Sunday, 9 July 2017

प्रक्रियासर्वस्वम्
 डॉ. जि. गङ्गाधरन् नायर्
       
                 भारतराष्ट्रे केरलराज्ये जन्म प्राप्तवत्सु संस्कृतसाहित्यसपर्यां कृतवत्सु महात्मसु सर्वप्रथमं स्थानम् अद्वैताचार्यस्य श्रीशङ्करस्य , तदनन्तरं स्थानं श्रीमतः नारायणभट्टपादस्य इति भूयसाम् आधुनिकगवेषकाणाम् अभिप्रायः। केरलीयभाषाभूते मलयाळे नारायणभट्टतिरि (नारायणभट्टश्रीः इति संस्कृते) इति प्रथितः अयं भट्टापादः श्रीकृष्णभक्तिमयस्य नारायणीयम् इति स्तोत्रकाव्यस्य रचनां कृतवान् , गुरुवायुपुरे श्रीकृष्णमन्दिरे विग्रहस्य पुरतः प्रतिदिनम् एकं दशकम् इति क्रमेण दिनशतेन इदं काव्यं पठित्वा स्वस्य तीव्रवातरोगात् विमुक्तः अभवत् इति ऐतिह्यं प्रसिद्धं भवति। मीमांसा, व्याकरणं, ज्योतिषं, तर्कः इत्यादिषु नानाशास्त्रेषु निष्णातः नारायणभट्टः अम्बरनदीराजस्य देवनारायणस्य आज्ञया प्रक्रियासर्वस्वं नाम व्याकरणग्रन्थस्य रचनां षष्ट्या दिनैः ( by 60 days ) कृतवान्। सः वदति –

                 भूखण्डे केरळाख्ये सरितमिह निळामुत्तरेणैव नावा-
                क्षेत्राद् गव्यूतिमात्रे पुनरुपरिनवग्रामनाम्नि स्वधाम्नि।
                धर्मिष्ठाद्भट्टतन्त्राद्यखिलमतपटोर्मातृदत्तद्विजेन्द्रा-
                ज्जातो नारायणाख्यो निरवहदतुलां देवनारायणाज्ञाम्॥

इतः ज्ञायते तस्य गृहम्  उपरिनवग्रामः ( मेल्पुत्तूर् इति मलयाळभाषायाम् ), तच्च निळायाः ( इदानीं भारतप्पुषा इति प्रथितायाः नद्याः ) तीरे  नावामुकुन्ददेवमन्दिरात् नातिदूरे, पिता मातृदत्तनामकः नम्पूतिरिब्राह्मणः च इति॥

स्वस्य शिक्षाविषये भट्टापादः वदति –

            मीमांसादि स्वतातान्निगममविकलंमाधवाचार्यवर्यात्-
           तर्कं दामोदरार्यादपि पदपदवीमच्युताख्याद्  बुधेन्द्रात्।
           तेषां कारुण्ययोगात् किमपि च कवितामाप्नवं कर्म चैतद्
           भूयात्कृष्णार्पणं मे भवतु च सततंधीरघारेः कथायाम्॥
एतदनुसृत्य नारायणस्य मीमांसागुरुः पिता एव, वेदगुरुः माधवाचार्यः, न्यायशास्त्रगुरुः दामोदरः, व्याकरणाचार्यः अच्युतपिषारोटिः च आसन् इति।

             शास्त्रेषु काव्यभेदेषु च भट्टपादः बहून् ग्रन्थान् विरचितवान्।  नारायणीयं काव्यं पूर्वं सूचितम्।  गुरुवायुपुरेशम् अभिसम्बोध्य शतसङ्ख्यकेषु दशकेषु सहस्राधिकैः पद्यैः तस्मिन् कृष्णकथा वर्णिता अस्ति। अतिमनोहरं काव्यम् इदम्। श्रीपादसप्ततिः इति देवीस्तुतिपरं स्तोत्रकाव्यं बाणभट्टस्य चण्डीशतकस्य समानं वर्तते। धातुकाव्यं व्याकरणशास्त्रकाव्यं भवति यत्र त्रिषु सर्गेषु कंसवधवर्णनेन साकं  माधवीयधातुवृत्तिम् अनुसृत्य क्रमेण धातुनिष्पन्नक्रियारूपाणि उदाहृतानि सन्ति। देवीस्तुतिनामके स्तोत्रे नव पद्यनि सन्ति येषु कटपयादिसंख्यासम्प्रदायेन ऋग्वेदस्य अष्टकानां वर्गाणाम् अध्यायानां सूक्तानां च संख्याः सूचिताः। स्वस्य उपकारं कृतवतां राज्ञां प्रशस्तयः नारायणेन प्रणीताः सन्ति -- शैलाब्धीशमानविक्रमप्रशस्तिः, माटमहीशवीर-केरलप्रशस्तिः, अम्बरनदीशदेवनारायणप्रशस्तिः, बिम्बिलीशगोदवर्मप्रशस्तिः च। राजसूयम्, सुभद्राहरणम्, पाञ्चालीस्वयंवरः, मत्स्यावतारः, गजेन्द्रमोक्षः, कुचेलवृत्तम्, अजामिलोपाख्यानम्, अष्टमीचम्पूः इत्यादयः अनेके चम्पूप्रबन्धाः तेन विरचिताः सन्ति यान् उपयुज्य चाक्यारनामक-जातीयाः इदानीमपि देवमन्दिरेषु अनुष्ठेयं "कूत्तु" नामकं  क्लारूपम् अवतारयन्ति। शूर्पणखा-प्रलापप्रबन्धे अनुनासिकाः वर्णाः न सन्ति इति सः निरनुनासिकप्रबन्धः इति प्रसिद्धः। व्याकरणे प्रक्रियासर्वस्वम् , अपाणिनीयप्रमाणता इति ग्रन्थतल्लजद्वयं विशेषतः उल्लेखनीयं वर्तते।

व्याकरणप्रस्थानद्वयं प्रक्रियासर्वस्वं च
     पाणिनेः अष्टाध्याय्यां येन क्रमेण सूत्राणि पठितानि तेन क्रमेण एव पुरातनकाले सूत्राणाम् अर्थप्रतिपादनम् उदाहरणप्रदर्शनं च आसीत्। अत्यन्तं सङ्क्षेपेण, स्मरणसौकर्यापेक्षया च पाणिनिना सूत्राणां क्रमः स्वीकृतः। अतः सूत्रेषु शब्दानाम् आवर्तनं यावच्छक्यं परिहृतम् । एकस्य सूत्रस्य अर्थज्ञानाय तस्मिन् सूत्रे विद्यमानानाम् ऊह्यानां वा शब्दानाम् अपेक्षया अधिकाः शब्दाः आवश्यकाः सन्ति तर्हि पूर्वसूत्रेभ्यः ग्रहीतुं शक्यन्ते इति अस्य क्रमस्य सौष्ठवम्। काशिकायाम् अष्टाध्यायीक्रमेणैव सूत्राणाम् पाठः, अर्थप्रतिपादनम्, उदाहरणं च सन्ति। एवं रीत्या पाणिनीयसूत्रशिक्षणस्य काशिकाप्रस्थानम् इति नाम अधुना व्याकरणशास्त्रिभिः कथ्यते। शब्दानां रूपनिष्पत्तिप्रतिपानाय अष्टाध्याय्याम्  एकत्र पठितस्य सूत्रस्य अनन्तरम् अपरत्र पठितस्य सूत्रस्य अपेक्षा स्यात्। अतः प्रक्रियाज्ञाने  क्लेशः अस्ति इति अस्य प्रस्थानस्य दोषः।

      धर्मकीर्तेः रूपावतारे, विमलसरस्वत्याः रूपमालायां, रामचन्द्रदीक्षितस्य प्रक्रियाकौमुद्यां च अष्टाध्यायीक्रमं त्यक्त्वा प्रक्रियानुसारेण सूत्राणि विन्यस्य व्याख्यातानि उदाहृतानि च । इमां रीतिं कौमुदीप्रस्थानमिति कथयन्ति वैयाकरणाः।  नारायणभट्टः ( 1560-1666  क्रि.सं.), तस्य समकाले जीवितवान् भट्टोजिदीक्षितः ( 1550-1630 क्रि.सं.) च प्रक्रियानुसारेण सूत्राणि प्रतिपादितवन्तौ। नारायणभट्टस्य प्रक्रियासर्वस्वं भट्टोजिदीक्षितस्य वैयाकरण-सिद्धान्तकौमुदी च कौमुदीप्रस्थाने अन्तर्भवतः। तौ महान्तौ परस्परं न दृष्टवन्तौ, परस्परस्य ग्रन्थान् अपि न दृष्टवन्तौ। कर्णाकर्णिकया दीक्षितः नारायणस्य  महत्त्वं श्रुतवान् इति ऐतिह्यं प्रचलति। सिद्धान्तकौमुद्याः महान् प्रचारःअभवत्। इदानीमपि  व्याकरणपठने  सा एवअधिकतया आश्रीयते॥
 प्रक्रियासर्वस्वस्य  पृष्ठभूमिका

     काशिकावृत्तौ  शब्दानां रूपसिद्धिप्रकारः सम्यक् न प्रदर्शितः। रूपावतारे, प्रक्रियाकौमुद्याम् , अन्येषु प्रक्रियाग्रन्थेषु च सर्वेषां पाणिनिसूत्राणां वर्णनं नास्ति। अनेन कारणेन अम्बरनदीदेशनरेशः पाणिनीयव्याकरणस्य समग्रं ग्रन्थं रचयितुं भट्टपादम् आदिष्टवान्। तद्विषये भट्टः लिखति--
                सो/थ कदाचन राजा स्वगुणैराकृष्य स्वसन्निधिं नीतम्।
                 श्रीमातृदत्तसूनुं नारायणसंज्ञमशिषदवनिसुरम्॥

             वृत्तौ चारु न रूपसिद्धिकथनं रूपावतारे पुनः
                   कौमुद्यादिषु चात्र सूत्रमखिलं नास्त्येव तस्मत् त्वया।
             रूपानीतिसमस्तसूत्रसहितं स्पष्टं मितं प्रक्रिया-
                     सर्वस्वाभिहितं निबन्धनमिदं कार्यं मदुक्ताध्वना॥

    स्वकीयग्रन्थस्य यावच्छक्यं सर्वशब्दानुशासनत्वम् अभिलषन् नारायणभट्टः स्वपठितानां बहूनां ग्रन्थानाम् उपयोगं करोति। व्याकरणग्रन्थरचनार्थं यावत्सङ्ख्यकानां ग्रन्थानाम् उपयोगं सः कृतवान् तावत्सङ्यकानाम् अन्यः न को/पि अन्यः शास्त्रकारः कृतवान् इति नारायणस्य प्रशंसायां वक्तव्यमस्ति। मुनित्रयात् परमपि भाषायां प्रयोगे आगतानां शब्दानां साधुत्वं साधयितुम् इच्छन् भोजराजविरचितस्य सरस्वतीकण्ठाभरणस्य , दण्डनाथेन विरचितायायाः तद्वाख्यायाः हृदयहारिण्याः च अधिकतया उपयोगं करोति इति सुव्यक्तं दृश्यते॥

विषयविन्यासः   शैली च
     अम्बरनदीनरेशः विद्वान् आसीत्। तस्य निर्देशम् अनुसृत्य एव प्रक्रियासर्वस्वे प्रकरणानि योजितानि। तत्र विंशतिः खण्डाः सन्ति --  संज्ञाखण्डः, परिभाषाखण्डः, सन्धिखण्डः, कृत्खण्डः, तद्धितखण्डः, समासखण्डः, स्त्रीप्रत्ययखण्डः, सुबर्थखण्डः, सुब्विधिखण्डः, आत्मनेपद-परस्मैपदविभागखण्डः, तिङ्खण्डः, लार्थविशेषखण्डः, सनन्तखण्डः, यङ्खण्डः, यङ्लुक्खण्डः, सुब्धातुखण्डः, न्यायखण्डः, धातुखण्डः, उणादिखण्डः, छान्दसखण्डः।
     सरलवाक्यैः सूत्राणाम् अर्थः उदाहरणानि च प्रक्रियासर्वस्वे उच्यन्ते। क्वचित् क्वचित् पद्येन प्रतिपादनं भवति। शास्त्रे यस्मिन् कस्मिन् अपि विषये मतभेदः इतरेषां दृश्यते तर्हि तस्य अपि विवरणं तत्र स्वस्य युक्तिसम्मतं मतं च  भट्टपादः लिखति।
                रासविलासविलोलं भजत मुरारेर्मनोरमं रूपम्  ।
               प्रकृतिषु यत् प्रत्ययवत् प्रत्येकं गोपिकासु सम्मिलितम्॥   इति मङ्गलश्लोकेन प्रक्रियासर्वस्वम् आरभमाणः नारायणः सूत्राणां भूयांसि उदाहरणानि श्रीकृष्णसम्बद्धानि एव ददाति। प्रायेण अन्ये ग्रन्थकाराः भाष्यकाशिकादिषु विद्यमानान्  उदाहरणविशेषान् एव यदा ददाति तदा नारायणः स्वयमेव अन्यानि उदाहरणानि अधिकतया दर्शयति। प्रायेण तस्य उदाहरणानि तस्य कविथवद्योतकानि अपि भवन्ति॥
मुनित्रयस्य विधीनाम् अविषयान् शब्दान् अपाणिनीयान् उक्त्वा केचिद् वैयाकरणाः शाठ्येन तान् असाधून् कथयन्ति, तिरस्कुर्वन्ति च। महाकवीनां कृतिषु अपि तादृशाः शब्दाः दृश्यन्ते। केनापि उक्तम् –

अपशब्दत्रयं माघे  भारवेरेकविंशतिः।
असङ्ख्याः कालिदासस्य व्यासस्तन्मयतां गतः ॥
इति।
नारायणभट्टः रूढप्रयोगाणां शब्दानाम् असाधुत्वं नाङ्गीकरोति। महाकवीनां प्रयोगाणां साधुत्वम् अपि सः प्रतिपादयति। उदाहरणार्थं भवभूत्यादिभिः प्रयुक्तः विश्रामशब्दः दृश्यताम्। पाणिनीयव्याकरणानुसारेण विश्रमः साधुः, न विश्रामः। वर्धमान-भोजराजादयः विश्रामशब्दमपि साधयन्ति । नारायणः वदति --
        वर्धमानाख्य आचार्यो वौ श्रमेर्वेत्यसूत्रयत्।  विश्रमेर्वेति भोजो/पि तेन विश्राम-विश्रमौ॥
        विश्रामस्यापशब्दत्वं वृत्त्युक्तं नाद्रियामहे।  मुरारिभवभूत्यादीनप्रमानणीकरोति कः॥
       विश्रामशाखिनं वाचां विश्रामो हृदयस्य च।  विश्रामहेतोरित्यादि महान्तस्ते प्रयुञ्जते॥

अपाणिनीयप्रयोगाणां साधुत्वप्रतिपादनम्

     पाणिनि-कात्यायन-पतञ्जलिभिः त्रिभिः मुनिभिः यथोत्तरम् अधिकप्रामाण्यवद्भिः अनुगृहीताः एव शब्दाः साधवः, अन्ये असाधवः इति वदामः चेत् अस्माभिः अङ्गीकर्तव्यं यत् मुनित्रयात् परंसंस्कृतभाषा वन्ध्या निर्जीवा च आसीद् इति। एतत् सत्यं न। पुराण-काव्य-कथादिसाहित्यं यत् पतञ्जलेः परं जातं तत् अतीव पुष्कलं भवति। मानवस्य कालानुसारिविकासम् अनुसृत्य नूतनवस्तूनि उत्पद्यन्ते, नूतनाः आशयाः जायन्ते। तेषामपि प्रतिपादनार्थं भाषा नूतनशब्दैः विकसिता भवति।  को वा इच्छति मुनित्रयस्य काले यानि वस्तूनि, ये आशयाः च आसन् तैः एव अहं जिविष्यामि, ततः परं लोके आविर्भूतं किमपि मम न आवश्यकम् इति ? लोकव्यवहारार्थं नृत्यन्ती ऊर्जस्वला भाषा आवश्यकी।  पुराणकाव्यादिषु संस्कृतभाषा तादृशी एव दृश्यते । तस्याः समर्थनार्थम् एव चन्द्रगोमि-भोज-बोपदेवप्रभृतयः नूतनशब्दानां साधुत्वं प्रतिपादितवन्तः।  तेषाम् आशयान् यथावत् अवगम्य अपाणिनीयाः इति कैश्चित् निन्दितान् शब्दान् अपि साधयितुम् ऊर्जस्वलः नारायणः युक्तिपूर्णम् अपाणिनीयप्रामाण्यसाधनम् इति ग्रन्थं लिखितवान्।  एषः ग्रन्थः प्रक्रियासर्वस्वस्य आधारशिला इति वक्तुं शक्यते।
     अपाणिनीयप्रामाण्यसाधनस्य आरम्भे एव नारायणः पद्येन वदति --
             पाणिन्युक्तं प्रमाणं न तु पुनरपरं चन्द्रभोजादिसूत्रं
            के/प्याहुस्तल्लघिष्ठं न खलु बहुविदामस्ति निर्मूलवाक्यम्।
            बह्वङ्गीकारभेदो भवति गुणवशात् पाणिनेः प्राक् कथं वा
           पूर्वोक्तं पाणिनिश्चाप्यनुवदति विरोधे/पि कल्प्यो विकल्पः ॥

      वार्तिककारः कात्यायनः पाणिनिसूत्रोक्तिषु परिष्कारं विदधाति। तथैव भाष्यकारः पतञ्जलिः सूत्रकार-वार्त्तिककारयोः उभयोः अपि उक्तिषु परिष्कारं निर्दिशति। लोकव्यवहारमेव प्रमाणं स्वीकृत्य वार्त्तिककार-भाष्यकारौ एवं कुरुतः। सूत्रकारः स्वयम् अपि पूर्वेषां मतानि उद्धृत्य अङ्गीकरोति। मुनित्रयस्य रीतिमेव चन्द्र-भोजादयः अनुवर्तयन्ति। अतः तेषाम् उक्तिषु अपाणिनीयत्वम् आरोप्य तिरस्करणं बालिशमेव इत्येव नारायणभट्टस्य सुचिन्तितं युक्तिसहं मतम्।
उपसंहारः
     नारायणभट्टः दीर्घदर्शितया समीक्षात्मकबुद्ध्या विशालचिन्तया च संस्कृतस्य पोषणाय प्रक्रियासर्वस्वम् इति व्याकरणग्रन्थं रचितवान्। अभिनन्दनीयः तस्य प्रयासः। केवलं मासद्वयेन रचिते अस्मिन् व्याकरणग्रन्थे यावन्तः शब्दाः अनुशिष्टाः तावन्तः अन्यस्मिन् कस्मिन् अपि व्याकरणग्रन्थे न सन्ति। दैनन्दिनव्यवहाराय संस्कृतस्य प्रयोगे केन अपि कारणेन त्रुटिः अभूत्। अतः अस्माकं प्राचीनेषु ग्रन्थेषु विद्यमानान् व्याकरणग्रन्थेषु पठितान् बहून् शब्दान्  अर्थतः वयं न अवगच्छामः। यदि प्रक्रियासर्वस्वं पठिष्यामः तर्हि बहूनां तादृशानां शाब्दानां ज्ञानं सुलभं भविष्यति ।दैनन्दिनव्यवहारे पुनरुज्जीवितां संस्कृतभाषां प्रचारयतां संस्कृतानुरागिणाम् अयं ग्रन्थः सहायः भविष्यति। प्रक्रियासर्वस्वात् सन्दर्भोचितानि त्रीणि पद्यानि अधः दीयन्ते --

न किञ्चिदत्र स्वकपोलकल्पितंलिखामि शास्त्रे क्वचिदीक्षितं विना।
अनेकधा यत्र पुराविदां मतंमनोहरं तत्र परं ग्रहीष्यते॥

वृत्तौ नानाप्रमादा विवृतिषु कथिता माधवाद्यैश्च सर्व-
व्यास्वाख्यायि दोषो बहुलमघटितं प्रक्रियाकाव्यपङ्क्तौ।
नाम व्याख्यास्वनन्तं किल तदिह महाकोविदैरप्यवर्ज्या
विभ्रान्तिश्चेत्  कृशाभ्यासिनि कृशधिषणे मादृशे किन्नु वाच्यम्॥
 स्वनिर्मितत्वप्रणयावकुण्ठितःस्वकाव्यदोषं न बुधो/पि बुध्यते ।
              अतो/त्र सूरीन् । ॥
                   ॥  शुभम् ॥

Monday, 26 June 2017

“मनोगतम्” [33] ‘मन की बात’ [33]
 (प्रसारण-तिथि: 25.06.2017)     

[“मनोगतम्” - इति “मन की बात”-कार्यक्रमस्य द्वितीयः  संस्कृत-भाषिकानुवादः ]
                                 -   संस्कृत-भाषान्तर-कर्ता -                                                     
                                                              -  डॉ.बलदेवानन्द-सागरः

  
 
मम प्रियाः देश-वासिनः ! नमस्कारः |
 ऋतुः परिवर्तते | अस्मिन् वर्षे निदाघस्य तापः अपि अधिकः आसीत् | परञ्च सुखदम् इदं वृत्तं  यत् वर्षर्तुः काले एव सम्प्राप्तः | देशस्य अनेकेषु स्थानेषु मूसलाधार-वृष्टि-कारणात् सुदिनानि सञ्जातानि | वर्षायाः अनन्तरं प्रवहमानैः शीतलैः मन्द-समीरैः विगत-दिनानां आतापात् मुक्तिः अनुभूयते | अस्माभिः सर्वैः अपि अनुभूतं यत् जीवने कियती अपि व्यग्रता भवेत्, कियती अपि आततिः स्यात्, भवतु नाम वैयक्तिकं जीवनं वा सार्वजनिकम् - वर्षायाः आगमनं हि अस्मदीयां मनसः स्थितिम् अपि परिवर्तयति |
अद्यत्वे भगवतः जगन्नाथस्य रथयात्रा-समुत्सवः देशस्य नाना-भागेषु राष्ट्रवासिनः सोल्लासं सश्रद्धञ्च समायोजयन्ति | साम्प्रतन्तु जगतः अपि केषुचित् स्थानेषु भगवतः जगन्नाथस्य रथयात्रा-महोत्सवः आमान्यते | अपि च, भगवता जगन्नाथेन साकमेव राष्ट्रस्य निर्धन-जनः  संयुक्तोsस्ति | ये जनाः डॉ.बाबा-साहेब-अम्बेडकरस्य जीवनम् अधीतवन्तः, ते नूनम् अनुभूतवन्तः यत् सः भगवतः जगन्नाथस्य मन्दिरं एतद्-विषयिणीः परम्पराः च अतितरां प्रशंसति स्म | यतो हि अत्र सामाजिक-न्यायः, सामाजिकी च समरसता अन्तर्निहिते स्तः | वस्तुतस्तु भगवान् जगन्नाथः निर्धनानां देवता | तथा च, आङ्ग्ल-भाषायाम् एकः शब्दः अस्ति - juggernaut | मन्ये, न्यूनाः एव अवगताः स्युः यत् अस्य अर्थः भवति- एतादृशः भव्यः रथः यस्य गतिः अप्रतिहता भवति, न कश्चन अपि एनम् अवरोद्धुं पारयति | juggernaut इति शब्दस्य शब्दकोशीयेन अर्थेण अपि ज्ञायते यत् जगन्नाथस्य रथ-साम्यत्वेन juggernaut इति शब्दः समुद्भूतः | अत एव वयम् अवगन्तुं शक्नुमः यत् भगवतः जगन्नाथस्य यात्रैषा अशेष-संसारेण स्व-स्व-प्रकारेण कियता महता माहात्म्येन स्वीक्रियते | भगवतो जगन्नाथस्य रथयात्रायाः शुभेsस्मिन् अवसरे सर्वेभ्योsपि राष्ट्रवासिभ्यः शुभ-कामनाः वितरामि, भगवतो जगन्नाथस्य श्रीचरणेषु अपि प्रणामाञ्जलीन् निवेदयामि |
     अस्ति भारतस्य विविधता हि अस्य विशेषता | भारतस्य विविधता चास्ति भारतस्य शक्तिरपि | रमज़ानस्य पवित्रमासः पवित्र-भावैः प्रार्थनाभिः च सर्वैः समाचरितः | सम्प्रति वर्तते ईद्-पर्व | ईद्-उल्-फ़ितर्-पर्वणः अवसरे मम पक्षतः सर्वेभ्यः भूरिशः मङ्गल-कामनाः | रमज़ान-मासः पुण्य-दानस्य मासत्वेन ख्याप्यते, प्रसन्नतायाः वितरणस्य मासः अस्ति, यावन्-मात्रिकं प्रसन्नता-वितरणं भवति, तावन्त्यः प्रसन्नताः विवर्धन्ते | आगच्छन्तु, वयं सर्वे मिलित्वा एतेभ्यः पवित्र-समुत्सवेभ्यः प्रेरणाम् आदाय प्रसन्नता-प्रवाहान् वितरेम, देशञ्च अग्रेसारयेम  !!
रमज़ानस्य पवित्र-मासावधौ उत्तर-प्रदेशस्य बिजनौरस्य मुबारकपुर-ग्रामस्य एका महती प्रेरिका घटना मम दृष्टिपथमागता | प्रायेण सार्ध-त्रि-सहस्रं अस्मदीयाः मुस्लिम-समुदायस्य भगिन्यः भ्रातरः चात्र लघु-ग्रामे निवसन्ति, अत्र आधिक्येन मुस्लिम-समुदायस्य जनाः वर्तन्ते | रमज़ान-मासावधौ ग्रामवासिनः मिलित्वा शौचालयानां निर्माणार्थं निर्णीतवन्तः | अपि च, वैयक्तिक-शौचालयानां निर्माणार्थं सर्वकार-पक्षतः अपि साहाय्यं प्रदीयते | एतेभ्यः ग्रामवासिभ्यः प्रायेण सप्त-दश-लक्ष-रूप्यकाणि साहाय्य-रूपेण प्रदत्तानि | एतद् ज्ञात्वा भवन्तः सुखदम् आश्चर्यम् आनन्दं चापि अनुभविष्यन्ति | अस्मदीयाः सर्वेsपि मुस्लिम-भ्रातरः भगिन्यः च, रमज़ान-मासावधौ सर्वकाराय तां सप्तदश-लक्ष-रूप्यकात्मिकां राशिं परावर्तितवन्तः | अपि च, ते एवम् उक्तवन्तः यत् वयं स्वश्रमेण स्वीय-रूप्यकैः एव निज-शौचालयान् निर्मास्यामः | सप्त-दश-लक्ष-रूप्यकात्मिका एषा राशिः ग्रामस्य अन्य-सौविध्यार्थम् उपयुक्तः स्यात् | रमज़ानस्य पवित्रावसरः समाजस्य लाभार्थं उपयुक्तः इति कृत्वा अहं मुबारकपुरस्य सर्वान् अपि ग्रामवासिनः अभिनन्दामि | तेषां प्रत्येकमपि निर्णयः अतितरां प्रेरकः अस्ति | अपि च, सर्वतोsधिकतरम् अवधेयमिदं यत् तैः मुबारकपुरम् अनावृत-शौचाचरणात् मुक्तं विहितम् | वयं जानीमः यत् सिक्किम-हिमाचल-केरळ-इति राज्य-त्रयं पूर्वतः एव अनावृत-शौचाचरणात् मुक्तं घोषितम् | सप्ताहेsस्मिन् उत्तराखण्ड-हरियाणा-इति राज्य-द्वयमपि ODF- इति अनावृत-शौचाचरणात् मुक्तं घोषितम् | एतत्-कार्य-पूर्त्यर्थम् अहम् एतेषां पञ्चानां राज्यानां प्रशासनाय, शासनाय, विशेषेण च, जनता-जनार्दनाय साधुवादान् व्याहरामि |
वयं संयुक्तया जानीमः - व्यक्तेः जीवने, समाजस्य जीवने च यत् किमपि समुचितं करणीयम् अस्ति चेत्, अतितरां कठोरः परिश्रमः करणीयो भवति | यदि अस्माकं हस्त-लेखः सम्यक् नास्ति, स च सम्यक् करणीयः चेत् तदा सुदीर्घ-कालं यावत् अतितराम् अवधानतया प्रयतनीयं भवति | तदनु एव, शरीरस्य मनसः च अभ्यासः परिवर्तते | स्वच्छतायाः विषयोsपि एतादृशः एवास्ति | कानिचित् व्यसनानि अस्मदीय-स्वभावस्य अङ्गरूपाणि सञ्जातानि | एतानि अस्मदीयाचरणस्य अङ्गत्वेन वर्तन्ते | एतानि अपसारयितुम् अविरतं अस्माभिः नूनं प्रयतनीयम् | वारं वारं एतद्विषयकं स्मरणमपि करणीयम् | प्रत्येकमपि जनस्य ध्यानाकर्षणमपि विधेयम् | समीचीनानां प्रेरिकाणां च घटनानां पौनःपुनिकं स्मरणमपि करणीयम् | तथा च, प्रसीदामितराम् यत् अद्यत्वे स्वच्छता-विषयः सर्वकारीय-कार्यक्रमत्वेन एव नैव प्रवर्तते | अयं तु जन-सामान्यस्य जन-समाजस्य च आन्दोलनत्वेन सततं परिणमते | शासनारूढाः जनाः अपि यदा जन-सह-भागितया कार्यमेनत् अग्रेसारयन्ति, तदा अतुलनीया शक्तिः विवर्धते |
विगतेषु दिनेषु एका उत्तमा घटना मम ध्याने उपस्थिता यामहं भवतां समक्षं नूनं वर्णयिष्यामि | एषास्ति घटना आन्ध्रप्रदेशस्य विजयनगरम्-जनपदस्य | तत्रत्य-प्रशासनेन जन-सह-भागितायाः बृहदेकं कार्यं आरब्धम् | मार्च-मासे दश-दिनाङ्कात् प्रातः षड्-वादनात् आरभ्य चतुर्दश-दिने प्रातः दशवादनं यावत् अर्थात् शत-होरावधिं यावत् अनारतम् अभियानम् | लक्ष्यं किमासीत् ? शत-होरावधौ एक-सप्ततौ ग्राम-पञ्चायतेषु दश-सहस्रं गृहाभ्यन्तरीणानां शौचालयानां निर्माणम् |
अयि भोः मम प्रियाः देशवासिनः ! वृत्तमेनत् ज्ञात्वा भवन्तः प्रसन्नाः भविष्यन्ति यत् जनता-जनार्दनेन शासनेन च सम्भूय शतं होरासु दश-सहस्रं शौचालयानां निर्माणं सफलतया पूर्णतामानीतम् | एक-सप्ततिः ग्रामाः ODF- इति अनावृत-शौचाचरणात् मुक्ताः जाताः | अहं शासनाधिरूढान्  शासनिकाधिकारिणः विजयानगरम्-जनपदस्य एतान् ग्राम-नागरिकान् च भूरिशः वर्धापयामि यत् ते परिश्रम-पराकाष्ठां स्वीकृत्य उत्तमं प्रेरकोदाहरणम् उपस्थापितवन्तः |
एतेषु दिनेषु ‘मन की बात’ इति कार्यक्रमे सततम् अहं जनता-जनार्दनस्य पक्षतः परामर्शान् अवाप्नोमि | एते च, NarendraModiApp- इत्यत्र  MyGov.in- इत्यत्र पत्राणां माध्यमेन, आकाशवाणीतः चाधिगम्यन्ते |
श्रीमान् प्रकाश-त्रिपाठी आपातकालं स्मारयन् अलिखत् यत् जून-मासीयं पञ्च-विन्शतितमं दिनं लोकतन्त्रस्य इतिहासे कालुष्य-पूर्ण-काल-खण्ड-रूपेण वर्तते | श्रीप्रकाश-त्रिपाठिनः लोकतन्त्रं प्रति एषा जागृतिः प्रशंसनीया वर्तते | लोकतन्त्रं न केवलम् एका व्यवस्था, एतच्च संस्कारत्वेन अपि विराजते | Eternal Vigilance is the Price of Liberty - लोकतन्त्रं प्रति अनारतम् अवधानता नितराम् आवश्यकी अत एव लोकतन्त्रस्य आघातकराणि तथ्यानि अपि स्मरणीयानि, तथा च, अस्माभिः लोकतन्त्रस्य समीचीन-तथ्यान्वितायां दिशि अग्रेसर्तव्यम् | विगते शताब्दे पञ्चसप्तति-तमे वर्षे जूनमासे पञ्च-विन्शतितमा रात्रिः तादृशी कालुष्यपूर्णा आसीत्, यां न कश्चन अपि लोकतन्त्र-प्रेमी विस्मर्तुं शक्नोति | न कश्चन भारतवासी एनां विस्मर्तुं पारयति | एकप्रकारेण अशेष-देशः कारागृहत्वेन परिवर्तितः आसीत् | विरोधि-स्वरः दमितः | जय-प्रकाश-नारायणेन सह राष्ट्रस्य गण-मान्याः नेतारः कारासु बन्दिनो विहिताः | न्याय-व्यवस्था अपि आपातकालस्य भीकर-रूपस्य छायया आच्छादिता आसीत् | वार्तापत्राणि तु पूर्णरूपेण प्रतिबद्धानि आसन् | पत्रकारिता-जगतः विद्यार्थिनः, लोकतन्त्रस्य कर्मकराः च लोकतन्त्रस्य तं कालुष्यपूर्णं कालखण्डं स्मरन्तः लोकतन्त्रं प्रति अवधान-संवर्धनाय सततं प्रयासान् अनुतिष्ठन्तः आसन् | अपि चैतद् नूनं करणीयम् | तदा अटल-बिहारि-वाजपेयि-वर्यः अपि कारायां पिहितः आसीत् | यदा वर्षावधिकः कालः यापितः तदा तेन कारायामेव एका कविता लिखिता, अस्यां कवितायां तेन तत्कालीना मनःस्थितिः वर्णीता अस्ति -   
झुलसाता जेठ मास,
शरद चाँदनी उदास,
झुलसाता जेठ मास,
शरद चाँदनी उदास,

सिसकी भरते सावन का,
अंतर्घट रीत गया,
एक बरस बीत गया,
एक बरस बीत गया ||

सीखचों में सिमटा जग,
किंतु विकल प्राण विहग,
सीखचों में सिमटा जग,
किंतु विकल प्राण विहग,

धरती से अम्बर तक,
धरती से अम्बर तक,
गूंज मुक्ति गीत गया,
एक बरस बीत गया,
एक बरस बीत गया ||


पथ निहारते नयन,
गिनते दिन पल-छिन,
पथ निहारते नयन,
गिनते दिन पल-छिन,
लौट कभी आएगा,
लौट कभी आएगा,
मन का जो मीत गया,
एक बरस बीत गया ||
लोकतन्त्रस्य प्रेमिणः कठिन-तरं युद्धं सम्मुखीकृतवन्तः | भारतं नाम विशालं राष्ट्रम्, प्राप्ते सति काले भारतस्य प्रत्येकमपि जनस्य चेतसि लोकतन्त्रं कियत् व्यापकं विराजते - इति निर्वाचन-माध्यमेन सा लोक-शक्तिः प्रदर्शितास्ति | प्रत्येकमपि जनस्य चेतसि परिव्याप्तस्य अस्य लोकतन्त्रस्य भावः अस्मदीयः अमृतः रिक्थः वर्तते | अस्माभिः  रिक्थोsयम् इतः परमपि दृढतरः करणीयः | 
        मम प्रिया देशवासिनः ! प्रत्येकमपि भारतीयः अद्यत्वे शिरान्सि उन्नमय्य गौरवम् अनुभवति | वर्षेsस्मिन् जून-मासे एकविन्शतितमे दिने सम्पूर्णमपि विश्वं योगमयं जातम् | जलतः पर्वत-पर्यन्तं जनाः प्रभाते एव योगाभ्यास-माध्यमेन भगवतः सूर्यस्य किरणानां स्वागतम् अकुर्वन् | कश्चन नाम वा भारतीयः भवेत् यो एतद्विषये नूनं गौरवमनुभवेत् | एवं नास्ति यत् योगाचरणं पूर्वमपि न क्रियते स्म | परन्तु अद्यत्वे यदा योगसूत्रेण बद्धाः स्मः, योगः विश्वं संयोजयितुं कारणत्वेन विराजते | विश्वस्य प्रायेण सर्वेsपि देशाः योगस्य अवसरमेनं स्वीयावसर-रूपेण स्वीकृतवन्तः | चीन-देशे The Great Wall of China - इत्यत्र जनाः योगाभ्यासम् अकुर्वन् | अपरत्र, Peru-देशे World Heritage Site- इति  माचू-पिच्चू-स्थले यद्धि समुद्र-तलात् चतुःचत्वारिन्शत्-शत-मीटर-मितेन ऊच्चैः वर्तते, तत्रापि जनाः योगाभ्यासम् अकुर्वन् | फ़्रांस-देशे  एफिल-टॉवर-इत्यत्स्य छायायां जनाः योगमाचरितवन्तः | UAE-इत्यत्र Abu Dhabi-नगरे चतुःसहस्राधिकाः जनाः सामूहिक-योगमाचरितवन्तः I अफगानिस्ताने  हेरात-स्थले India Afghan Friendship Dam- इति सलमा-जलावष्टम्भे योगाभ्यासं  कृत्वा जनाः भारतस्य सख्याय अभिनवम् आयामं प्रादुः | सिंगापुर-सदृशे लघुनि  स्थाने सप्तत्यधिकेषु स्थलेषु कार्यक्रमाः अभूवन्, अपि च, ते सप्ताहावधिकम् अभियानमेकं प्रवर्तितवन्तः | संयुक्त-राष्ट्र-संघेन अन्ताराष्ट्रिय-योग-दिवसम् आलक्ष्य दश प्रैष-मुद्राङ्काः प्रसारिताः | संयुक्त-राष्ट्र-संघस्य मुख्यालयेषु   Yoga Session with Yoga Masters- इति कार्यक्रमः आयोजितः | संयुक्त-राष्ट्र-संघस्य अधिकारिणः, कार्मिकाः, अशेष-जगतः कूटनीतिज्ञाः चेति सर्वेsपि अत्र सहभागित्वं निरवहन् |
       साम्प्रतं पुनरेकवारं योगेन विश्वस्य आभिलेख्यमपि अर्जितम् | गुजराते अमदावादे प्रायेण पञ्च-पञ्चाशत्-सहस्रं जनाः युगपदेव योगाभ्यासं कृत्वा अभिनवं विश्व-कीर्तिमानं विरचितवन्तः | अहमपि लखनऊ-नगरे योग-कार्यक्रमे सहभागित्वस्य अवसरं प्राप्तवान्, परञ्च, प्रथमवारं वर्षायां योगाभ्यासस्य सद्भाग्यं प्राप्तम् | अस्माकं सैनिकाः सियाचिन्-पर्वत-शिखरे यत्र विंशति-पञ्चविंशति-चत्वारिंशत्-डीग्रीमितं न्यूनं तापमानं भवति, तत्र योगाभ्यासं कृतवन्तः | अस्मदीयाः सशस्त्र-बलस्य, सीम-सुरक्षा-बलस्य, ITBP-बलस्य, केन्द्रीयारक्षितारक्षि-बलस्य, CISF-इति बलस्य चेति प्रत्येकमपि स्वीय-कर्तव्येन सहैव योगाभ्यासं स्वीयाङ्गत्वेन अङ्गीकृतवत् | एतद्-योग-दिवसावसरे अहम् उक्तवान् यत् संतति-त्रयम्, यतो हि तृतीयोsयम् अन्ताराष्ट्रिय-योग-वर्षीय-दिवसः, अतः कुटुम्बस्य सन्तति-त्रयं युगपदेव योगाभ्यासं कुर्वदेव तच्चित्रं प्रेषयेत् | काश्चन दृश्य-वाहिकाः अपि तथ्यमेनत् प्रचारितवत्यः | अवसरेsस्मिन् अनेकानि चित्राणि मया लब्धानि, तेषु कानिचन चितानि चित्राणि NarendraModiApp- इत्यत्र संयोजितानि सन्ति | येन प्रकारेण अशेष-जगति योगः परिचर्च्यते, तस्मात् एकं लाभकरं तथ्यमेतत् समुद्भवति यत् अद्यतनः स्वास्थ्य-जागरूक-समाजः समीचीनतातः अनारोग्यतां प्रति अग्रेसरति | ते इदम् अनुभवन्ति यत् समीचीनतायाः महत्त्वं तु अस्त्येव, परञ्च, अनारोग्यतायाः कृते योगः उत्तमः मार्गः अस्ति |
   “आदरणीय ! प्रधानमन्त्रि-महोदय ! अहं डॉ.अनिल-सोनारा, अमदवादतः वदामि | महोदय ! मम जिज्ञासा वर्तते | नातिचिरं केरळे वयं भवन्तं श्रुतवन्तः | विभिन्नेषु स्थलेषु उपहारत्वेन पुष्प-गुच्छाः प्रदीयन्ते | एतत्-स्थाने अस्माभिः स्मृति-उपहारत्वेन पुस्तकानि प्रदेयानि | एतद्विषयकः शुभारम्भः भवान् गुजराते निज-कार्यकाले विहितवान् | साम्प्रतं नैतत् अस्माभिः दृश्यते | so can we do something  ? किं वयं सन्दर्भे अस्मिन् किमपि कर्तुं पारयेम ? येन देश-व्यापिना स्तरेण अस्य कार्यान्वयनं स्यात् |”
       विगतेषु दिनेषु अहं मम प्रियतमेषु अन्यतमे कार्यक्रमे सहभागित्वस्य अवसरं लब्धवान् | केरळे सुष्ठु-कार्यक्रमः प्रचलति | कतिपय-वर्षेभ्यः श्री-पी-एन्-पण्णिकर-प्रतिष्ठानेन कार्यक्रमोsयं प्रचाल्यते यस्मिन् जनानां पठनाभ्यासः स्याद्, जनाः पठनं प्रति जागरूकाः स्युः चेति कृत्वा reading day, reading month- इत्युत्सवः आयोज्यते | अस्य कार्यक्रमस्य शुभारम्भार्थम्  अहं तत्र गतवान् | तत्र मह्यम् एतत् सूचितं यत् ते पुष्प-गुच्छं नैव परञ्च पुस्तकं ददति | मह्यम् इदं रोचते स्म | मया यत् विस्मारितमासीत्,   झटिति तत् पुनः स्मरणाधीनं जातम् | यतो हि, यदा अहं गुजराते आसम्, तदा मया प्रशासने एका परम्परा प्रवर्तिता आसीत् यत् वयं पुष्प-गुच्छं नैव, पुस्तकानि दास्यामः, आहोस्वित् करवस्त्रेण स्वागतं करिष्यामः | अपि च खादी-करवस्त्रेण एव, येन खादी-वस्त्राणां संवर्धनं स्यात् | यावत्पर्यन्तं गुजराते आसम्, अस्माकं सर्वेषां अभ्यासः जातः, परम्, अत्रागमनस्य अनन्तरं सः अभ्यासः अपगतः | किन्तु केरळ-गमनेन सः अभ्यासः पुनः जागृतः तथा च, अहं तु प्रशासने पुनः एतत् सूचयितुम् आरभम् | वयमपि शनैः शनैः तादृशं स्वभावं विकासयितुं शक्नुमः | तथा च, पुष्प-गुच्छस्य आयुः तु अत्यल्पं भवति | एकवारं स्वीकृत्य परित्यजामः | परन्तु, पुस्तकं दीयते चेत् तत्तु गृहस्य कुटुम्बस्य च   अङ्गत्वेन परिभाव्यते | खादी-कर-वस्त्र-प्रदानेन अपि अनेकेषां निर्धनानां साहाय्यं भवति | व्ययः अपि न्यूनः भवति, समुचित-रूपेण तस्य उपयोगो भवति | यदा एतत् अहं वर्णयामि तदा संस्मरामि यत् एतादृश-व्यवहारस्य बहुमात्रिकम् ऐतिहासिकं महत्वं भवति | गते वर्षे यदा अहं UK-देशं गतवान् तदा London-नगरे Britain-साम्राज्ञी, Queen Elizabeth मां निमन्त्रितवती | तत्र मातृ-सहजः परिवेशः आसीत् | आत्मीय-प्रेम्णा सा भोजनमपि कारितवती, परञ्च अनन्तरं सा मां सादरं अतितरां भावात्मक-स्वरेण सूत्रैः ग्रथितं लघु  खादी-करवस्त्रं दर्शितवती, तदा तस्याः नयनयोः अलौकिकं  ज्योतिः व्यराजत, सा उक्तवती यत् यदा मम विवाहः सञ्जातः तदा एतत् कर-वस्त्रं महात्म-गान्धी मङ्गल-कामना-उपहारत्वेन मह्यं प्रेषितवान् | कति वर्षाणि व्यतीतानि ? परञ्च, Queen Elizabeth-महाभागया   महात्म-गान्धिना प्रदत्तम् एतत् handkerchief-इति कर-वस्त्रं सम्भालितमस्ति | तथा च, सा मां दर्शयन्ती अस्ति- इति कृत्वा सा आनन्द-सन्दोहं अनुभवति स्म | अपि च, यदा अहं तत् पश्यन् आसं तदा सा साग्रहं माम् उक्तवती यत् स्पृष्ट्वा एतत् अनुभवेयम् | महात्म-गान्धिना प्रदत्तः अल्पीयान् अपि उपहारः तस्याः जीवनस्य अङ्गत्वेन अजायत, तस्याः इतिवृत्तस्य अविभाज्यः भागः अभवत् |    

         अहं विश्वसिमि यत् एताः कुरीतयः सहसा नैव परिवर्तन्ते | तथा च, यदा हि वयम् एतादृशं किमपि आलपामः, जनाः आलोचनामपि कुर्वन्ति | एवं संजायमाने सत्यपि तथ्ये, अस्माभिः सततं प्रयतनीयम् | कुत्रचित् गच्छामि, तत्र कश्चन पुष्पगुच्छम् उपाहरति चेत् तस्य प्रतिषेधं नैव करिष्यामि, परञ्च परिष्कारार्थं तु सततं प्रयतिष्यामहे |
    मम प्रियाः देशवासिनः ! प्रधानमन्त्रिणः दायित्व-कारणात् अनेक-प्रकारकाणि कार्याणि मया करणीयानि भवन्ति | पञ्जिकासु मग्नाः भवामः, परञ्च, अहं स्वस्मै अभ्यासमेकं विकासितवान् यत् मम कृते यानि पत्राणि लभ्यन्ते तेषु कानिचित् अहं प्रतिदिनं पठामि | एवं हि अहं सामान्य-जनैः सह संपृक्तो भवामि | अनेक-प्रकारकाणि भवन्ति एतानि पत्राणि | पृथक्-पृथक् जनाः एतानि पत्राणि लिखन्ति | एतेषु दिनेषु एकं तादृशं पत्रं पठितुम् अवसरं लब्धवान् यत् अवश्यं मया तद्विषये भवतां समक्षं विवर्णनीयम् | दूरे सुदूरे दक्षिण-प्रदेशे तमिलनाडु-राज्ये स्थितस्य मदुराई-नगरस्य एका गृहिणी अरुल-मोझी-सर्वनन् मह्यं पत्रमेकं प्राहिणोत् | सा अलिखत् यत् कुटुम्बस्य बालानां शिक्षणार्थं मया किञ्चित् आर्थिक-कार्य-जातं विधातुं विचारितम् | अतः मया ‘मुद्रा-योजना’-माध्यमेन बैङ्कात् किञ्चित् धनम् आदत्तम्, विपणीतः च, सामग्रीम् आनीय आपूर्ति-कार्यम् आरब्धम् | एतादृश्यां स्थितौ मया अवगतं यत् सर्वकारः Government E-Marketplace- इत्याख्यां काञ्चित् व्यवस्थां प्रावर्तयत् | मया अन्विष्टम् यत् किमेतत् ? केचन जनाः मया पृष्टाः| तदनु अहम् आत्मानं तत्र पञ्जीकारितवती |
      अहं देशवासिनः सूचयितुं इच्छामि  यत् भवन्तः अपि लब्धे सति अवसरे Internet- इति अन्तर्जाले E-GEM - इत्यत्र अवलोकयन्तु | एषा नूतना लाभप्रदायिनी व्यवस्था वर्तते | यः कश्चन प्रशासनाय किमपि वस्तु-जातम् आपूरयितुं वाञ्छति, लघु-लघूनि वस्तूनि प्रेषयितुं इच्छति, यथा विद्युद्दीपान्, अवकर-कण्डोलिकाः, मार्जनीः, आसन्दिकाः, आधार-पटलानि च प्रेषयितुं वा विक्रेतुं वाञ्छति, सः अत्र स्वीय-पञ्जीकरणं कर्तुं शक्नोति | वस्तूनां गुणत्वं विलिख्य मूल्यादिकं निर्दिश्य च सूचयितुम् अर्हति | सर्वकारीय-विभागानां कृते एतत् अनिवार्यं वर्तते यत् ते नूनम् एतत् प्रेषितं सर्वं विवरणम् अवलोकयेयुः, अनन्तरं सर्वं सम्यक् अस्ति चेत् तद्वस्तु-प्रेषणाय आदेष्टव्यम् | एवंरीत्या ये मध्यस्थाः भवन्ति तेषामत्र हस्त-क्षेपो नैव भविता | सर्व-विधं पारदर्शित्वं समापन्नम् | प्रविधि-माध्यमेन एव सर्वं संजायते | अतः E-GEM- इति व्यवस्थायाः अन्तर्गतं ये जनाः पञ्जीकरणं कुर्वन्ति, तान् सर्वकारस्य सर्वे अपि विभागाः अवलोकयन्ति | मध्यस्थाः जनाः नैव भवन्ति इति कृत्वा वस्तूनि महार्घाणि नैव भवन्ति |  अधुना अरुल-मोझी-महाभागा सर्वकारस्य अन्तर्जाल-वाहिकां प्रति यां यां सामग्रीं प्रेषयितुं शक्नोति तासां सर्वासां पञ्जीकरणं विहितवती | तस्याः पत्रमिदम् अतितरां रुचिकरं वर्तते | सा अलिखत् यत् एकतः मया ‘मुद्रा’तः धनं लब्धम्, मम व्यापारः आरभत | E-GEM- इत्यस्याः अन्तर्गतं किं किम् अहं प्रेषयितुं प्रभवामि, तद्विषयिणी सूची स्थापिता, तथा च, PMO- इति प्रधानमन्त्रिणः कार्यालयात् आदेशः अवाप्तः |
         मम कृते अपि नवमिदं वृत्तमासीत् यत् PMO-इत्यनेन किम् आदिष्टम् | सा अलिखत् यत् PMO-इत्यनेन थर्मोस्-इति उष्णता-रक्षक-द्वयं क्रीतम्, तदर्थं षोडश-शतं रूप्यकाणि अपि मया लब्धानि | एतदस्ति - शक्ती-करणम् | एषः चास्ति उद्यमिनां प्रोत्साहनावसरः | यदि अरुल-मोझी मां पत्रं नैव अलिखिष्यत् तदा अहमपि एतदर्थं निध्यातुं नैव अपारयिष्यम् | एषा अस्ति देशस्य शक्तिः | अत्र पार-दर्शित्वमपि वर्तते, शक्तीकरणमपि उद्यमित्वमपि चास्ति |           
      मम प्रियाः देशवासिनः ! एकतः वयं योग-विषयकं गौरवम् अनुभवामः, अपरतः वयं अन्तरिक्ष-विज्ञाने अस्मदीयाः अधिगतोपलब्धीः अभिलक्ष्यापि गर्वम् अनुभवितुं शक्नुमः | इयमेवास्ति भारतस्य विशेषता | यदि अस्माकं पादौ योगाधृतौ भूमौ स्तः, अपरतः अस्मदीयानि स्वप्नानि  सुदूरे गगनस्य सीमानम् अतिक्रान्तुं वर्तन्ते |
      विगतेषु दिनेषु भारतेन क्रीडासु विज्ञाने चापि सुबहु अनुष्ठीय प्रदर्शितम् | अद्यत्वे भारतं न केवलं भूमौ, अन्तरिक्षे अपि स्वीयं ध्वजं उत्तोलयति |     दिवस-द्वय-पूर्वमेव ISRO-इति भारतीयान्तरिक्षानुसन्धान-संघटनेन  ‘Cartosat-2 Series Satellite’-इत्यनेन साकं त्रिन्शत् Nano-Satellites-यानानि प्रक्षिप्तानि | एतेषु उपग्रहेषु भारतमतिरिच्य  फ्राँस, जर्मनी, इटली, जापान, ब्रिटेन, अमेरिका-प्रभृतयः प्रायः चतुर्दश देशाः समाविष्टाः सन्ति | nano-उपग्रहाभियानेन कृषि-क्षेत्रे, कृषकाणां कार्येषु, प्राकृतिकापत्सु चापि महत्-साहाय्यम् अवाप्स्यते | प्रत्येकमपि भारतीयः एतद्-गौरवमपि अनुभवितुं शक्नोति यत् कतिपय-दिवसेभ्यः प्राक्, ISRO-इत्यनेन ‘G-SAT-19’-इत्यस्य सफ़लं प्रक्षेपणं विहितम् | अपि च, भारतेन अधुनावधि प्रक्षिप्तोपग्रहेषु सर्वाधिकं भारयुतं अवर्तत |  अस्माकं देशस्य वार्तापत्रैः तु अस्य भार-तुलना गज-भारेण सार्धं विहितासीत् | भवन्तः कल्पयितुं शक्नुवन्ति यत् अस्मदीयाः वैज्ञानिकाः अन्तरिक्षे कियत् बृहत् कार्यं कृतवन्तः इति |  जूनमासे ऊनत्रिंशति दिने ‘मार्स-मिशन’ इति कार्यक्रमस्य सहस्रं दिनानि पूर्णतां गतानि |  सहस्र-दिनानन्तरमपि अस्मदीयं मङ्गल-यानं कार्यं करोति, चित्राणि प्रेषयति, सूचनाः प्रेषयति, scientific data-इति वैज्ञानिक-विवरणं च प्राप्यते | इयं हि अन्तरिक्ष-क्षेत्रे अस्मदीया महत्वाधायिनी सिद्धिः वर्तते |
       एतेषु दिनेषु क्रीडासु अपि अस्मदीयानां यूनां प्रवृत्तिः रुचिश्च समेधेते इति वयं पश्यामः |
साम्प्रतं एतद् अवलोक्यते यत् अध्ययनेन सहैव क्रीडास्वपि अस्माकीनाः युवानः स्वीयं प्रशस्तं भविष्यत् परिभावयन्ति | तथा च, अस्माकं क्रीडकानां कारणात्, तेषां पुरुषार्थेण, तेषाञ्च सिद्धि-कारणात् राष्ट्रस्य नामापि कीर्ति-युतं भवति |  नातिचिरमेव, भारतस्य बैडमिंटन्-क्रीडकः किदाम्बी-श्रीकांतः   इंडोनेशिया-मुक्त-स्पर्धायां विजयश्रियं अवाप्य राष्ट्रस्य गौरवम् अवर्धयत् | अस्यै उपलब्ध्यै तं तस्य प्रशिक्षकाय च हृदयेन अभिनन्दामि | कतिपय-दिनेभ्यः प्राक्,  पी.टी.उषा-इति सुख्यातायाः धाविकायाः Usha School of Athletics- इत्यस्य Synthetic Track- उद्घाटन-समारोहे समुपस्थितेः अवसरः लब्धः | वयं क्रीडाः यावतीः विवर्धयिष्यामः तावन्तः एव क्रीडा-भावाः, तावत्यः स्पर्धा-भावनाः च विवर्धिष्यन्ते | क्रीडाः व्यक्तित्वस्य विकासार्थमपि अतितरां महत्वाधायिनीं भूमिकां निर्वहति | सर्व-विध-व्यक्तित्व-विकासाय खेलानां अतिमाहात्म्यं वर्तते | देशे प्रतिभानां किञ्चिदपि नैयून्यं नैव वर्तते | यदि अस्माकं कुटुम्बे अपि बालानाम् अभिरुचिः खेला-विषयिणी अस्ति चेत् तेभ्यः ताभ्यश्च नूनम् अवसराः प्रदेयाः | तान् ताश्च क्रीडा-क्षेत्रेभ्यः समाकृष्य कक्षेषु पिहित्वा पुस्तक-पठनाय च विवशीकरणं नैवास्ति समीचीनम् | ते ताश्च पठन्तु नाम, तस्मिन् क्षेत्रे अपि अग्रेसरन्ति चेत्, नूनम् अग्रेसरन्तु | परञ्च क्रीडासु तेषां सामर्थ्यम् अस्ति, अभिरुचिः वर्तते चेत् तदा, विद्यालयस्य, महाविद्यालयस्य, कुटुम्बस्य परिपार्श्व-वर्तिनः, सर्वे अपि जनाः तान् समर्थ्य प्रोत्साहयेयुः |  भाविनीनां Olympic-स्पर्धानां कृते प्रत्येकमपि जनेन स्वप्नायितुं शक्यते |
पुनरेकवारम्, मम प्रियाः देशवासिनः ! वर्षर्तुः, अनारतं उत्सवानां परिवेशः च परमार्थेन - एतत्-सर्वा कालखण्डस्य नूतना एव अनुभूतिः भवति | अहं पुनरेकवारं भवद्भ्यः सर्वेभ्यः मङ्गल-कामनाः व्याहरन् आगामि मनोगतम् इति ‘मन की बात’ इत्यस्य समये पुनः संभाषिष्ये | नमस्कारः !!!
                        “मन की बात” [३३] -प्रसारण-तिथि - २५-जून’२०१७ 
                      संस्कृत-भाषान्तरकर्ता
                         - डॉ.बलदेवानन्द सागर
                            Cell- 9810 5622 77                           
                  Email - baldevanand.sagar@gmail.com

Monday, 17 April 2017

Standard Article No: 20170417
 Dr. Abhilash J
शिक्षया विश्वहितम्     लेखनम्

विद्यया मृत्युं तीर्त्वा विद्यया अमृतमश्नुते इति वेदघोषः। सा विद्या एव प्रकृष्टा या मुक्तिं ददाति। उपनिषदनुसारेण परा अपरा इति विद्ये द्वे स्तः। यया विद्यया लैकिकं ज्ञानं जायते सा अपराविद्या। यया च अक्षरब्रह्मविषयकं ज्ञानं जायते सा परा विद्या। विद्या शब्दस्य अपरं नाम भवति शिक्षा इति।
 
     शिक्षायाः शाब्दिकार्थः- शिक्ष् विद्योपादाने इति धातोः निष्पन्नः शिक्षा शब्दः। यस्य च अर्थः भवति शिक्षणम् अध्ययनं वा। शिक्षायाः अर्थः भवति व्यक्तेः आन्तरिकशक्तेः बहिरानयनं अथवा अन्तस्थशक्तीनां बहिर्निष्क्रमणम्। पुनः शिक्षापदस्य निर्देशः, शिक्षणम्, प्रशिक्षणं, अनुशासनं, पालनपोषणं,संस्कृतिः इत्याद्यर्थाः च प्रतीयन्ते।

     शिक्षायाः व्यापकार्थः- शिक्षायाः व्यापकार्थे शिक्षा नाम आजीवनं प्रचलन्ती काचित् गतिशीला प्रक्रिया भवति। व्यापकार्थे शिक्षायाः कार्यं जीवनपर्यन्तं  प्रचलत् भवति। व्यक्तिः जन्मतः मृत्युपर्यन्तं किमपि किमपि शिक्षते। व्यक्तिः परिवारे , समाजे,बन्धुवर्गे, क्रीडोद्याने, आपणे, यात्रायां, उद्यानादिषु च क्रमशः शिक्षते। एवं शिक्षायाः क्षेत्रम् अतीव विस्तृतं भवति। आधुनिक शिक्षाशास्त्रिणां मते शिक्षा आगर्भात् चितापर्यन्तं प्रचलति इति।

     शिक्षायाः सड्कुचितार्थः- विद्यालये प्रदीयमाने शिक्षा इति अस्याः सड्कुचितार्थः। अस्यामभिप्रायः यत् बालकः निश्चितयोजनानुसारं, निश्चितसमयानुगुणं, निश्चितपाठ्यक्रमानुसारं,निश्चितोद्देश्यमाधारीकृत्य निश्चितविधिमाश्रित्य निश्चितेभ्यः अध्यापकेभ्यः शिक्षां प्राप्नोति। अत्र सर्वमपि पूर्वयोजनानुगुणं भवति।

     शिक्षायाः विश्लेषणात्मकः अर्थः- शिक्षायाः अर्थः विद्यालये प्रदीयमान ज्ञाने सीमिता न भवेत्, परं जन्मसमयादारभ्य मृत्युपर्यन्तं प्रचाल्यमाना क्रिया भवति। शिक्षा बालकस्य जन्मजातशक्तेः विकासार्थं भवति।

     शिक्षायाः वास्तविकार्थः- शिक्षायाः वास्तविकार्थः सर्वाड्गीणविकासः भवति। अर्थात् शिक्षा तादृशी एका प्रक्रिया भवति यया मनुष्यस्य जन्मजातशक्तीनां स्वाभाविकसामञ्जस्यपूर्णविकासः च प्रस्फुटितः भवति। सर्वाड्गीणविकासः इत्युक्ते शारीरिक, मानसिक,संवेगात्मक,सामाजिक,नैतिक,आध्यात्मिकश्च विकासः। एवं सर्वाड्गीणविकासयुक्तः छात्रः समाजस्य सदस्यरूपेण समाजं प्रति राष्ट्रं प्रति च स्वदायित्वस्य निर्वहणे समर्थः भवति। पुनः तस्य व्यवहार विचार आचारादीनां विषये मर्यादानुगुणं परिवर्तनं संभवति। तेन समाजस्य देशस्य तथा विश्वपरिवारस्य च हितं भवति।
--------------------------------

Sunday, 9 April 2017

Standard Article No: 20170409
“वैविध्य-समावेशिनी संस्कृत-पत्रकारिता” 
- बलदेवानन्द-सागरः 
   संस्कृत-पत्रकारितायाः वैविध्य-समावेश-स्वरूप-विषये विस्तरेण किमपि कथनात् प्राक् सुधी-पाठकानां पुरस्तात् एतत् स्पष्टीकर्तुं समीहे यत् लोके साम्प्रतं हिन्दी-भाषायाः आङ्ग्लभाषायाः वा अन्यासां प्रचलितानां भाषाणां पत्रकारिता-वैविध्यमिव संस्कृत-पत्रकारितायाः वैविध्य-समावेशः अपि तावता अवधानेन नैव परिचर्च्यते, परञ्च तथ्यमेतत् सूर्य-प्रकाशमिव सुद्योतितमेव यत् अधुनातनेsपि काले भारतस्य प्रायेण सर्वेष्वपि राज्येषु केषुचित् विदेशेष्वपि सुबहु-कालात् अनेक-विधाः वैविध्य-समावेश-स्वरूपान्विताः संस्कृत-पत्र-पत्रिकाः प्रकाश्यन्ते स्म प्रकाश्यन्ते च | 
एताः संस्कृत-पत्र-पत्रिकाः समीक्ष्य एवं वक्तुं शक्यते यत् आरम्भादेव संस्कृत-पत्रकारिता वैविध्य-समावेशिनी प्रावर्त्तत, अपि चैषा, इतः परमपि अधुनातन-जीवनस्य सर्व-विध-वृत्तान्त-समावेशिनी सती बुधानां विबुधानां सहृदयानां सुरभारती-समुपासकानां संस्कृतानुरागिणाञ्च चेतान्सि समाकर्षयिष्यति |

कदा प्रभृति आरब्धा एषा आधुनिकी संस्कृत-पत्रकारिता ? 
   साम्प्रतं प्रश्नोsयं समुदेति यत् विदुषां मतानुसारेण संस्कृत-पत्रकारितायाः शुभारम्भः कदा प्रभृति स्वीकर्तव्योsस्ति ? प्रामाणिक-समीक्षादृशा साम्प्रतं संस्कृत-पत्रकारितायाः वैविध्य-समावेश--विषये किमपि लिलेखिषुरहं न केवलं लेखकधिया, अपि तु विगतेभ्यः द्वाचत्वारिन्शद्वर्षेभ्यः आकाशवाण्याः वार्त्ता-सेवा-प्रभागे, द्वाविन्शत्संवत्सरेभ्यः च दूरदर्शने संस्कृत-वार्त्तानां सम्पादनानुवाद-प्रसारणैः अधिगत-दीर्घानुभवाधारेण वक्तुमुत्सहे यत् व्यवहारे लोक-जीवने च समधिक-प्रयोगाभावेsपि सुरभारती एषा सर्वदैव, साहित्ये वा दर्शने वा शिल्पे वा योगे वा नाट्ये वा आयुर्वेदे वा विविध-विज्ञानेषु वा पत्रकारितायां वा विविध-रूपा सती समावेशात्मिका सती अधिकाधिकानां मनःस्पन्दिनी सती चानारतं व्यराजत विराजते विराजिष्यते च | अत्रास्ति किमपि विशिष्टं कारणमिति परिभावयामि |

 संस्कृत-पत्रकारितायाः संक्षिप्तम् ऐतिह्यम् - 
   यथा अत्रभवद्भिः बहुधा श्रुतं स्यात् यत् -“भारतस्य प्रतिष्ठे द्वे संस्कृतं संस्कृतिस्तथा |” अतः यया रीत्या भारतीया संस्कृतिः वैविध्य-समावेशिनी वर्त्तते तद्वद् संस्कृत-पत्रकारितापि वैविध्य-समावेशिनी सती विजयते | यथैव हिन्दीभाषायाः पत्रकारितायाः आरम्भ-विषये किमपि लिख्यते तदा सर्वप्रथमं हिन्दी-भाषायाः प्रथम-पत्रं “उदन्त-मार्तण्ड”- [ १८२६ ई., सम्पादक- पं. जुगलकिशोर-शुकुल] इति नूनं सन्दर्भ्यते | तद्वद् विदांकुर्वन्तु अत्र भवन्तो भवन्तः यत् संस्कृत-पत्रकारितायाः सार्धैक-शत-वर्षीया सुदीर्घा यात्रैषा गत-ख्रिष्टीयवर्षे [१९१६] मे-मासान्ते पूर्णतां गता | इतः पूर्वं १८६६-तमे ख्रिष्टीय-वर्षे जून-मासे प्रथमे दिनाङ्के काशीतः “काशीविद्यासुधानिधिः” -इति मासिकं पत्रं प्रकाशितमासीत्| संस्कृत-पत्रकारितायाः इतिहासान्तर्गतं प्रकाशितस्य प्रथमस्य संस्कृत-मासिक-पत्रस्य अस्य अपरं नामासीत्– “पण्डित-पत्रिका |” साम्प्रतं विद्वद्भिः स्वीक्रियते यत् अस्मादेव कालात् वैविध्य-समावेशिन्याः आधुनिक-संस्कृत-पत्रकारितायाः शुभारम्भः परिगण्यते चेत् साधु !

   भारतस्य क्षेत्रीय-भाषाणां पत्रकारितायाः इतिहासाध्ययनेन प्रतीयते यत् क्षेत्रेsस्मिन् अनेकासां दैनिक-मासिक-पत्र-पत्रिकाणां राष्ट्रिय-स्वाधीनता-संग्रामे महत्त्वाधायि योगदानम् अवर्त्तत परञ्च केसरी-इति पत्रस्य तत्रान्तरे किमपि विशिष्टं महत्त्वमासीत् | तदा स्वाधीनता-संग्रामावसरे अनेकविधानां काठिन्यानां साम्मुख्यानन्तरं नामजोशी-वर्यस्य व्यावहारिक-कुशलता-पुरस्सरं १८८१-तमे ख्रिष्टीय-वर्षे जान्युआरि-मासे चतुर्थे दिने “केसरी”-इति मराठी-भाषिकस्य साप्ताहिक-पत्रस्य प्रकाशनं प्रतिभौमवासरम् आरब्धम् |

   यं विषयं सोद्देश्यं संकेतयामि सोsस्ति “केसरी”- इति मराठी-साप्ताहिक-पत्रस्य मुख-पृष्ठोपरि प्रकाश्यमानः पण्डितराज-जगन्नाथस्य “भामिनीविलास” इति-ग्रन्थस्य समुपयुक्तः संस्कृत-श्लोकः यो हि ‘केसरी’-पत्रस्य कार्योद्देश्यं द्योतयति | विष्णुशास्त्री-चिप्लूणकरेण चितः ‘केसरी’-मुखपृष्ठोपरि मुद्राङ्कितः श्लोकोsस्ति –
“स्थितिं नो रे दध्याः क्षणमपि मदान्धेक्षण-सखे !, 
गज-श्रेणीनाथ ! त्वमिह जटिलायां वनभुवि |
असौ कुम्भि-भ्रान्त्या खरनखरविद्रावित-महा-
गुरु-ग्राव-ग्रामः स्वपिति गिरिगर्भे हरिपतिः ||” 
   महतो हर्षस्य विषयोsयं यत् संस्कृत-पत्रकारिता स्वीय-आरम्भ-कालादेव वैविध्य-समावेशिनी सती प्राकाश्यम् आगमनात् प्रागेव [ ईस्वी. १८६६-तः प्रागेव ] भारतस्य क्षेत्रीय-भाषासु बीजरूपेण व्यवह्रियते स्म | ममेदं विनम्रं मन्तव्यं यत् तदानीन्तन्याः विविध-भाषाणां पत्रकारितायाः वार्त्ताहराः, पत्रकाराः, लेखकाः, सम्पादकाः, प्रकाशकाः च आधिक्येन संस्कृतज्ञाः संस्कृतानुरागिणः सन्तः संस्कृति-संस्कृतनिष्ठाः चासनम्, पत्रकारितायाः समर्पित-कार्यार्थं संस्कृतस्य समृद्धं साहित्यम् आश्रयन्ति स्म |

   तथ्यमेतत् सुस्पष्टं यत् भारतस्य स्वाधीनता-प्राप्त्यर्थं सामान्य-जनानां भाषासु सम्वादः विचार-सञ्चारः चावश्यकः आसीत् अत एव संख्यादृशा विभिन्नासु भारतीय-भाषासु अधिक-तराः, संस्कृत-भाषायां च न्यूनाः पत्रपत्रिकाः प्रकाशिताः अभूवन् | किन्तु भारतस्य सर्वेभ्योsपि राज्येभ्यः प्रकाश्यमानानां संस्कृत-पत्र-पत्रिकाणां विषयजातं संख्याबलञ्च सन्दर्भयामश्चेत् तदा कस्याश्चन क्षेत्रीय-भाषायाः आहोस्वित् राष्ट्रभाषायाः हिन्द्याः वा उर्दू-आङ्ग्लभाषयोः तुलनायां समग्रतया प्रकाश्यमानानां संस्कृत-पत्र-पत्रिकाणां संख्या अधिकतरा सिद्ध्यति | अनुसन्धानानुसारेण राष्ट्रस्य सर्व-विध-संस्कृत-पत्र-पत्रिकाणां संख्यैषा १२०-तः १३०-पर्यन्तं परिगणयितुं शक्यते |

    लघुकाये आलेखेsस्मिन् वैविध्य-समावेशिन्याः सार्धैक-शती-कालिकायाः संस्कृत-पत्रकारितायाः इतिवृत्तं विस्तरेण वर्णयितुं नैव शक्यते, परञ्च कासाञ्चन प्रमुखाणां संस्कृत-पत्र-पत्रिकाणाम् अध्ययनेन प्रतीयते यत् विविध-स्थानेभ्यः प्रकाशिताः प्रकाश्यमानाश्च एताः पत्रिकाः प्रामुख्येण द्विविधाः लभ्यन्ते | तयोरन्यतराः सन्ति शोध-पत्रिकाः यासु शोधलेखाः, प्राचीन-ग्रन्थाः, पाण्डु-लिपयश्च मुख्यतया प्रकाश्यन्ते स्म प्रकाश्यन्ते च | अपराः पत्रिकाः, सामान्यतया साप्ताहि- क्यः, पाक्षिक्यः, मासिक्यः, द्वैमासिक्यः, त्रैमासिक्यः, षाण्मासिक्यः, वार्षिक्यः, द्विवार्षिक्यश्च सन्ति यासु प्रायेण सर्वेषामपि विषयाणां सामग्री मुद्रिता विहिता विधीयते च | अत एव, “संस्कृत-पत्रकारिता वैविध्य-समावेशिनी” इति सुतरां सुसिद्ध्यति |

   साम्प्रतं पूर्वकालापेक्षया स्थितिः नितरां भिन्ना प्रतिभाति | प्रतीयते यत् संस्कृत-पत्रकारितायाः भविष्यत् उज्ज्वलमस्ति | आश्वस्ति-पुरस्सरं वक्तुं शक्यते यत् आसन्न-प्रायोsयं कालः यदा युवकाः युवत्यश्च आधिक्येन संस्कृतम् अध्येतुं भाषितुञ्च समीहितारः, अपि च, सामाजिक-संचार-माध्यमेषु इतरभाषापेक्षया संस्कृतविद्या अधिकाधिकं प्रयुक्ता भविता |  

स्वाधीनता-संग्रामावसरे संस्कृत-पत्रकारिता सर्वत्र बीजरूपेण सिद्धा -
   बीजरूपेण इतर-भाषा-पत्रकारितायां प्रवर्त्तमाना सती आधुनिक्यैषा संस्कृतपत्रकारिता स्वतन्त्रता-संग्रामस्य विशिष्टोपलब्धित्वेन ख्यापयितुं शक्यते | नवीनविचाराणां सूत्रपातं प्रवर्धयितुं राष्ट्रीयतां विवर्धयितुं चैषा अभूतपूर्वम् अमूल्यञ्च योगदानं व्यदधात् | अनुसन्धानानुसारेण तथ्य-मेतद् स्पष्टीभूतं यत् १८३२-तमे वर्षे बंगाल-एशियाटिक्-सोसाइटीति संस्थया अंग्रेजी-संस्कृत-भाषयोः एका द्विभाषिक-शोध-पत्रिका प्रकाशिता | अस्यां पत्रिकायां संस्कृत-साहित्यस्य अनुसन्धानपूर्णाः गवेषणात्मक-पुरातन-सामग्रीयुताः आलेखाः प्रकाश्यन्ते स्म | अनया पत्रिकया आङ्ग्लभाषा-ज्ञातारः साक्षराः संस्कृतज्ञाः कामपि अभिनवां चेतनामनुभूतवन्तः, अपि च, राष्ट्रं स्वभाषां साहित्यञ्च प्रति गौरवभावमधिगतवन्तः|

    यथापूर्वं लिखितं काशी-स्थितेन गवर्नमेन्ट-संस्कृत-कॉलेज्-इत्यनेन “काशी-विद्यासुधा-निधिः” अथवा “पण्डित-पत्रिका” नाम्नी मासिक-पत्रिका १८६६-तमे ख्रिष्टीय-वर्षे जून-मासे प्रथम-दिनाङ्कात् प्रकाशयितुमारब्धा | तदनु, काशीतः एव, १८६७-तमे ख्रिष्टीय-वर्षे “क्रमनन्दिनी”-नाम्नी पत्रिका प्रकाशिता जाता | विशुद्ध-संस्कृत-भाषया प्रकाश्यमाने इमे पत्रिके प्राचीनानां विविध-विषयाणां संस्कृत-ग्रन्थान् प्रकाशयतः स्म | अत्रेदमपि वक्तुं शक्यते यद् अनयोः पत्रिकयोः विशुद्ध-वार्त्तापत्राणां किञ्चिदपि लक्षणं नैवासीत् | तत्रान्तरे, वर्ष-चतुष्टयानन्तरं १८७२-तमे ख्रिष्टीय-वर्षे एप्रिल्-मासे लाहौरतः “विद्योदयः”- इति नवीन-सज्जा-युतं शुद्ध-वार्त्तापत्रमेकम् अवतारितम् | हृषीकेश-भट्टाचार्यस्य सम्पादकत्वे पत्रमेतत् संस्कृत-पत्रकारितायै अपूर्वं किमपि सम्बलं प्रादात् |ततः परं विद्योदयतः प्रेरणामादाय संस्कृत-भाषायाः अनेकाः नवीनाः पत्र-पत्रिकाः प्रकाश्यमागताः |

   बिहार-राज्यस्य प्रथमं संस्कृत-पत्रं १८७८-तमे ख्रिष्टीये वर्षे पटनातः प्रादुरभवत् | “विद्यार्थी”-नामकं मासिकपत्रमेतत् १८८०-वर्षे पटनातः नियत-कालिकं सत् प्राकाश्यमानीतम्, अनन्तरम् उदयपुरं सन्नीतम्, ततः पाक्षिक-संस्कृत-पत्ररूपेण एतत् प्रकाश्यते स्म | किञ्चित्-कालानन्तरं पत्रमिदं श्रीनाथद्वारा-तः प्रकाश्यते स्म | ततः परं एतत् हिन्दी-भाषायाः “हरिश्चन्द्र-चन्द्रिका” “मोहनचन्द्रिका” चेति पत्रिकाद्वयेन सम्भूय प्रकाशितं जातम् | संस्कृत-भाषायाः प्रप्रथमं पाक्षिक-पत्रमिदमासीत् यद्धि यथानाम विद्यार्थिनां हितानि विविधावश्यकताश्च आलक्ष्य सामग्री-जातं प्रकाशयति स्म | तत्कालीनः सुख्यातः संस्कृत-पत्रकारः पं.दामोदरशास्त्री अस्य पाक्षिक-पत्रस्य सम्पादकः आसीत् | अत एव सप्रमाणमिदं वक्तुं शक्यते यत् संस्कृत-पत्रकारिता वैविध्य-समावेशिनी सती सर्वदैव सर्वत्र च व्यराजत |

   १८८०-तमे वर्षे पटनातः एव मासिकं ‘धर्मनीति-तत्त्वम्’ आरब्धम्, परञ्च नास्य विषये काचित् विशिष्टा सूचना अवाप्यते, न चास्य कश्चन अङ्कोsपि लभ्यते |

   १८८४-तमे वर्षे ओक्टोबर-मासे सप्तदश-दिनाङ्कात् केरल-राज्यस्य कुन्नूर-तः ‘विज्ञान-चिन्तामणिः’- इति मासिकी पत्रिका प्राकाश्यमागाता | किञ्चित्-कालानन्तरं प्रचारातिरेक-कारणात् पत्रिकैषा पाक्षिकी, दशाह्निकी च सती अन्ततः साप्ताहिकी विहितासीत् | नीलकान्त-शास्त्रिणः सम्पादकत्वे पत्रिकेयं संस्कृत-पत्रकारितायाः विकासक्रमे अतितराम् उल्लेखनीया सिद्धा |

   संस्कृतस्य समृद्धि-प्रतिष्ठयोः शिक्षाप्रणाली-परिष्कारस्य च कृते पण्डित- अम्बिकादत्त-व्यासेन १८८७-तमे वर्षे स्थापिता संस्था ‘बिहार-संस्कृत-सञ्जीवन-समाजः’, संस्कृतस्य प्रचार-प्रसारार्थम् अनारतं प्रायतत | अस्याः संस्थायाः प्रथमोपवेशनं १८८७-तमे वर्षे एप्रिल्-मासे पञ्चमे दिनाङ्के सम्पन्नम्, यस्य च आध्यक्ष्यं पॉप्-जॉन्-बेन्जिन्-इत्यनेन निर्व्यूढम् | उपवेशनेs- स्मिन् विभिन्नेभ्यो राज्येभ्यः अनेके संस्कृतानुरागिणः तदानीन्तनाः पत्रकाराः, लेखकाः, कवयः, वार्त्ताहराश्च सहभागित्वं निर्वोढुं सम्प्राप्ताः आसन् | संस्था-सचिवः स्वयं पण्डित-अम्बिकादत्त- व्यासः एवासीत् | अमुना समाजेन १९४०-तमे वर्षे त्रैमासिकस्य ‘संस्कृत-सञ्जीवनम्’- इति पत्रस्य प्रकाशनमारब्धमासीत् | अत एव सप्रमाणमिदं वक्तुं शक्यते यत् संस्कृत-पत्रकारिता वैविध्य-समावेशिनी सती सर्वदैव सर्वत्र च व्यराजत |

   ऊनविन्श-शताब्द्याः अन्तिमे दशक-द्वये अनेकाः पृथग्विधाः संस्कृत-पत्रिकाः प्रकाशिताः जाताः | राष्ट्रिय-आन्दोलन-दृशा एतासु “संस्कृत-चन्द्रिका” “सहृदया” च विशिष्टं स्थानमावहतः स्म | पूर्वं कोलकोतातः कोल्हापुरतश्च प्रकाश्यमाना “संस्कृत-चन्द्रिका” अप्पाशास्त्रि- राशिवडेकरस्य सम्पादकत्वे दिगन्त-व्यापिनीं ख्यातिमार्जयत् | स्वीय-राजनैतिकानाम् आलेखानां प्रकाशन-कारणात् अप्पाशास्त्री नैकवारं कारावासेन दण्डितः आसीत् | संस्कृत-भाषायाः पोषणं, सम्वर्धनं, संस्कृत-भाषावित्सु उदार-मन्तव्याधानस्य प्रचारं, राष्ट्र-हितार्थं सुषुप्त-संस्कृतज्ञानां जागरणं चेत्यादि-लक्ष्याणि अवधार्य “सहृदया” राष्ट्रिय-आन्दोलने महत्त्वाधायिनीं भूमिकामावहत् |

   विन्श-शताब्द्याः आरम्भे लोकमान्यस्य बाल-गङ्गाधर-टिळकस्य नेतृत्वे अशेष-राष्ट्रं स्वदेशि-आन्दोलने सहभागित्वमावहत् | संस्कृत-पत्रकारितायाः कृते एतत् सम्वर्धन-युगमासीत् | तस्मिन्न- वसरे देशस्य विभिन्नेभ्यो भागेभ्यः अनेकाः संस्कृत-पत्र-पत्रिकाः प्रकाशिताः, यासु ‘भारतधर्मः’ [१९०१ ई.], ‘श्रीकाशीपत्रिका’ [१९०७ ई.], ‘विद्या’ [१९१३ ई.], ‘शारदा’ [१९१५ ई.], ’संस्कृत-साकेतम्’ [१९२० ई.] प्रभृतयः प्रमुखाः आसन् | ‘अर्वाचीनसंस्कृतसाहित्या’नुसारं १९१८-तमे वर्षे पटनातः संस्कृत-संजीवन-समाजेन पाक्षिकस्य ‘मित्रम्’-इत्यस्य प्रकाशनमारब्धमासीत् |

   स्वतन्त्रता-संग्राम-दिनेषु अपराः प्रमुखाः संस्कृत-पत्रिकाः आसन् – ‘आनन्दपत्रिका’ [१९२३ ई.], ‘गीर्वाणः’ [१९२४ ई.], ‘शारदा’ [१९२४ ई.], ‘श्रीः’ [१९३१ ई.], ‘उषा’ [१९३४ ई.], ‘संस्कृत-ग्रन्थमाला’ [१९३६ ई.], ‘भारतश्रीः’ [१९४० ई.] चेत्यादयः | १९३८-तमे वर्षे कानपुरतः अखिलभारती- य-संस्कृत-साहित्य-सम्मलेनस्य “संस्कृत-रत्नाकरः”-इति मासिकं मुखपत्रम् आरब्धम् | श्रीकेदारनाथ -शर्मा अस्य सारस्वतः सम्पादकः प्रकाशकश्चासीत् | १९४३-तमे वर्षे राष्ट्रिय-संस्कृत-विद्यापीठेन “गंगानाथ-झा-रिसर्च-जर्नल्”-इति त्रैमासिकी पत्रिका प्राकाश्यमानीता |

   स्वतन्त्रता-प्राप्तेरनन्तरं भारतस्य नाना-भागेभ्यः प्रकाश्यमानासु प्रमुखासु संस्कृत-पत्रिकासु, ‘ब्राह्मण-महासम्मेलनम्’ [१९४८ ई.], ‘गुरुकुलपत्रिका’ [१९४८ ई.], ‘भारती’ [१९५० ई.], ‘संस्कृत-भवितव्यम्’ [१९५२ ई.], ‘दिव्यज्योतिः’ [१९५६ ई.], ‘शारदा’ [१९५९ ई.], ‘विश्व-संस्कृतम्’ [१९६३ ई.], ‘संविद्’ [१९६५ ई.], ‘गाण्डीवम्’ [१९६६ ई.], ‘सुप्रभातम्’ [१९७६ ई.], ‘संस्कृत-श्रीः’ [१९७६ ई.] ‘प्रभातम्’ [१९८० ई.], ‘लोकसंस्कृतम्’ [१९८३ ई.], ‘व्रजगन्धा’ [१९८८ ई.], ‘श्यामला’ [१९८९ ई.] प्रभृतयः परिगण्यन्ते | आसु सर्वासु संस्कृत-पत्र-पत्रिकासु सन्निहितानां विविध-विषयाणां समीक्षणेन सप्रमाणमिदं वक्तुं शक्यते यत् संस्कृत-पत्रकारिता वैविध्य-समावेशिनी सती सर्वदैव सर्वत्र च व्यराजत |

   अस्मिन्नेव अवधौ [१९७०-तमे वर्षे ] संस्कृत-पत्रकारितायाः क्षेत्रे विशिष्टा ऐतिहासिकी घटना समपद्यत यस्याः महानायकः आसीत् – कर्नाटक-राज्यस्य मैसूरू-नगरस्थः सुप्रसिद्धः संस्कृत-विद्वान्, गीर्वाणवाणीभूषणः, विद्यानिधिः, पण्डित-कळले-नडादूरु-वरदराजय्य- ङ्गार्यः, येन मैसूरू-तः “सुधर्मा” इति दैनिकं संस्कृत-वार्त्ता-पत्रं प्रकाश्य विश्व-पत्रकारितायाः मञ्चोपरि संस्कृत-पत्रकारितायाः ध्वजमुत्तोलितवान् | नैक-संवत्सर-पूर्वं दिवङ्गतेsपि पण्डित-कळले-नडादूरु-वरदराजय्यङ्गार्य-वर्ये, अधुनापि तस्यात्मजः श्रीसम्पत्कुमारः सम्पादकत्वेन ‘सुधर्मा’-सातत्यं संधारयति, यद्यपि पूर्वं कदाचित् १९०७-तमे वर्षे जान्युआरिमासे प्रथम-दिनाङ्कात् केरळे थिरुअनन्तपुरम्-तः “जयन्ती”-नामकं दैनिकं संस्कृत-वार्त्ता-पत्रं प्रकाश्य श्रीकोमल-मारुताचार्येण श्रीलक्ष्मीनन्द-स्वामिना च अभूतपूर्वं साहसं प्रदर्शितमासीत् किन्तु धनस्य ग्राहक-पाठकयोश्च अभाव-कारणात् संस्कृत-दैनिकस्य अस्य प्रकाशनं कतिपय-दिनाभ्यन्तरे एव पिधातुं विवशौ जातौ-श्रीकोमल-मारुताचार्यः श्रीलक्ष्मीनन्द-स्वामी च | कालान्तरे, कानपुरतोsपि कतिपय-मासार्थं “सुप्रभातम्”-नामकं दैनिकं संस्कृत-वार्त्ता-पत्रं प्रकाशितं जातं किन्तु पाठक-ग्राहकयोः अभावात् एतदपि अवरुद्धम् |

संस्कृत-पत्रकारितायाः अधुनातनं स्वरूपम् –
   संस्कृतं नाम भारतस्य सांस्कृतिकं रिक्थम् | एतद्देशस्य अभिज्ञानम् | भारतस्य अस्मिता | स्वतन्त्र-भारतस्य भाषा-सम्बद्धायाः नीतेः चक्रव्यूहमुपेक्ष्य पश्यामः चेत् अद्यत्वे संस्कृतपत्रकारितायाः क्षेत्रेsनारतं विधीयमान् विविधान् प्रयोगान् परीक्षामहे चेत्, नूनमेतत् प्रतिभाति यत् विश्वस्य अधिकाधिकाः भाषाः, अमुना वैज्ञानिकेन गणितात्मकेन पूर्णेन च वाणी-विज्ञानेन लाभान्विताः भवन्ति | Computational Linguistic Science-इति विज्ञान-जातं परिपोष- यितुं सम्वर्धयितुञ्च संस्कृतस्य शब्दानुशासनं समधिकं सहायकं जायते | प्रवर्तमाने एतादृशि परिदृश्ये केषाञ्चन विशिष्ट-कारणानां कारणात् मन्दतामापन्ना संस्कृत-पत्रकारिता, आधुनिक-सञ्चार-माध्यमानां सर्वविध-क्षेत्रेषु सामाजिक-सञ्चार-माध्यमेषु च स्वीयां समुपयोगितां प्रभावञ्च सुतरां प्रतिष्ठापयति |

   संस्कृत-पत्रकारितायाः आधुनिक-युगं सुनिश्चेतुं यदि वयं एकविन्श-शताब्द्याः आरम्भ-कालं स्वीकुर्मश्चेत्, किञ्चित्-सिंहावलोकनं कृत्वा विन्श-शताब्द्याः अन्तिम-दशक-त्रये सञ्जातायाः सूचना-क्रान्तेः प्राविधिक-विकास-प्रक्रियायाः च समीक्षा व्यापक-परिधौ परिशीलनीया | अत्रभवन्तः सुधी-पाठकाः मम सङ्केतमवगतवन्तः इति मन्ये |

   वैविध्य-समावेशिन्याः संस्कृत-पत्रकारितायाः विकास-शृंखला-क्रमे अपरैका ऐतिहासिकी घटना घटिता, नूनं सात्र समुल्लेखनीयास्ति | भारत-सरकारस्य सूचना-प्रसारण-मन्त्रालयेन आरम्भे प्रयोगात्मक-रूपेण १९७४-तमे वर्षे जून-मासे ३०-तमे दिनाङ्के प्रातः ९-वादने आकाशवाण्याः दिल्ली-केन्द्रात् राष्ट्रिय-प्रसारणत्वेन संस्कृत-वार्त्तानां पञ्च-मिनिटात्मकं प्रसारणमारभ्य ताः सर्वाः अपि भ्रान्तयोsपाकृताः, ते सर्वेsपि चापवादाः अपसारिताः यत् संस्कृतं नाम भाषित-भाषात्वेन व्यवहर्तुं नैव शक्यते वा प्राविधिकाः विचाराः संस्कृतेन अभिव्यञ्जयितुं नैव शक्यन्ते इति | अस्य राष्ट्रिय-संस्कृत-वार्त्ता-प्रसारणस्य लोकप्रियतां सर्वजन-ग्राह्यताञ्च आलक्ष्य कतिपय-मासानन्तरं अपरमेकं पञ्च-मिनिटात्मकं संस्कृत-वार्त्तानां राष्ट्रिय-प्रसारणं सायं दश-मिनिटधिक-षड्-वादनतः आरब्धम् | नैतावदेव, १९९४-तमे वर्षे ओगष्ट-मासे २१-तमे दिनाङ्के रविवारे दूरदर्शनेन साप्ताहिकं संस्कृत-वार्ता-प्रसारणमारभ्य अभिनवं कीर्त्तिमानं प्रतिष्ठापितम् | ईश्वरानुग्रहेण दूरदर्शनात् प्रथमस्य साप्ताहिक-राष्ट्रिय-संस्कृत-वार्त्ता-प्रसारणस्य शुभावसरः आसां पङ्क्तीनां लेखकेन अवाप्तः | एतदनु, कतिपय-वर्षानन्तरं दूरदर्शनस्य साप्ताहिक-संस्कृत-वार्त्ता-प्रसारणमिदं पञ्च-मिनिटात्मका- वधये प्रतिदिनं प्रातः प्रसारयितुमारब्धम् | अतः सप्रमाणमिदं वक्तुं शक्यते यत् संस्कृत-पत्रकारिता वैविध्य-समावेशिनी सती सर्वदैव सर्वत्र च व्यराजत |

   अस्मिन्नेव काल-खण्डे अपरैका ऐतिहासिकी घटना संवृत्ता यया संस्कृत-पत्रकारितायाः प्रवर्त्तमाना मन्दगतिः तीव्रतरा विहिता | संस्कृतानुरागिणः केचन समुत्साहिनो युवानः एतेषु दशकेषु संस्कृतं भाषित-भाषात्वेन प्रतिष्ठापयितुं संघटनात्मक-रूपेण सक्रियाः सन्तः राष्ट्रव्यापि-अभियानान्तर्गतं संस्कृत-प्रचार-कार्याणि कुर्वन्तः चासनम्, गच्छता कालेन एतानि प्रचार-कार्याणि साम्प्रतम् अन्ताराष्ट्रिय-स्तरे विधीयन्ते | कर्णाटके बंगलूरु-नगरे कार्यरतं “हिन्दू-सेवा-प्रतिष्ठानम्”, अधुनातनरूपेण च “संस्कृत-भारती”, “लोकभाषा-प्रचार-समितिः” “विश्व-संस्कृत-प्रतिष्ठानम्” प्रभृतीनि कानिचित् एतादृन्शि नामानि सन्ति, यैः पत्रकारितायाः अधुनातन-स्वरूपं व्यवस्थापयितुं व्यापकतरञ्च विधातुं महत्-योगदानमनुष्ठितम्, अपि च, प्रत्येकमपि संस्कृतानुरागी समाश्वासितोsस्ति यत् कालोsयं समुपागतः यदा न केवलं भारतीयाः, वैदेशिकाः अपि, धाराप्रवाहेण संस्कृतं भाषिष्यन्ते | अस्म्न्नेव शृंखला-क्रमे “संस्कृत-भारती” १९९९-तमे वर्षे बंगलूरू-तः “सम्भाषण-सन्देशः” इति मासिक-पत्रिकां प्राकाशयत् | मासिक-पत्रिकैषा स्वीय-कलेवर-सज्जायाः, सरल-संस्कृत-भाषायाः विषय-वैविध्यस्य च कारणात् देशे विदेशेषु चातितरां लोकप्रिया प्रवर्त्तते | एवं हि प्रवर्तमानासु विविध-विषयिणीषु आसु पत्र-पत्रिकासु - संवित् [ पाक्षिकं पत्रम् ], संस्कृत-बाल-संवादः [ मासिकं पत्रम् ], गीर्वाणी [ मासिकं पत्रम् ], महास्विनी [ षाण्मासिकं पत्रम् ], आरण्यकम् [ षाण्मासिकं पत्रम् ], संस्कृत-सम्मेलनम् [ त्रैमासिकं पत्रम् ], अर्वाचीन-संस्कृतम् [ त्रैमासिकं पत्रम् ], आर्षज्योतिः [ मासिकं पत्रम् ], संस्कृत-प्रतिभा [ त्रैमासिकं पत्रम् ], संस्कृत-मञ्जरी [ त्रैमासिकं पत्रम् ], संस्कृत-वार्त्ता [ त्रैमासिकं पत्रम् ], संस्कृत-विमर्शः [ वार्षिकं पत्रम् ], अभिव्यक्ति-सौरभम् [ त्रैमासिकं पत्रम् ], अतुल्यभारतम् [ मासिकं पत्रम् ], संस्कृतवाणी [ पाक्षिकं पत्रम् ], संस्कृत-सम्वादः [ पाक्षिकं पत्रम् ], संस्कृत-रत्नाकरः [ मासिकं पत्रम्], दिशा-भारती [ त्रैमासिकं पत्रम् ], देव-सायुज्यम् [ त्रैमासिकं पत्रम् ], संस्कृत-वर्तमानपत्रम् [ दैनिकं पत्रम् ], विश्वस्य वृत्तान्तम् [ दैनिकं पत्रम् ], संस्कृत-साम्प्रतम् [ मासिकं पत्रम् ], निःश्रेयसम् [षाण्मासिकं पत्रम् ], श्रुतसागरः [ मासिकं पत्रम् ], सेतुबन्धः [ मासिकं पत्रम् ], हितसाधिका [पाक्षिकी पत्रिका], दिव्यज्योतिः [ मासिकं पत्रम् ], रावणेश्वर-काननम् [ मासिकं पत्रम् ], रसना [ मासिकं पत्रम् ], दूर्वा [ त्रैमासिकं पत्रम् ], नाट्यम् [ त्रैमासिकं पत्रम् ], सागरिका [ त्रैमासिकं पत्रम् ], ऋतम् [ द्विभाषिकं मासिकं पत्रम् ], स्रग्धरा [ मासिकं पत्रम् ], अमृतभाषा [साप्ताहिकं पत्रम् ], प्रियवाक् [ द्वैमासिकं पत्रम् ], दिग्दर्शिनी [ त्रैमासिकं पत्रम् ], वसुन्धरा [ त्रैमासिकं पत्रम् ], संस्कृत-मन्दाकिनी [ षाण्मासिकं पत्रम् ], लोकप्रज्ञा [ वार्षिकं पत्रम् ], लोकभाषा-सुश्रीः [ मासिकं पत्रम् ], लोकसंस्कृतम् [त्रैमासिकं पत्रम् ], विश्वसंस्कृतम् [ त्रैमासिकं पत्रम् ], स्वरमङ्गला [ त्रैमासिकं पत्रम् ], भारती [ मासिकं पत्रम् ], रचना-विमर्शः [ त्रैमासिकं पत्रम् ], सरस्वती-सौरभम् [ मासिकं पत्रम् ] संस्कृतश्रीः [ मासिकं पत्रम् ], वाक् [ पाक्षिकं पत्रम् ], अजस्रा [ त्रैमासिकं पत्रम् ], परिशीलनम् [ त्रैमासिकं पत्रम् ], प्रभातम् [दैनिकं पत्रम् ], व्रजगन्धा [ त्रैमासिकं पत्रम् ], संगमनी [ त्रैमासिकं पत्रम् ], विश्वभाषा [ त्रैमासिकं पत्रम् ], भास्वती [ षाण्मासिकं पत्रम् ], कथासरित् [ षाण्मासिकं पत्रम् ], दृक् [ षाण्मासिकं पत्रम् ], वाकोवाकीयम् [ षाण्मासिकं पत्रम्], वैदिक-ज्योतिः [षाण्मासिकं पत्रम् ], अभिषेचनम् [षाण्मासिकं पत्रम्], अभ्युदयः [षाण्मासिकं पत्रम्] सत्यानन्दम् [ मासिकं पत्रम् ], संस्कृत-साहित्य-परिषत्-पत्रिका [ त्रैमासिकं पत्रम् ] चेत्यादयः अन्यतमाः सन्ति | आभिः वैविध्य-समावेशिन्याः संस्कृत-पत्रकारितायाः क्षेत्रं समधिकं सक्रियं व्यापकतरञ्च विहितम्|

   एतदतिरिच्य, Hindustan Samachar- इति पृथग् एकं संस्कृत-वार्त्तनाम् अभिकरणं [ न्यूज-एजेन्सी ] अपि प्रवर्त्तते | एते सर्वेsपि संस्कृत-पत्रकाराः संस्कृत-कर्मिणश्च हार्दिकाभिनन्दनेन मंगलकामनाभिश्च वर्धाप्यन्ते !

वैद्युदाणविक-युगे [ Electronic Era ] बहव्यः ई-पत्रिकाः अपि प्रकाश्यन्ते -
   एतासु प्राची प्रज्ञा [मासिकी ई-पत्रिका ], जान्हवी [ त्रैमासिकी ई-पत्रिका ], संस्कृत-सर्जना [ त्रैमासिकी ई-पत्रिका ] सम्प्रति वार्त्ताः [ दैनिकं ई-पत्रम् ], अपि च, सम्प्रति वार्त्ताः-इति दैनिकं [ई-पत्रीय-दृश्यवार्त्ता-प्रसारणम्] चादयः प्रमुखाः सन्ति |

    सुधी-पाठकाः वृत्तमेतत् विज्ञाय सुखदमाश्चर्यम् अनुभविष्यन्ति यत् विगत-वर्ष-त्रयाद् [ online-संस्कृत-radio ] www.divyavanee.in... - इति नाम्ना संस्कृत-भाषिकान् विविधान् कार्यक्रमान् अहर्निशं प्रसारयति | पाण्डिचेरीस्थः श्री-ओरबिन्दो-आश्रमस्य समर्पित-विद्वान् डॉ.सम्पदानन्द-मिश्रः अस्य प्रसारणस्य प्रवर्तकः मार्गदर्शकश्च वर्त्तते |

   राष्ट्रिय-संस्कृत-संस्थान-श्रीलाल-बहादुर-शास्त्री-राष्ट्रिय-संस्कृत-विद्यापीठ-तुल्यानि संस्थानानि विश्वविद्यालयाश्च संस्कृत-पत्रकारितायाः पाठ्यक्रमान् आरभन्त | आशास्यते यत् कतिपय-कालानन्तरम् एतेभ्यः संस्थानेभ्यो निर्गताः प्रशिक्षिताः संस्कृतस्य पूर्णकालिकाः पत्रकाराः वार्त्ताहराश्च नूनं सक्रियाः भवितारः, अपि च, वैविध्य-समावेशिन्याः संस्कृत-पत्रकारितायाः कार्याणि प्रभावञ्च प्रवर्धयितारः | विगत-वर्ष-द्वये केरळे चत्वारि लघु-चलचित्राणि संस्कृत-भाषया विनिर्मितानि, तानि च दर्शकैः अतितरां प्रशंसितानि | थिरुवनंतपुरम्-तः प्रचाल्यमाना मलयालम-भाषिका “जनम्”- दृश्यवाहिनी २०१५-तमे वर्षे ओक्टोबर-मासे द्वितीय-दिनाङ्कात् [ गान्धि-जयन्ती-तः ] नियतरूपेण प्रतिदिनं १५-मिनिटात्मकं संस्कृत-वार्त्ता-प्रसारणमारभत |

   विगत-वर्ष-द्वयात् दूरदर्शनतः प्रसार्यमाणः वार्त्तावलीति साप्ताहिकः संस्कृत-कार्यक्रमः सुतरां लोकप्रियतां भजते | एवं हि, विगत-वर्ष-पञ्चकात् आकाशवाण्याः इन्द्रप्रस्थ-वाहिकातः मासे द्विवारं [ प्रथमे तृतीये च शनिवासरे, रात्रौ सार्ध-नववादने ] प्रसार्यमाणः अर्ध-होरावधिकः “संस्कृत-सौरभम्” इति कार्यक्रमः श्रोतृभिः सुतरां स्पृह्यते | एतानि तथ्यानि परिभाव्य सविश्वासं वक्तुं शक्यते यत् वैविध्य-समावेशिन्याः संस्कृत-पत्रकारितायाः भविष्यत् सकारात्मकं समुज्ज्वलं चास्ति |
डॉ. बलदेवानन्द-सागरः Email- baldevanand.sagar@gmail.com