Monday 12 March 2018

ग्रन्थिबन्धनम्
ग्रन्थाभिमतः - अभिषेक् पर्गाई।
           ग्रन्थिबन्धनम् इति नाम श्रवणेनेव सकलजनस्यापि मनसि जिज्ञासा जायते यत् (ग्रन्थिबन्धनम्) ग्रन्थिनाम्+बन्धनम् किमिति ।“तर्हि ग्रन्थिबन्धनम् महाकाव्यमिदम्” महाकाव्यमिदम् महाकाव्यस्य श्रेण्यां नूतनमेव मार्गं प्रदर्शयति । महाकाव्येस्मिन् प्राचीन परिपाट्यामेव नूतन उपस्करणेन सह कथा उपलब्धास्ति। पात्र-घटनादीनां वर्णनं समयानुसारमेव कल्पितमस्ति । आधुनिकेस्मिन् युगे याः घटनाः जनैः सर्वदा सम्मुखीक्रियन्ते तामेव काव्यरुपेण अत्र प्रस्तुतमस्ति । अद्यत्वे समाजे यौतुकम् (याचनं उत् दानं) अभिशापं वर्तते । एनमेव विषयमाधारीकृत्य काव्यस्वरुपं प्रदत्तम्।   
      यौतुकमेव अस्य महाकाव्यस्य मूलाधारचक्रं वर्तते । कुत्रचित् सहृदयैः अनुभूयते यत् अत्र महाकाव्यस्य लेखने पुरातन विधीनां उल्लंघनं कृतं वर्तते । परञ्च नात्र तथा परञ्च नूतन मार्गस्यैव श्रीगणेशः वर्तते । यथा परिवर्तनमेव जगतः शाश्वतं सत्यं काले-काले विचारधाराषु परिवर्तनं स्वाभाविकमेव वर्तते । तदवतेव महाकाव्येऽस्मिन्नपि महाकाव्यजगति परिवर्तनमानेतुं प्रयासः विहितः । षोडश सर्गेषु उपनिबद्धम् महाकाव्यमिदम् भाषावगमादिदृष्ट्या सामान्यजनानां कृतेऽपि अत्यन्तमुपादेयं वर्तते । महाकाव्येऽस्मिन् श्रृंगाररसमङ्गिनं विधाय अन्येऽपि रसाः अङ्गतयाः यत्र तत्र प्रतिपादिताः सन्ति ।

      छन्दोदृष्ट्याऽपि अनुष्टुप-उपजाति-वंशस्थ-वसन्ततिलका-द्रुतविलम्बित-मालिनी-पञ्चचामर-शार्दूलविक्रीडितादीनां मनोहारी प्रयोगो दृश्यते । अलङ्काराणां चित्तचोरिणी छटा बलादेव जनान् रससागरे निमज्जयति । यथा यमाकानुप्रासयोः उदाहरणमेकं प्रस्तूयते –
“नवरसालरसालसमानसं सुमनसां मनसामपि मार्दवम्
हरति हन्त वसन्तवशंवदो मनसिजो मनसः श्रियमाहरन्।
न विषमाशुगवीर्यविदारणं न विषमाशुगवीर्यविघातकम्
विषमाशुगवीर्यविधायकं त्रितयवाक्यमिदं शुकविक्रिया”॥
महाकाव्येस्मिन् विप्रयोगस्य संयोगस्य च सकलस्यापि वर्णनं नवीनरीत्या कृतं वर्तते । कवेः प्रकृति अत्र प्राचीनमार्गस्य नव्यरीत्या प्रस्तुतिकरणं परिलक्ष्यते । महाकाव्येऽस्मिन् प्राच्य-नव्ययोः द्वयोरपि अद्भुतं सङ्गमो विलोक्यते । नैषधीयचरित इव अस्मिन् महाकाव्येप्येकः शुको वर्तते । यो नायकं नायिकां चान्तरा सेतुवत् कार्यं करोति । परञ्च एषः शुकः प्राचीनमार्गनिरपेक्षतया  नवलमार्गमाश्रित्य कार्यं विदधाति ।
सुभाषितानि स्वर्गसुधामपि तिरस्कृत्य विभान्त्यधिवसुधमिति जानन्त्येव तञ्ज्ञाः । तदवतेव अस्मिन् महाकाव्येपि नैकाः सूक्तयः काव्यशोभां समेधयन्तो विलोक्यन्ते । उदाहरणार्थं –
*आत्मरक्षा विधाने को नोद्यमी धरणीतले ।
* अन्विष्यन्ति सदाश्चर्यं चित्रान्वेषणपण्डिताः।
महाकाव्यस्यास्य प्रथमे सर्गे तपोवनवर्णनं,सुकन्या(नायिकायाः) वर्णनं,सुकन्यायाः वन विहरणं तत्रैव सुकन्या द्वारा कस्यचित् युवकस्य दर्शनं,सुकन्या द्वारा पालितस्य शुकस्य कुत्रचित् अन्यत्र गमनमस्ति । पञ्चदशे षोड्शे च सर्गे विधिपूर्वकं यौतुकम् विनैव द्वयोः ग्रन्थिबन्धनम् कारयित्वा महाकविना डा निरञ्जन मिश्र महोदयेन मध्यस्थेष्वऽपि सर्वेषु सर्गेषु समाजहिताय तथा च वर्तमानिकालिक समस्यानां यथोचितं वर्णनं विहितमस्ति। महाकाव्यमिदम् सत्यम् पब्लिशिंग हाऊसत: प्रकाश्यते ।