत्रकारेण वृत्तिकारेण च प्रतिपादितम्।
 -----------------------------------------------------------
 पादटिप्पणी
१. विभूतिपादम्  यो. सू ३.४
२. यो. सू १.२९
३. lbid 30
४* सांख्यतत्वकौमुदी अधिष्ठितं
५* यो. सू. १.१२-१३

Reference
1. The Yogasastra of Patanjali with the commentary of yoga, Bengali Baba. Motilal Banarasidass publishers 1976 1st Edition
2. पातञ्जलयोगदर्शनम् वाचस्पतिमिश्र विरचित तत्ववैशारदी
3. പാതഞ്ജല യോഗദർശനം മലയാള വ്യാഖ്യാനസഹിതം - സ്വാമി ജ്ഞാനാനന്ദ സരസ്വതി.
4.पातञ्जलयोगदर्शनम्
श्रीमद्धारेश्वरभोजदेव विरचित राजमार्ताण्ड विवृत्तिसमेत।